14105: युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः

Padacheda: युष्मदि | S | 7 | 1 |

उपपदे | S | 7 | 1 |

समान-अधिकरणे | S | 7 | 1 |

स्थानिनि | S | 7 | 1 |

अपि | S | 0 | 0 |

मध्यमः | S | 1 | 1 |

Sutrartha

यदा युष्मद्-शब्देन तथा च तिङ्-प्रत्ययेन समान-पदार्थस्य निर्देशः भवति, तदा युष्मद्-शब्दस्य उपस्थितौ अनुपस्थितौ चापि धातोः मध्यमपुरुषस्यैव तिङ्-प्रत्ययाः विधीयन्ते । यथा - त्वं पश्यसि, किं पश्यसि, त्वं दृश्यसे ।

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) अनेन सूत्रेण आहत्य षण्णाम् तिङ्-प्रत्ययानाम् मध्यम: इति संज्ञा भवति । एतेषाम् मध्यम**संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति इत्यस्य नियमः अनेन सूत्रेण क्रियते । ** “युष्मद्”-शब्देन यस्य पदार्थस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः तिङ्-प्रत्ययेन अपि क्रियते चेत्, वाक्ये सः “युष्मद्”-शब्दः साक्षात् भवेत् उत न भवेत्, धातोः मध्यमसंज्ञक: तिङ्प्रत्यय: एव प्रयोक्तव्यः ** - इति अस्य सूत्रस्य आशयः । यथा - <listsp> <li>1. <ex>त्वं पश्यसि</ex> । अस्मिन् वाक्ये “त्वम्” इत्यनेन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । (यद्यपि अत्र “त्वम्” इत्यनेन कर्तृ**कारक**स्य निर्देशः न भवति, तथापि यः कर्तृसंज्ञकपदार्थः तस्य निर्देशः तु अवश्यम् एव भवति) । अपि च, “पश्यसि” इत्यत्र विद्यमानेन “तिङ्”-प्रत्ययेन अपि दर्शनक्रियायाः कर्तृकारकस्यैव निर्देशः कृतः अस्ति । इत्युक्ते, अत्र “युष्मद्”-शब्देन तथा च “तिङ्”-प्रत्ययेन **समानपदार्थस्य निर्देशः भवति । अतः “पश्यसि” इत्यत्र “सिप्” इति मध्यमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते । <li>2. <ex>किं पश्यथ</ex> । अस्मिन् वाक्ये यद्यपि “यूयम्” इति शब्दः साक्षात् न विद्यते, तथापि सः विवक्षितः अस्ति । अनेन विवक्षितेन “यूयम्” शब्देन दर्शनक्रियायाः कर्तृसंज्ञकपदार्थस्य निर्देशः भवति । अस्यैव पदार्थस्य निर्देशः <ex>पश्यथ</ex> इत्यत्र विद्यमानेन तिङ्-प्रत्ययेन अपि क्रियते । अस्यां स्थितौ, “युष्मद्”-शब्दस्य अनुपस्थितौ अपि अत्र धातोः “सिप्” इति मध्यमपुरुषस्यैव प्रत्ययः विधीयते ।

<li>3. <ex>मया युवाम् दृश्येथे </ex> । अस्मिन् वाक्ये “युवाम् “ इति शब्देन, तथा च “दृश्येथे “ इत्यत्र विद्यमानेन “आथाम्” इति प्रत्ययेन एकस्यैव पदार्थस्य (= दर्शनक्रियायाः कर्मपदस्य) निर्देशः कृतः अस्ति । अतः अत्र “दृश्येथे “ इत्यत्र आथाम् इति मध्यमपुरुषस्य प्रत्ययः प्रयुक्तः अस्ति ।

<li>4. <nex>सः त्वां पश्यति</nex> । अस्मिन् वाक्ये “त्वाम्” इति शब्देन दर्शनक्रियायाः कर्मपदस्य निर्देशः भवति, परन्तु “पश्यति” इत्यत्र विद्यमान: “तिङ्”-प्रत्ययः तु दर्शनक्रियायाः कर्तृपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र “पश्यति” इत्यत्र मध्यमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते । <li>5. <nex>त्वया अहं दृश्ये</nex> । अस्मिन् वाक्ये “त्वया” इति शब्देन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः भवति, परन्तु “दृश्ये” इत्यत्र विद्यमान: “तिङ्”-प्रत्ययः तु दर्शनक्रियायाः कर्मपदस्य निर्देशं करोति । इत्युक्ते एताभ्यां शब्दाभ्यां अत्र समानपदार्थस्य निर्देशः न क्रियते । अस्यां स्थितौ अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, अतः अत्र “दृश्ये” इत्यत्र मध्यमपुरुषसंज्ञकः प्रत्ययः नैव प्रयुक्तः दृश्यते । </listsp>

सूत्रस्य प्रतिपदार्थः

<listsp> <li>1. <hlb>उपपदे</hlb> - उपपदम् इत्युक्ते तत् पदम् यत् समीपे उच्चार्यते । कस्य समीपे उच्चार्यते ? क्रियायाः समीपे उच्चार्यते ** इति । क्रियायाः **सम्बन्धेन उच्चार्यते - इत्यर्थः । <li> 2. <hlb>युष्मदि उपपदे</hlb> - युष्मदि उपपदे इति सतिसप्तमी अस्ति । अस्य अर्थः भवति - ** यत्र “युष्मद्” इति उपपदम् विद्यते तत्र ** । इत्युक्ते, “युष्मद्”-प्रातिपदिकस्य किञ्चन रूपं यत्र क्रियायाः सम्बन्धेन प्रयुज्यते तत्र किं करणीयम् इत्यस्मिन् विषये अत्र नियमः क्रियते । <li>3. <hlb>समानाधिकरणे</hlb> - समानाधिकरणे इत्यस्य अर्थः समानाधिकरणस्य अवस्थायाम्समानाधिकरणम् इत्युक्ते समान-पदार्थस्य निर्देशः । कस्य सम्बन्धेन समानपदार्थः ? तिङ्-प्रत्ययस्य सम्बन्धेन समानपदार्थः इति । इत्युक्ते, “तिङ्”-प्रत्ययेन यस्य कारकस्य निर्देशः क्रियते, तस्यैव पदार्थस्य निर्देशः “युष्मद्”-शब्देन अपि क्रियते चेत् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति । <li>4. <hlb>स्थानिनि </hlb> - स्थानिनि इत्यपि सतिसप्तमी अस्ति । अस्य अर्थः स्थानिरूपेण विद्यमाने सति (इत्युक्ते, उपस्थिते सति) इति स्वीक्रियते । स्थानिनि इत्यत्र “स्थानिन्” इति प्रातिपदिकम् अस्ति । अयं शब्दः युष्मदि उपपदे इत्यनेन सह अन्वेति । इत्युक्ते, यत्र “युष्मद्”-शब्दस्य “तिङ्”-प्रत्ययेन सह सामानाधिकरण्यं विद्यते, तत्र “युष्मद्”-शब्दः साक्षात् उपस्थितः अस्ति चेद् प्रकृतसूत्रेण उक्तः नियमः प्रयोक्तव्यः - इति । <li>4. <hlb>अपि </hlb> - अपि इति शब्दः स्थानिनि इत्यनेन सह अन्वेति । स्थानिनि अपि इत्युक्ते उपस्थितः अस्ति चेद् अपि इति । अत्र अपि इति शब्दः समुच्चयं दर्शयति । इत्युक्ते, अनुपस्थितः अस्ति चेद् तु अवश्यमेव भवति, परन्तु उपस्थितः अस्ति चेद् अपि भवति इति अत्र अर्थः जायते । <li>5. <hlb>मध्यमः</hlb> - मध्यमः इति संज्ञा यस्य, सः प्रत्ययः (एव) विधीयते - इति अस्य अर्थः । <spacer> अनेन प्रकारेण युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः इत्यस्य समग्रः अर्थः - “युष्मद्” इति शब्दः यत्र क्रियायाः योगे सत् “तिङ्”-प्रत्ययेन निर्दिष्टस्य पदार्थस्य एव निर्देशं करोति, तत्र, “युष्मद्” इति शब्दस्य उपस्थितौ अनुपस्थितौ च अपि मध्यमसंज्ञकप्रत्ययाः एव भवन्ति - इति सिद्ध्यति । </listsp>

नियमसूत्रम् इदम्

इदं सूत्रम् नियमसूत्रम् अस्ति । “युष्मदि उपपदे, समानाधिकरणे, स्थानिनि अपि” इति अवस्थायाम् “मध्यमः <u>एव</u> प्रत्ययः भवति, न अन्यः” - इति नियमः अनेन सूत्रेण क्रियते । यत्र तिङ्-प्रत्ययस्य युष्मद्-उपपदेन सह सामानाधिकरण्यं वर्तते, तत्र मध्यमपुरुषस्यैव प्रत्ययाः प्रयोक्तव्याः - इति अस्य अर्थः ।

Sutrartha (English)

Where a form of the word युष्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the मध्यमपुरुष प्रत्ययाs.

Vasu English Summary

When the pronoun युष्मद् ‘thou’ understood, and also when the same expressed, is the attendant word in the agreement with the verb, then there is the verbal termination called the middle (2nd person).

Vasu English Translation

When the pronoun युष्मद् ‘thou’ understood, and also when the same expressed, is the attendant word in the agreement with the verb, then there is the verbal termination called the middle (2nd person). This defines the 2nd person of conjugational affixes. As त्वं पचसि thou cookest or पचसि; युवां पचथः or पचथः you two are cooking; यूयं पचथ or पचथ you cook.

Bhashya

युस्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः किमर्थमिदमुच्यते ? युष्मदस्मच्छेषवचनं नियमार्थम् ॥ 1 ॥ नियमार्थोऽयमारम्भः ॥ अथैतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपदनियमः-युष्मदि मध्यम एव, अस्मद्युत्तम एव । आहोस्वित्पुरुषनियमः - युष्मद्येव मध्यमः, अस्मद्येवोत्तम इति ? किं चातः ? यदि पुरुषनियमः शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । किं कारणम् ? मध्यमोत्तमौ नियतौ, युष्मदस्मदी अनियते, तत्र प्रथमोऽपि प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थम्-शेष एव प्रथमो भवति नान्यत्रेति । अथाप्युपपदनियमः, एवमपि शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थं - शेषे प्रथम एव भवति नान्य इति । उपपदनियमे शेषग्रहणं शक्यमकर्तुम् । कथम् ? युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । ततो वक्ष्यामि प्रथमो भवतीति । तन्नियमार्थं भविष्यति - यत्र प्रथमश्चाऽन्यश्च प्राप्नोति तत्र प्रथम एव भवतीति । तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः शेषत्वात् ॥ 2 ॥ तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्यः । त्वं च देवदत्तश्च पचथः । अहं च देवदत्तश्च पचावः किं कारणम् ? शेषत्वात् । शेषे प्रथमः इति प्रथमः प्राप्नोति । सिद्धं तु युष्मदस्मदोः प्रतिषेधात् ॥ 3 ॥ सिद्धमेतत् । कथम् ? युष्मदस्मदोः प्रतिषेधात् । शेषे प्रथमः युष्मदस्मदोर्नेति वक्तव्यम् । युष्मदि मध्यमादस्मद्युत्तमो विप्रतिषेधेन ॥ 4 ॥ युष्मदि मध्यमादस्मद्युत्तम इत्येतद्भवति विप्रतिषेधेन । युष्मदि मध्यम इत्यस्यावकाशः - त्वं पचसि । अस्मद्युत्तम इत्यस्यावकाशः - अहं पचामि । इहोभयं प्राप्नोति - त्वं चाहं च पचावः । अस्मद्युत्तमः इत्येतद्भवति विप्रतिषेधेन । स तर्हि विप्रतिषेधो वक्तव्यः ? न वक्तव्यः । त्यदादीनां यद्यत्परं तत्तच्छिष्यते इत्येवमस्मदः शेषो भविष्यति । तत्राऽस्मद्युत्तमः इत्येव सिद्धम् । अनेकशेषभावार्थं तु ॥ 5 ॥ अनेकशेषभावार्थं तु स विप्रतिषेधो वक्तव्यः। यदा चैकशेषो न । कदा चैकशेषो न ? सहविवक्षायामेकशेषः, यदा न सहविवक्षा तदैकशेषो नास्ति । न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः ॥ 6 ॥ न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? युष्मदस्मदोरनेकशेषभावात् तदधिकरणानामपि - युष्मदस्मदधिकरणानामप्येकशेषेण न भवितव्यम् । त्वं चाहं च पचसि च पचामि चेति । क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्य ॥ 7 ॥ क्रियापृथक्त्वे च द्रव्यपृथक्त्वं दृश्यते । तद्यथा, - पचसि पचामि च त्वं चाहं चेति । तदनुमानमुत्तरयोरपि क्रिययोरेकशेषो न भवतीति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति । तत्रापि ह्येवं भवितव्यम् - त्वं च देवदत्तश्च पचसि पचति च । अहं च देवदत्तश्च पचामि पचति चेति । यत्तावदुच्यते - न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेध इति, दृश्यते हि युष्मदस्मदोश्चाऽनेकशेषस्तदधिकरणानां चैकशेषः । तद्यथा, - त्वं चाहं च वृत्रहन्नुभौ संप्रयुज्यावहा इति । यदप्युच्यते - क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्येति, क्रियापृथक्त्वे स्वल्वपि द्रव्यैकशेषो भवतीति दृश्यते । तद्यथा, - अक्षाः भज्यन्तां दीव्यन्तामिति । एवं च कृत्वा सोऽपि दोषो भवति यदुक्तं - तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति । नैष दोषः । परिहृतमेतत् सिद्धं तु युष्मदस्मदोः प्रतिषेधादिति । स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । शेषे प्रथमो विधीयते, न हि शेषश्चाऽन्यश्च शेषग्रहणेन गृह्यते । भवेत्, प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते, न च युष्मदस्मदी अन्यश्च युष्मदस्मद्ग्रहणेन गृह्यते । यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः । यथैव तर्हि यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भवतः, एवं योऽत्र शेषस्तदाश्रयः प्रथमः प्राप्नोति । एवं तर्हि शेष उपपदे प्रथमो विधीयते । उपोच्चारि पदमुपपदम् । यच्चाऽत्रोपोच्चारि, न स शेषः, यश्च शेषः, न तदुपोच्चारि । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते । उपोच्चारि पदमुपपदम्, यच्चाऽत्रोपोच्चारि, न ते युष्मदस्मदी, ये च युष्मदस्मदी, न तदुपोच्चारि । एवं तर्हि शेषेण सामानाधिकरण्ये प्रथमो विधीयते, न चाऽत्र शेषेणैव सामानाधिकरण्यम् । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मद्भ्यां सामानाधिकरण्ये मध्यमोत्तमावुच्येते, न चाऽत्र युष्मदस्मद्भ्यामेव सामानाधिकरण्यम् । एवं तर्हि त्यदादीनि सर्वैनित्यम् (1.2.72) इत्येवमत्र युष्मदस्मदोः शेषो भविष्यति । तत्र युष्मदि मध्यमोऽस्मद्युत्तम इत्येव सिद्धम् । न सिध्यति । स्थानिन्यपीति प्रथमः प्राप्नोति ॥ त्यदादीनां खल्वपि यद्यत्परं तत्तच्छिष्यते इति यदा भवतः शेषस्तदाश्रयः प्रथमः प्राप्नोति । युष्मदि मध्यमोऽस्मद्युत्तम इत्येवोच्यते । ताविह न प्राप्नुतः - परमत्वं पचसि, परमाऽहं पचामीति । तदन्तविधिना। भविष्यति । इहापि तर्हि तदन्तविधिना प्राप्नुतः - अतित्वं पचति, अत्यहं पचतीति । ये चाऽप्येते समानाधिकरणवृत्तयस्तद्धित्तास्तत्र च मध्यमोत्तमौ न प्राप्नुतः - त्वत्तरः पचसि, मत्तरः पचामीति । त्वद्रूपः पचसि, मद्रूपः पचामीति । त्वत्कल्पः पचसि, मत्कल्पः पचामीति ॥ एवं तर्हि युष्मदस्मद्वतीत्येवं भविष्यति । इहापि तर्हि प्राप्नुतः-अतित्वं पचति, अत्यहं पचतीति । एवं तर्हि युष्मदि साधने अस्मदि साधने इत्येवं भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तं - -तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ॥ अथवा प्रथमः उत्सर्गः करिष्यते।तस्य युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावपवादौ भविष्यतः । तत्र युष्मद्गन्धश्चाऽस्माद्गन्धश्चास्तीति कृत्वा मध्यमोत्तमौ भविष्यतः । अथेह कथं भवितव्यम् - अत्वं त्वं संपद्यते इति त्वद्भवति मद्भवतीति। आहोस्वित्त्वद्भवसि मद्भवामीति ? त्वद्भवति मद्भवतीत्येवं भवितव्यम् । मध्यमोत्तमौ कस्मान्न भवतः ? गौणमुख्ययोर्मुख्ये संप्रत्ययो भवति । तद्यथा, - गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते । कथं तर्हि वाहीके वृद्ध्यात्वे भवतः - गौर्वाहीकस्तष्ठति गामानयेति ? अर्थाश्रय एतदेवं भवति । यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ॥ 104-106-107 ॥

Kashika

लस्य (३.४.७७) इत्यधिकृत्य सामान्येन तिबादयो विहिताः, तेषामयं पुरुषनियमः क्रियते। युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि — पचसि। पचथः। पचथ॥

Siddhanta Kaumudi

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥

Laghu Siddhanta Kaumudi

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः॥

Balamanorama

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः - युष्मदि । उपोच्चारितं पदमुपपदम् । युष्मदि समीपोच्चारिते सतीत्यर्थः । समानमेकमधिकरणं वाच्यं यस्येति विग्रहः । सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम्,लः परस्मैपद॑मित्यतस्तदनुवृत्तेः । तथा च फलितमाह — तिङ्वाच्यकारकवाचिनि युष्मदीति । स्थानं — प्रसङ्गोऽस्यास्तीति स्थानी, तस्मिन् । प्रसक्ते सतीत्यर्थः । प्रसङ्गश्च तदर्थावगतौ सत्यां वक्रा अप्रयोग एव भवति । तथा चस्थानिनी॑त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थं बोधयति सतीत्यर्थः पर्यवस्यति । तदाह — अप्रयुज्यमान इति ।स्थानिनी॑त्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात् । ततश्च राम पाहीत्यादावव्याप्तिः स्यात् । अपिना लब्धमाह — प्रयुज्यमानेऽपीति ।युष्मद्युपपदे स्थानिनी॑त्येवोक्तौ राम त्वं पाहीत्यादौ युष्मत्प्रयोगे मध्यमो न स्यादतोऽपिग्रहणमिति भावः । अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात् ।भवानागच्छती॑त्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात्, भवच्छब्दस्य तु स्वभावेन संबोध्याऽसंबोध्यसादारणत्वादित्यलम् ।

Tattvabodhini

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः - युष्मदि । समानाधिकरणे इत्यस्य व्याख्यानं — तिङ्वाच्यकारकवाचिनीति । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः — सामानाधिकरणम् । स्थानिनीत्यस्य व्याख्यानम्- अप्रयुज्यमान इति । समानाधिकरणे किम् । त्वं पश्यति, त्वया क्रियते, तुभ्यं ददाति॥

Padamanjari

‘लस्य तिबादयः’ इत्यनेनैकवाक्यतामापन्नेनानेन तिबादीनां विशिष्टविधानम्, उत विहितानां तिबादीनां भिन्नेनानेन वाक्येन नियमः? इति संशये नियम इत्याह - लस्येत्यधिकृत्येति। विशिष्टविधाने त्वितरेतराश्रयं स्यात् - सतां तिबादीनां प्रथमादिसंज्ञा, संज्ञायां च तिबादयो भाव्यन्त इति। स पुनर्नियम उपपदनियमो वा स्याद् - युष्मदि मध्यम एव अस्मद्यौतम एव, शेषे प्रथम एवेति; पुरुषनियमो वा - युष्मद्येव मध्यमः, अस्मद्येवोतमः, शेष एव प्रथम इति। तत्राद्ये पक्षे कुर्वंस्त्वं कुर्वाणस्त्वमिति युष्मदि शतृशानचौ च न स्याताम्, तृजादयश्च न स्युः - कर्ता त्वं कारकस्त्वमिति? नैष दोषः; एतावान् विषयो युष्मदस्मदुपपदं शेषश्च सर्वश्चासौ पुरुषेषु नियतः। उच्यन्ते च तृजादयस्ते वचनाद्भविष्यन्ति। तुल्यजातीयस्य च नियनेन व्यावृत्तिः - युष्मदि मध्यम एव, न प्रथमोतमौ; अस्मद्यौतम एव, न प्रथममध्यमौ; शेषे प्रथमोतमाविति। एवं तर्हि तिबादिसूत्रे विधीयमानत्वात् प्राधान्यातेषामेव नियमो युकः, शेषग्रहणाच्चोपपदनियमे हि युष्मदस्मदी नियते, पुरुषा अनियताः, शेषश्चानियतः। तत्र प्रथम इत्येतावदप्युच्यमानं नियमार्थं विज्ञायते, तत्र च नियमान्तरस्यासंभवात् प्रथम एवेति नियमः; यत्र च प्रथमाप्रथमप्रसङ्गस्तत्रैवंविधो नियमः कर्तव्यः; शेष एव च तथा प्रसङ्ग इति तत्रैव नियमो भविष्यति, किं शेषग्रहणेन! पुरुषनियमे तु मध्यमोतमौ नियतौ युष्मदस्मदी वा नियते, प्रथमश्च तत्र युष्मदस्मदोरपि प्रथमप्रसङ्गो शेष एव प्रथम इत्येवं प्रथमनियमः कर्तव्यः। न चान्तरेण शेषग्रहणमेवंनियमः शक्यते कर्तुमिति कर्तव्यमेव शेषग्रहणम्। अतः शेषग्रहणम्। सूत्रकारस्यापि पुरुषनियम एवाभिप्रेत इति तमेवाश्रयति - तेषामयं पुरुषनियमः क्रियत इति। तेषामित्युद्भूतावयवभेदस्तिबादिसमुदाय उच्यते, पुरुषापेक्षयाऽवयवषष्ठी। तेषां तिबादीनामवयवो यो मध्यमपुरुषस्तस्योपपदनियमः क्रियत इत्यर्थः, सापेक्षस्यापि पुरुषशब्दस्य गमकत्वात् समासः। अथ वा तेषामिति कर्मणि षष्ठी, पुरुषद्वारको नियमः पुरुषनियमः, पुरुषद्वारेण ते नियम्यन्त इत्यर्थः। उपोच्चरितं तदमुपपदम्, शाकपार्थिवादित्वादुतरपदलोपी समासः, उपशब्दः सामीप्ये, ततश्च व्यवहिते न भवितव्यमिति शङ्गामपनयति। व्यवहिते चेति। समीप इत्येव सिद्धे उपपदग्रहणादापेक्षिकस्यापि सामीप्यस्य ग्रहणम्। व्यवहितमपि च व्यवहिततरापेक्षया संनिकृष्टमिति भावः। उपपदग्रहणं तु पूर्वभूतेऽपि युष्मदि यथा स्याद्, अन्यथा’तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति परभूते एव स्यात्। ननु यथा स्थानिन्यपीति वचनात् सर्वथाऽप्रयुज्यमानेऽपि भवति तथा पूर्वप्रयोगेऽपि परभूतस्याप्रयोगात् स्थानिनीति भविष्यति, नैतदस्ति; सप्तमीनिर्देशात् प्रयोगपक्षे परभूत एव स्यात्। समानाभिधेय इति। अधिकरणशब्दोऽभिधेयवचन इति दर्शयति। पुनः समानाभिधेये लकारेण नियिम्यमानेन वा पुरुषेणः त्रिविधं चाभिधेयं लकाराणाम्भावः कर्म कर्ता च, तत्र द्रव्यवाचिनोर्युष्मदस्मदोर्भाववाचिना लान्तेन सामानाधिकरण्यासंभवात् कर्तृकर्मणोरेव ग्रहणमित्याह - तुल्यकारक इति। तुल्यमेकं कारकं यस्य ततथोक्तम्, स्थानिन्यपीति स्थानशब्द प्रसङ्गवाची, स्थानमस्यास्तीति स्थानी। तत्र च प्रयुज्यमानस्याप्रयुज्यमानस्य च प्रसङ्गोऽस्ति। उच्यते चेदं स्थानमस्यास्तीति, तत्र सामर्थ्यादवधारणं विज्ञायते - प्रसङ्ग एव यस्य, न तु प्रयोग इति। यद्वा स्वनिकायप्रसिद्धिरेषा - यस्य स्थाने आदेशो विधीयते स स्थानीति। इह त्वप्रयुज्यमानता साद्दश्यात् युष्मदि प्रयुज्यते, सर्वथा स्थानिन्यपीत्यस्याप्रयुज्यमानेऽपीत्यर्थः। अपिशब्दात्प्रयुज्यमानेऽपि, तदाह - स्थानिन्यपीत्यादिना। स्थानिन्यपीति कोऽर्थः? प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपीत्यर्थः। उपपदग्रहणप्राप्तस्य चार्थस्यापिशब्दोऽनुवादः। समानाधिकरण इति किम्? त्वया गम्यत इत्यत्र मा भूत्। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते, इह च अतित्वं पचति अत्यहं पचतीत्यत्रातिक्रान्तप्रधाने समासे युष्मदस्मदोरसामानाधिकरण्यात् प्रथम एव भवति, इह त्वीषदसमाप्तस्त्वं त्वत्कल्पः पचसि, मत्कल्पः पचामीति कालान्तरद्दष्टगुणरहितो युष्मदस्मदर्थ एव त्वत्कल्पमत्कल्पशब्दाभ्यामुच्यत इति मध्यमोतमौ भवतः, तत्सद्दशपदार्थान्तराभिधाने तु प्रथमः, तथा त्वतरः पचसि, मतरः पचामि, परमत्वं पचसि,परमाहं पचामीति, कालान्तराद्दष्टगुणातिशयविशिष्टो युष्मदस्मदर्थ एवोच्यते इति भवत्येव। एवं च युष्मदर्थे मध्यमः, अस्मदर्थ उतम इतीयता सिद्धं युष्मदस्मदर्थे चेल्लकार उत्पन्नस्तर्ह्येव मध्यमोतमावित्यर्थः, तथा तु न कृतमित्येव। इह चात्वं त्वं संपद्यत इति त्वद्भवतीति भवति; प्रकृतेरेव विकाररूपेण सम्पतौ कर्तृत्वात्। एतच्च’ आन्महतः’ इत्यत्रोपपादयिष्यामः। तथा च मन्त्रे -‘यदग्ने स्यामहं त्वं त्वं वास्या अहम्’ इति, अहं त्व स्यां त्वं वाहं स्याम्ऽ इति प्रकृत्याश्रयः पुरुषो द्दश्यते। इह भवान्पचत्विति युष्मदर्थप्रतीतेः स्थानिन्यपीति मध्यमः प्राप्नोति, न वा युष्मदर्थत्वात्, अलिङ्गः सम्बोधनविषयश्च युष्मदर्थः। भवदर्थस्तु लिङ्गवान् न च सम्बोधनैकविषयः। यथैव हि माणवकाधीष्टेत्यभिमुखीभावो गम्यते, एवं त्वमधीष्वेत्यपि। तथा च युष्मदः सर्वत्रैव संबोधने प्रथमा आमन्त्रिताद्यौदातत्वं च भवति, पदात्परत्वे च निघात इति केचिदाहुः। उक्तं च - सम्बोधनार्थः सर्वंन्न मध्यमे कैश्चिदिष्यते। तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः॥ युष्मदर्थस्य सिद्धत्वान्नियतावाद्यौदातता। युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ इति। सत्यम्; सम्बोधनैकविषयो युष्मच्छब्दः, प्रथमा तु शुद्धैव; अभिमुखीभावेऽस्यापि प्रातिपदिकार्थ एवान्तर्भावात्, यत्र त्वनन्तर्भावः, तत्र तदभिद्योतनाय सम्बोधने चेति प्रथमा विधीयते स्वरोपि; अन्यथा युवं हि स्थः स्वर्पती, यूयं यात स्वस्तिभिः, हये देवा यूयमिदापयस्थऽ इति पादादावप्यन्तोदातत्वं पदात्परत्वेऽप्यनिघातः। तदेवं भवच्छब्दस्यासम्बोधनविषयत्वाल्लिङ्गवत्वाच्चायुष्मदर्थत्वाद् मध्यमो न भवतीति स्थितम्॥

Nyaas

नियतार्थमेतदिति दर्शयितुमाह - लस्येत्यधिकृत्य इत्यादि। एतच्च नियमार्थत्वे कारणम्। सत्यारम्भो नियमार्थो भवति, नासिद्धे। स पुनरयं नियम उपपदार्थनियमो वा स्यात् - तिङो युष्मद्युपपदे मध्यम एव? पुरुषनियमो वा स्यात् - युष्मद्येवोपपदे मध्यम् इति वा? तत्र यदि प्रथमो नियम आश्रीयते, त्वया कुर्वता त्वया कुर्वाणेनेति युष्मद्युपदे लस्य शतृशानजादेशौ न भवतः। तस्मात् तदर्थं यत्नान्तरमास्थेयम्। इतरत्र तु न किञ्चिद्यत्नसाध्यम्, अतो द्वितीयपक्षमाश्रित्याह - तेषामयम् इत्यादि। व्यवहिते च, अव्यवहिते चेति। ननु च परस्परं सन्निकृष्टं यत्पदं तदुपपदमुच्यते - उपोच्चारितं पदमिति कृत्वा;यच्च व्यवहितं तदव्यवहितापेक्षया विप्रकृष्टम्, अतो व्यवहितेन भवितव्यम्, नैष दोषः; यस्मात् सन्निकृष्टं विप्रकृष्टमित्यव्यवस्थितमेतदुभयग्रहणम्; सापेक्षत्वात् परापरवत्। तत्र यद्यव्यवहितमपेक्ष्य व्यवहितं विप्रकृष्टं भवति, तथाप्यन्यद्विप्रकृष्टतरमपेक्ष्य सन्निकृष्टं भवतीतीतरत्र व्यवहितेनापि भवितव्यम्। यद्येवम्, उपपदग्रहणं किमर्थम्? पूर्वभूतेऽपि यथा स्यादित्येवमर्थ कृतम्। अन्यथा युष्मदि इत्येतावत्युच्यमाने**तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति परभूत एव युष्मदि पूर्वस्य मध्यमः स्यात्, न तु पूर्वभूते परस्य। उपपदग्रहणादत्रापि भवति। पूर्वेण परेणापि प्रयुज्यमानमुपपदं भवत्येव।समानाधिकरणे इत्यनेन समानाभिधेय इति व्याचक्षाणोऽयमधिकरणशब्दोऽभिधेयवचनः सूत्र उपात्त इति दर्शयति। तत्पुनरभिधेयं यत्र लकार उत्पद्यते कर्तरि कर्मणि वा कारके प्रत्यासत्तेस्तदेव विज्ञायते इत्याह - तुल्यकारके इत्यादि। तुल्यं कारकं यस्य तत् तथोक्तम्। तुल्यशब्देन समानशब्दस्यार्थो दर्शितः। प्रयुज्यमानेऽप्रयुज्यमानेऽपि इति। अनेन स्थानिन्यपीत्यस्यार्थमाचष्टे। स्थानशब्दः प्रसङ्गवाची - स्थानमस्यास्तीति स्थानी। कस्य च स्थानम्? तस्यैव स्थानमस्ति यस्यार्थो गम्यते, शब्दो न प्रयुज्यते। तदेतदुक्तं भवति - अप्रयुज्यमानेऽपि युष्मदि, अपिशब्दात् प्रयुज्यमानेऽपि। समानाधिकरणग्रहणं किम्? त्वया पच्यते इत्यत्र मा भूत्, भिन्नं ह्रधिकरणम्। तथा हि - त्वया इत्येतत् कर्त्तृवाचि; कर्तरि तृतीयाविधानात्। पच्यते इति कर्मवाचि; कर्मणि लकारविधानात्॥

Prakriyasarvasvam

तिङ्व्वाच्यकारकेण समानाधिकरणे युष्मद्युपपदे प्रयुक्तेऽप्यप्रयुक्तेऽपि मध्यमः स्यात् ।