14100: तङानावात्मनेपदम्

Padacheda: तङानौ | S | 1 | 2 |

आत्मनेपदम् | S | 1 | 1 |

Sutrartha

लकारस्य स्थाने विहिताः तङ् तथा आन इति आदेशाः आत्मनेपदसंज्ञकाः भवन्ति । आवली इयम् - त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ्, शानच्, कानच् ।

<pt> तङ् = त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ् । </pt> लकारप्रत्ययानां स्थाने भिन्नैः सूत्रैः ये आदेशाः विधीयन्ते, तेभ्यः **तङ् इति प्रत्याहारस्थानाम् नव आदेशानाम्, तथा च आन इति स्वरूपिणोः द्वयोः आदेशयोः <hlb>आत्मनेपदम्</hlb> इति संज्ञा भवति** - इति अस्य सूत्रस्य आशयः । <spacer> लकारस्य स्थाने भिन्नैः सूत्रैः आहत्य द्वाविंशतिः (22) आदेशाः विधीयन्ते । एतेषाम् सर्वेषाम् अपि लः परस्मैपदम् (3.4.81) इति पूर्वसूत्रेण परस्मैपदसंज्ञायां प्राप्तायाम्, तेभ्यः एकादशानाम् (11) आदेशानाम् प्रकृतसूत्रेण <hlb>आत्मनेपदसंज्ञा</hlb> विधीयते । इयम् आत्मनेपदसंज्ञा एकसंज्ञाधिकारात् पूर्वसूत्रेण उक्ताम् परस्मैपदसंज्ञां बाधते । अतः अन्ते एतेषाम् एकादशानाम् आदेशानाम् केवलम् आत्मनेपदम् इत्येव संज्ञा भवति । एते एकादश आदेशाः एतादृशाः - <listsp> <li>1. <hlb>तङ्</hlb> इति नव आदेशाः ** - **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) इत्यस्य सूत्रस्य तातांझथासाथांध्वमिड्वहिमहिङ् इति उत्तरार्धः एव तङ् इति प्रत्याहारेण निर्दिश्यते । अतः अस्मिन् उत्तरार्धे पाठिताः <hlb>त</hlb>, <hlb>आताम्</hlb>, <hlb>झ</hlb>, <hlb>थास्</hlb>, <hlb>आथाम्</hlb>, <hlb>ध्वम्</hlb>, <hlb>इट्</hlb>, <hlb>वहि</hlb>, <hlb>महिङ्</hlb> - एते नव आदेशाः आत्मनेपदसंज्ञकाः भवन्ति । <li>2. <hlb>आन</hlb> इति द्वौ आदेशौ **- लट्-लकारस्य स्थाने **लटः शतृशानचावप्रथमासमानाधिकरणे (3.2.124) इत्यनेन विहितः <hlb>शानच्</hlb> इति आदेशः, तथा च लिट्-लकारस्य स्थाने लिटः कानज्वा (3.2.106) इत्यनेन विहितः <hlb>कानच्</hlb> इति आदेशः - एतौ द्वौ आदेशौ प्रकृतसूत्रेण आत्मनेपदसंज्ञकौ भवतः । एतयोः द्वयोः अपि दृश्यरूपम् आन इति अस्ति, अतश्च एतयोः युगपत् निर्देशार्थम् प्रकृतसूत्रे आन इति शब्दः स्थापितः वर्तते । </listsp>

<spacer>

आत्मनेपदसंज्ञायाः प्रयोगः अनुदात्तङित आत्मनेपदम् (1.3.12), आत्मनेपदेष्वनतः (7.1.5), आत्मनेपदेष्वन्यतरस्याम् (2.4.44) एतादृशेषु सूत्रेषु कृतः अस्ति । <note>येभ्यः धातुभ्यः केवलम् आत्मनेपदस्यैव प्रत्ययाः विधीयन्ते, ते धातवः आत्मनेपदिनः (प्रातिपदिकम् - आत्मनेपदिन्, प्रथमैकवचनम् - आत्मनेपदी) इति नाम्ना धातुपाठे परिगणिताः सन्ति । धातुपाठे विद्यमानेभ्यः ~2000 धातुभ्यः प्रायेण 500 धातवः (इत्युक्ते, 25% धातवः) आत्मनेपदिनः सन्ति ।</note>

**ल: इति अनुवृत्तेः प्रयोजनम्**

प्रकृतसूत्रे लः परस्मैपदम् (3.4.81) इति पूर्वसूत्रात् लः इति पदम् अनुवृत्तिरूपेण स्वीक्रियते । इयम् अनुवृत्तिः **चानश् इति प्रत्ययस्य आत्मनेपदसंज्ञानिवृत्त्यर्थं कृता अस्ति** । ताच्छील्यवयोवचनशक्तिषु चानश् (3.2.129) इति सूत्रेण विहितस्य चानश् इत्यस्य दृश्यरूपम् अपि आन इत्येव अस्ति, परन्तु अयं प्रत्ययः लकारस्य स्थाने न विधीयते अपितु पृथक् रूपेण उक्तः अस्ति । अस्यां स्थितौ यदि चानश् प्रत्ययस्य अपि आत्मनेपदसंज्ञा अभविष्यत्, तर्हि हनँ (हिंसागत्योः) इति परस्मैपदि-धातोः अयं प्रत्ययः नैव योजयितुं शक्यं स्यात्, येन हन्-धातोः चानश्-प्रत्ययान्तस्य “निघ्नान” इति रूपस्य साधुत्वज्ञापने अपि बाधः आगमिष्यत् । तत् तथा मा भूत् इति हेतुना प्रकृतसूत्रे लः इत्यस्य अनुवृत्तिः क्रियते । अनया अनुवृत्त्या आन-प्रत्ययस्य आत्मनेपदसंज्ञा तदा एव सिद्धा भवति यदा सः लकारस्य स्थाने विहितः वर्तते । अनेन चानश्-प्रत्ययस्य आत्मनेपदसंज्ञायाः वारणं भवति, येन परस्मैपदिनः हन्-धातोः योगे अस्य प्रयोगः अवश्यं सम्भवति ।

Sutrartha (English)

The तङ्, शानच् and कानच् आदेशाः that occur in place of a लकार are known as आत्मनेपद.

Vasu English Summary

The nine affixes comprised under the प्रत्याहार - तङ् and the two ending in आन (शानच् and कानच्), which are substitutes of ल are called आत्मनेपद।

Vasu English Translation

The nine affixes comprised under the प्रत्याहार - तङ् and the two ending in आन (शानच् and कानच्), which are substitutes of ल are called आत्मनेपद। The following are the Atmanepada affixes:–

  • 3rd person - त, आताम्, झ

  • 2nd person - थास्, आथाम्, ध्वम्

  • 1st person - इट्, वहि, महिङ्

And the affixes भाव and ज्ञान (3.2.106),

Kashika

तङिति प्रत्याहारो नवानां वचनानाम्। आन इति शानच्कानचोर्ग्रहणम्। पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते। त, आताम्, झ। थास्, आथाम्, ध्वम्। इट्, वहि, महिङ्। आनः खल्वपि — शानच्कानचौ। ल इत्येव — कतीह निघ्नानाः। आत्मनेपदप्रदेशाः — अनुदात्तङित आत्मनेपदम् (१.३.१२) इत्येवमादयः॥

Siddhanta Kaumudi

तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥

Laghu Siddhanta Kaumudi

तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्वसंज्ञाऽपवादः॥

Balamanorama

तङानावात्मनेपदम् - तङानौ । तङ् च आनश्चेति द्वन्द्वः । प्रत्याहार इति ।त आतामिति तशब्दमारभ्य महिङिति ङकारेणे॑ति शेषः । तदाह — तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनग्रहणेन शानच्कानचावेव गृह्रते, न तुताच्छील्यवयोवचनशक्तिषु चान॑शिति विहितश्चानशपि, तस्य लादेशत्वाऽभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति — निघ्नाना इत्यादौ । तदाह — शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः । पूर्वसंज्ञेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदं, कस्मादात्मनेपदमित्याकाङ्क्षायामाह — अनुदात्तङितः । अनुदात्तश्च ङ्च अनुदात्तङौ । तावितौ यस्य सः - अनुदात्तङित् । तस्मात् — अनुदात्तङितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते । अनुदात्तेतो ङितश्चेति । लभ्यते ।उपदेशेऽजनुनासिक इ॑दित्यस्मान्मण्डूकप्लुत्या उपदेश इत्यनुवृत्तं ङित इत्यनेन सम्बध्यते, नत्वनुदात्तेत इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाऽव्यभिचारात् । ‘भूवादयो धातव’ इत्यस्मान्मण्डूकप्लुत्या ‘धातव’ इत्यनुवृत्तं पञ्चम्या विपरिणतमनुदात्तेता ङिता च विशेष्यत#ए । तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाऽभावान्ङिदंशे तदन्तविधिः । तदाह — अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम्, तिङां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र ‘गाङ्कुटादिभ्य’ इति सन आतिदेशिकमेव ङित्त्वम्, नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्रणिश्री॑ति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु ‘बोभूयते’ इत्यादौ ‘सनाद्यन्ता’ इति धातुसंज्ञकाद्यङन्तादात्मनेपदं न स्यात् । ‘ङित’ इत्येवोक्तौ यङो ङित्त्वेऽपि तद्वन्तस्य धातोर्ङित्त्वाऽभावादात्मनेपदं न स्यात् ।

Tattvabodhini

तङानावात्मनेपदम् - लस्येत्यस्यानुवृत्तेर्लादेश एवाऽऽनो गृह्रते इत्याशयेनाह — शानच्कानचौ चेति । तेन परस्मैपदिभ्योऽपिताच्छील्यवयोवचने॑इति चानश्भवत्येव ।कतीह निघ्नानाः॑॥

Padamanjari

अथ कस्माल्लस्येत्यस्यानन्तरमेते संज्ञे न विहिते, एवं हि पुरुषसंज्ञाभिरन्यत्रसिद्धोऽनयोः समावेशो भवति, तत्राह - पूर्वेणेति। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधो यथा स्यादित्येवमर्थमस्मिन् प्रकरणेऽनयोर्विधानमिति भावः। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन॥

Prakriyasarvasvam

तातांझेत्यादिमहिङन्ताः शानच्कानचौ च लादेशत्वेऽप्यात्मनेपदसंज्ञाः ।