14110: विरामोऽवसानम्

Padacheda: विरामः | S | 1 | 1 |

अवसानम् | S | 1 | 1 |

Sutrartha

वर्णानाम् अभाव: अवसानसंज्ञकः भवति ।

व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति <hlb>अवसानम्</hlb> इति संज्ञा, या प्रकृतसूत्रेण पाठिता अस्ति । अर्धमात्रायाः अपेक्षया अधिकम् कालम् यावत् उच्चारणस्य अभावः इति**अवसानम् इति संज्ञया निर्दिश्यते** - इति अस्य सूत्रस्य आशयः । यथा, <ex>फलम्</ex> इत्यत्र मकारात् अनन्तरम् कोऽपि वर्णः न विद्यते, अतः मकारात् अनन्तरम् अवसानम् अस्ति इति उच्यते । एवमेव, <ex>फलम् पतति</ex> इत्यत्र “फलम्” इति उक्त्वा ततः अर्धमात्रातः अधिकं विरामं स्वीकृत्य ततः “पतति” इति उच्चार्यते चेत् अत्रापि मकारात् अनन्तरम् अवसानम् अस्ति इति उच्यते

अवसानसंज्ञायाः प्रयोजनम्

अष्टाध्याय्याम् अवसान**संज्ञायाः आहत्य त्रीणि प्रयोजनानि वर्तन्ते — <listsp> <li>1) <hlb> विसर्गनिर्माणम् </hlb> — **खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन सूत्रेण पदान्तरेफस्य अवसाने परे विसर्गादेशः भवति । यथा, “राम”-शब्दस्य प्रथमैकवचनस्य रूपसिद्धौ —

राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः। अग्रे **सुप्तिङन्तम् पदम्** (1.4.14)  इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]
→ राम + रुँ [**ससजुषो रुँ** (8.2.66) इति रुँत्वम् ]
→ रामः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति अवसाने परे रेफस्य विसर्गः]

<li>2) <hlb> वैकल्पिकं चर्त्वम् </hlb> — वाऽवसाने (8.4.56) इत्यनेन सूत्रेण पदान्ते विद्यमानस्य “जश्”-वर्णस्य अवसाने परे विकल्पेन चर्त्वं भवति ।यथा, “राम”-शब्दस्य पञ्चम्येकवचनस्य रूपसिद्धौ —

राम + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ राम + आत् [**टाङसिङसामिनात्स्याः** (7.1.12) इति आत्-आदेशः]
--> रामात् [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः]
--> रामाद् [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्]
--> रामाद्, रामात् [**वाऽवसाने** (8.4.56) इति विकल्पेन चर्त्वम् ।]

<li>3) <hlb>वैकल्पिकः अनुनासिकादेशः </hlb> — अणोऽप्रगृह्यस्यानुनासिकः (8.4.57) इत्यनेन प्रगृह्यभिन्नशब्दानाम् अन्ते विद्यमानः अण्-वर्णः अवसाने परे विकल्पेन अनुनासिकत्वं प्राप्नोति । यथा, “दधि” शब्दस्य प्रथमैकवचनम् “दधि” इत्यत्र धकारोत्तरः इकारः अवसाने परे अनेन सूत्रेण विकल्पेन अनुनासिकः भवति, येन “दधि” तथा च “दधिँ” एते द्वे रूपे भवतः । </listsp>

संहिता तथा अवसानम्

संहिता तथा विरामः एतौ विरुद्धार्थकशब्दौ । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र संहिता अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र अवसानम् अस्ति इति उच्यते ।

अस्य सूत्रस्य प्रत्याख्यानम्

विरामोऽवसानम् (1.4.110) इत्यस्मिन् सूत्रे भाष्यकारः <!संहितावसानयोः लोकविदितत्वात् सिद्धम्!> इति किञ्चन वार्त्तिकं पाठयति । संहिता तथा अवसानम् एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारस्य आशयः वर्तते । अस्मिन् एव विषये कैयटः प्रदीपे — <inline>न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात्</inline> — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे ।

Sutrartha (English)

Absence of letters is called अवसान.

Vasu English Summary

The cessation or the absence of succeeding letters is called pause or अवसान।

Vasu English Translation

The cessation or the absence of succeeding letters is called pause or अवसान। The word avasana occurs in sutra (8.3.15) &c.

Bhashya

विरामोऽवसानम् इदं विचार्यते - अभावो वाऽवसानलक्षणं स्याद्विरामो वेति ? कश्चात्र विशेषः ? अभावेऽवसानलक्षणे उपर्यभाववचनम् ॥ 1 ॥ अभावेऽवसानलक्षणे उपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः, रथः, खरवसानयोविसर्जनीयः (8.3.16) इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि - विरामः । विरामे विरामवचनम् ॥ 2 ॥ यस्य विरामः, विरामग्रहणं तेन कर्तव्यम् । ननु च यस्याऽप्यभावस्तेनाऽप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति - अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति - विरामो लोपः, अवसानं चेति । उपरिविरामवचनम् ॥3 ॥ उपरि यो विराम इति वक्तव्यम् । पुरस्तादपि (हि) शब्दस्य विरामस्तत्र मा भूत् । किं च स्यात्? रसः रथः, खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । नैष दोषः आरम्भपूर्वको मम विरामः । अथवा नेदमवसानलक्षणं विचार्यते । किं तर्हि ? संज्ञी । अभावोऽवसानसंज्ञी स्याद्विरामो वेति । कश्चात्र विशेषः ? अभावेऽवसानसंज्ञिन्युपर्यभाववचनम् ॥ 4 ॥ अभावेऽवसानसंज्ञिन्युपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः रथः, खरवसानयोर्विसर्जनीय इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि - विरामोऽवसानम् । विरामे विरामवचनम् ॥ 5 ॥ यस्य विरामस्तेन विरामग्रहणं कर्तव्यम् । ननु च यस्याप्यभावस्तेनाप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति - अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति - विरामो लोपोऽवसानं चेति । उपरि यो विराम इति वक्तव्यम् । ननु चोक्तम् - आरम्भपूर्वके - इति । नावश्यमयं रमिः प्रवृत्तावेव वर्तते । किं तर्हि ? अप्रवृत्तावपि । तद्यथा, - उपरतान्यस्मिन्कुले व्रतानि उपरतः स्वाध्याय इति । न च तत्र स्वाध्यायो भूतपूर्वो भवति, नापि व्रतानि । भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं न ॥ 5 ॥ भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं नोपपद्यते । किमिदं भावाऽविरामभावित्वादिति ? भावस्याऽविरामो भावाऽविरामः, भावाऽविरामेण भवतीति भावाऽविरामभावी, भावाऽविरामभाविनो भावो भावाऽविरामभावित्वम् । अपर आह - भावभावित्वादविरामभावित्वाच्च शब्दस्याऽवसानलक्षणं नोपपद्यते - इति । तत्पर इति वा वर्णस्याऽवसानम् ॥ 6 ॥ विरामपरो वर्णोऽवसानसंज्ञो भवतीति वक्तव्यम् । वर्णोऽन्त्यो वाऽवसानम् ॥ 7 ॥ अथवा व्यक्तमेव पठितव्यम् - अन्यो वर्णोऽवसानसंज्ञो भवतीति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । संहिताऽवसानयोर्लोकविदितत्वात्सिद्धम् ॥ 8 ॥ संहिताऽवसानमिति लोकविदितावेतावर्थौ । एवं हि कश्चित्कंचिदधीयानमाह-शन्नोदेवीयं संहितयाऽधीष्वेति । स तत्र परमसन्निकर्षमधीते । अपर आह-केनाऽवस्यसीति ? स आह - अकारेणेकारेणोकारेणेति । एवमेतौ लोकविदितावर्थौ, तयोर्लोकविदितत्वात्सिद्धमिति ॥ 110 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे चतुर्थमाह्निकम् । पादश्च समाप्तः । प्रथमोऽध्यायः समाप्तः । (221 समर्थपरिभाषासूत्रम् ॥ 2.1.1। अ.1 सू.)

Kashika

विरतिर्विरामः। विरम्यतेऽनेनेति वा विरामः। सोऽवसानसंज्ञो भवति। दधिँ। मधुँ। वृक्षः। प्लक्षः। अवसानप्रदेशाः — खरवसानयोर्विसर्जनीयः (८.३.१५) इत्येवमादयः॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः॥

Siddhanta Kaumudi

वर्णानामभावोऽवसानसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

वर्णानामभावोऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥

Laghu Shabdendushekhar

विरामोऽवसानम् ।शब्दानुशासनप्रस्तावादाह वर्णानामिति । उच्चारणाभाव इत्यर्थः । स च व्याख्यानात्किञ्चिद्वर्णोच्चारणानन्तरकालिक एव गृह्यते । प्रदेशाः वावसाने (8.4.56) । अभावस्यापि बुद्धिकृतं पौर्वापर्यं वर्णवत् ।

Balamanorama

विरामोऽवसानम् - विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः । सामीपिकेऽधिकरणे घञ् । विरमणं-क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद्वर्णानामुच्चारणाऽभावात्मक इति लभ्यते । तथा चयस्मिन्वर्णे उच्चारिते सति अव्यवहितात्तरकाले वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक॑ इत्यर्थः फलति । तदभिप्रेत्य व्याचष्टे — वर्णानामिति । यस्मिन्नुच्चारिते सति वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक इत्यद्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाऽभावो विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एव गृह्रते , व्याख्यानात् । अस्मिन् पक्षेकिञ्चिद्वर्णोच्चारणोत्तरं वर्णान्तराणामुच्चारणाभावोऽवसान॑मिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतो रेफस्य विसर्गः, अवसाने तुरेफे स्थानिनी॑ति योज्यम् । खपवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् ।

Tattvabodhini

विरामोऽवसानम् - विरामोऽवसानम् । विरमणं विरामः । भांवेघञ् । शब्दानुसासनप्रस्तावादाह-वर्णानामिति । संज्ञाप्रदेशाः-वावसाने॑ इत्यादयः । अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव, यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम् । यद्वा विरम्यतेऽनेनेति विरामः, बाहुलकात्करणे घञ् । यदुच्चारणोत्तरं वर्णान्तरं नोच्चार्यते सोऽन्त्यवर्णोऽवसानसंज्ञ इत्यर्थः । अस्मस्तु पक्षेखरवसानयोः॑ इत्येकापि सप्तमी विषयभेदाद्भिद्यते-खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति ।

Padamanjari

विरतिर्विराम इति। विराम इति भावे घञ्। विरामःउ वर्णोच्चारणाभावः। अर्थान्तरमाह - विरम्यतेऽनेनेति वा विराम इति।’कृत्यल्युटो बहुलम्’ इत्यसंज्ञायामपि’हलश्च’ इति करणे घञ्, पूर्वत्राभावः संज्ञी उतरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षेठ्खरवसानयोःऽ इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं’वावसाने’ इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते - खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं’वा’ वसानेऽ इत्यत्रापि। दधिं मधुÄ इति । ठणोऽप्रगृह्यस्यानुनासिकःऽ अत्र’वावसाने’ इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह - संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्तिककारो मन्यते॥ हरदतमिश्रविरचितायां पदमञ्जर्यो प्रथमाध्यायस्य चतुथः पादः॥

Nyaas

विरतिर्विरामः इति। भावे घञ्। विरामो वणोच्चारणाभावोऽवसानसंज्ञो भवति। विरम्यतेऽनेनेति विरामः इति विरामशब्दस्य द्वितीयमर्थं दर्शयति। कृत्यल्युटो बहुलम् (3.3.113) इति बहुलवचनादसंज्ञायामपि हलश्च (3.3.121) इति घञ्। अत्र पक्षे येनान्त्येन वर्णेन विरम्यते सोऽवसानसंज्ञो भवति। तत्र पूर्वस्मिन् पक्षेऽभावे पौर्वापर्याभावात् खरवसानयोः (8.3.15) इत्यत्रावसानापेक्षया विषयसप्तमीयं विज्ञायते; न परसमप्तमी। खरपेक्षया तु सप्तमीयम्।अन्ये तु - यद्यभावे पौर्वापर्यं न सम्भवतीत्यवसनापेक्षया खरवसानयोः (8.3.15) इति परसप्तमी नोपपद्यते, तदा इको यणचि (6.1.77) इत्यादावपि परसप्तमी नोपपद्यते। कथम्? वर्णानां क्रमभावित्वात्, उच्चरितप्रध्वंसितत्वाच्च। यदेगस्ति तदाञ् नास्ति, यदा त्वजस्ति तदेग् नास्ति। अथात्र बुद्धिप्रकल्पितं पौर्वापर्यमाश्रित्य परसप्तमीष्यते, तदा खरवसानयोः (8.3.15) इत्यत्रापितथैवैष्टव्येति मन्यमाना अवसानापेक्षयापि परसप्तमीमिच्छन्ति।अपरे तु - अन्त्यस्य तु वर्णस्यावसानसंज्ञायां सत्यां खरवसानयोः (8.3.15) इति षष्ठी विज्ञायते। अत्रावसानापक्षया स्थानषष्ठी। रेफस्यावसानस्य विसर्जनीय इति खरपेक्षया तवानन्तर्यलक्षणा षष्ठीति वदन्ति। तन्मते स्थानषष्ठआं हि रो रि (8.3.14) इत्यतो रेफस्यानुवृत्तस्य यत् स्थानित्वं तदविरुध्यते तदेवमेकापि विभक्तिर्यथायोगं विभज्यते। ननु चाभावपक्षेऽपि पूर्वस्मिन्नपि भागेऽनुच्चारममस्ति, तत्रापि विसर्जनीयः प्राप्नोति - रथ इति, अस्ति ह्यत्रापि रेफात् प्रागुच्चारणम्? नैष दोषः तत्र हि प्रकृतं पदग्रहणं रेफेण विशिष्यते - रेफान्तस्य पदस्येति। न च पूर्वेण रेफेण पदं भवति। नन्वेवप्यर्थस्यैषा संज्ञा स्यादिति खरवसनायोः (8.3.15) इत्यत्र तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति परिभाषा नोपतिष्ठते। शब्दे हि सप्तमीनिर्दिष्टे सतीयमुपतिष्ठते, नार्थे। तदनुपस्थाने च परेण रेफेण रेफान्तस्य रथ इत्येतस्य पदस्य पूर्वो यो रेफस्तस्य व्यवहितस्यापि विसर्जनीयः स्यात्, नैष दोषः; ज्ञापकान्न भविष्यति, यदयं उरण् रपरः (1.1.51) इति व्यवहितस्य रेफस्य विसर्जनीयमकृत्वा निर्देशं करोति, तज्ज्ञापयति- व्यवहितस्य रेफस्य विसर्जनीयो न भवतीति। नन्वत्र लोके प्रसिद्धेरेवायन्त्ये वर्णेऽवसानशब्दस्य सम्प्रत्ययो भविष्यति। प्रसिद्धो हि लोके - अन्त्ये वर्णेऽवस्यतेः प्रयोगः। तथा हि केनावस्यतीत्युक्ते वक्तारो वदन्ति - इकारेणोकारेण वेति। इकारादिवर्णेनावसानं करोतीत्यर्थः। ततः प्रदेश एवावसानग्रहणं कर्तव्यमिति नार्थः संज्ञासंज्ञिप्रणनेन, नैतदस्ति; अपूर्वो हि स्यतिः परिसमाप्तावपि वर्तते - अवसितो वाद इति, अवगमेऽपि वर्तते - अवसितोऽर्थ इति, पराभवेऽपि वर्तते - द्वयोर्विवादेऽवसितो दवदत्त इति। तत्र यदीयं नारभ्यते, तदावसानग्रणे सन्देहः स्यात् - किमभिधानावसानशब्दस्य ग्रहणमिति? **विरामोऽवसानम्** (1.4.110) इति तु ह्रन्तग्रहणं कर्तव्यम् - खरन्त्ययोरिति? एतदपि नास्ति; एवं हि सन्देहः स्यात् - किमन्त्यस्य वर्णस्य? उत पदस्य? आहोस्वद्वाक्यस्येति? तत्रान्त्यस्य विशेषणार्थं वर्णग्रहणं कर्तव्यं स्यात्। तस्मात् संज्ञासंज्ञिसम्बन्धः कर्तव्यः।`वृक्षः, प्लक्षः इति। खरवसनायोर्विसर्जनीयः (8.3.15) । दधिं मधुँ इति। अणोऽप्रगृह्यस्यानुनासिकः (8.4.57) इति। अत्र हि वाऽवसाने (8.4.56) इत्यतोऽवसानग्रहणमनुवर्तते॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यचतुर्थः पादः समाप्तश्चायं प्रथमोऽध्यायः॥

Prakriyasarvasvam

वर्णानां¹ विरामोऽवसानसंज्ञः ।

Sarala

शब्दानुशासनेऽभावो भावो वा वर्णानामेव सम्भवतीत्यत आह - वर्णानामिति

Sudha

विरामोऽवसानमिति । विरम्यते अस्मिन्निति विरामः सामीपिकेऽधिकरणे घञ् । विरमणम्-क्रियाया अभावः । स च शब्दशास्त्रप्रस्तावात् वर्णानामुच्चारणाभावात्मक इति लभ्यते । तदेतदाह - वर्णानामभाव इत्यादिना । राम इति । रमन्तेयोगिनोऽनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ इति श्रुतिः । अत्रैव यदि यौगिको रामशब्द आश्रीयते तदा कृत्तद्धितसमासाश्च**(1.2.46) इत्यनेन प्रातिपदिकसंज्ञा । यदि च रूढो दशरथात्मजो रामशब्दस्तदा **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्**(1.2.45) इत्यनेन प्रातिपदिकसंज्ञा । तस्यां कृतायां **ङ्याप्प्रातिपदिकात्**(4.1.1) इतिसूत्रेण प्रातिपदिकसंज्ञकरामशब्दात् खले कपोतन्यायेन सर्वे स्वादयः प्राप्ताः, तत्र **सुपः**(1.4.103) इत्यनेन प्रथमादिसप्तम्यन्तत्रिके प्रत्येकम् एकद्विबहुवचनसंज्ञाः विहिताः । तेषु प्रथमायाः एकवचनविवक्षायां रामशब्दात् सुप्रत्यये “राम सु” इति जाते सकारोत्तरवर्त्युकारस्य **उपदेशेऽजनुनासिक इत्**(1.3.2) इतीत्संज्ञायाम् **तस्य लोपः**(1.3.9) इति लोपे “रामस्” अत्र **ससजुषो रुः**(8.2.66) इत्यनेन रुत्वे रेफोत्तरवर्तिन उकारस्येत्संज्ञायां लोपे च **खरवसानयोर्विसर्जनीयः**(8.3.15) इति विसर्गे “रामः” इति रूपम् । रामशब्दात् द्विवचनविवक्षायां प्रथमाया द्विवचने औ समागते ‘राम राम औ’ अत्र **सरूपाणामेकशेष एकविभक्तौ**(1.2.64) इति एकरामस्य शेषे सति **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घे प्राप्ते **नादिचि**(6.1.104) इत्यनेन तस्य निषेधे **वृद्धिरेचि**(6.1.88) इति वृद्धौ - **रामौ इति ।