Sutras 101 - 110¶
- 14101: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
- 14102: तान्येकवचनद्विवचनबहुवचनान्येकशः
- 14103: सुपः
- 14104: विभक्तिश्च
- 14105: युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः
- 14106: प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च
- 14107: अस्मद्युत्तमः
- 14108: शेषे प्रथमः
- 14109: परः सन्निकर्षः संहिता
- 14110: विरामोऽवसानम्