84065: झरो झरि सवर्णे

Padacheda: झरः | S | 6 | 1 |

झरि | S | 7 | 1 |

सवर्णे | S | 7 | 1 |

Sutrartha

हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति ।

<pt> हल् = सर्वाणि व्यञ्जनानि । झर् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः, शकारः, षकारः, सकारः । </pt> हल्-वर्णात् परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे प्रकृतसूत्रेण विकल्पेन लोपः भवति । कानिचन उदाहरणानि एतानि — 1. प्र-उपसर्गपूर्वकस्य दा-धातोः क्त-प्रत्यये कृते “प्रत्त” इति रूपम् इत्थं सिद्ध्यति —

डुदाञ् (दाने, जुहोत्यादिः, (3.10))
→ प्र + दा + क्त [प्र-उपसर्गपूर्वकात् दा-धातोः **निष्ठा** (3.2.102) इति सूत्रेण क्त-प्रत्ययः]
→ प्र + द् त् + त [**अच उपसर्गात्तः** (7.4.47) इत्यनेन दा-धातोः आकारस्य तकारः]
→ प्र + त् त् + त [**खरि च** (8.4.55) इति दकारस्य चर्त्वे तकारः]
→ प्र + त् + त [हल्-वर्णात् (तकारात्) परस्य झर्-वर्णस्य (तकारस्य) सवर्णे झर्-वर्णे परे (तकारे परे) **झरो झरि सवर्णे** (8.4.65) विकल्पेन लोपः भवति ]
→ प्रत्त
  1. पिष्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य “पिण्ढि” इति रूपस्य सिद्धौ प्रकृतसूत्रेण डकारस्य लोपः भवति —

पिषॢँ (सञ्चूर्णने, हिंसायां च, रुधादिः, (7.15))
→ पिष् + लोट् [**लोट् च** (3.3.162) इति लोट्-लकारः]
→ पिष् + सिप् [मध्यमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इत्यनेन सिप्-प्रत्ययः]
→ पिष् + हि [**सेर्ह्यपिच्च** (3.4.87) इति अपित् हि-आदेशः। अपित्त्वात् **सार्वधातुकमपित्** (1.2.4) इत्यनेन अयं ङिद्वद् भवति ।]
→ पिष् + धि [**हुझल्भ्यो हेर्धिः** (6.4.101) इति हि-प्रत्ययस्य धि-आदेशः]
→ पि श्नम् ष् + धि [**रुधादिभ्यः श्नम्** (3.1.78) इति श्नम्-विकरणम्
→ पि न ष् + धि [शकारमकारयोः इत्संज्ञा, लोपः]
→ पि न् ष् + धि [**श्नसोरल्लोपः** (6.4.111) इत्यनेन सार्वधातुके ङित्-प्रत्यये परे नकारोत्तरस्य अकारस्य लोपः]
→ पिं ष् + धि [**नश्चापदान्तस्य झलि** (8.3.24) इति नकारस्य अनुस्वारः]
→ पिं ष् + ढि [**ष्टुना ष्टुः** (8.4.41) इति धकारस्य ष्टुत्वे ढकारः]
→ पिं ड् + ढि [**झलां जश् झशि** (8.4.53) इति षकारस्य डकारः]
→ पिण्ड् + ढि [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति अनुस्वारस्य परसवर्णः णकारः]
→ पिण्ढि [**झरो झरि सवर्णे** (8.4.65) इति डकारस्य सवर्णे ढकारे परे विकल्पेन लोपः]
  1. कृत्तिका-शब्दात् अण्-प्रत्यये कृते “कार्तिक” इति रूपस्य सिद्धौ प्रकृतसूत्रेण तकारस्य लोपः भवति —

कृत्तिकया युक्तः कालः [तद्धितवृत्तिः]
→ कृत्तिका + अण् [**नक्षत्रेण युक्तः कालः** (4.2.3) इत्यस्मिन् अर्थे **प्राग्दीव्यतोऽण्** (4.1.83) इति अण्-प्रत्ययः]
→ कृत्तिका + अ [णकारस्य इत्संज्ञा, लोपः]
→ कार्त्तिका + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ कार्त्तिक् + अ [**यस्येति च** (6.4.148) इति आकारलोपः]
→ कार्तिक् + अ [**झरो झरि सवर्णे** (8.4.65) इति प्रथमतकारस्य विकल्पेन लोपः]
→ कार्तिक
  1. “कृष्ण + ऋद्धि → कृष्णर्धि” इत्यत्र दकारस्य लोपः प्रकृतसूत्रेण भवति —

कृष्णस्य ऋद्धिः  [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ कृष्ण ऋद्धि [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः]
→ कृष्णर्द्धि [**आद्गुणः** (6.1.87) इति अकार-ऋकारयोः गुणैकादेशः अकारः, सः च **उरण् रपरः** (1.1.51) इति रपरः ]
→ कृष्णर्धि [रेफात् परस्य दकारस्य धकारे परे **झरो झरि सवर्णे** (8.4.65) इति विकल्पेन लोपः]
  1. “ उद् + स्तम्भनम् → उत्तम्भनम्” इत्यत्र थकारस्य प्रकृतसूत्रेण लोपः भवति —

उद् + स्तम्भनम्
→ उत् + स्तम्भनम् [**खरि च** (8.4.55) इति चर्त्वम्]
→ उत् + थ्तम्भनम् [**उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) इति सकारस्य थकारः]
→ उत्तम्भनम् [**झरो झरि सवर्णे** (8.4.65) इत्यनेन थकारस्य विकल्पेन लोपः]

Sutrartha (English)

A झर् letter coming after an हल् letter is optionally deleted if it is followed by a सवर्ण झर् letter.

Vasu English Summary

The mute of sibilant (झर्) preceded by a consonant and followed by a homogenous mute of sibilant, is optionally elided

Vasu English Translation

The mute of sibilant (झर्) preceded by a consonant and followed by a homogenous mute of sibilant, is optionally elided The word हलः is understood. Thus प्रत्त्तम्, अवत्त्तम् have three त, namely, one त substituted for आ by (7.4.47), the second त resulting from the change of द to त by चर्त्व change, the third त is that of the affix. A fourth arises by doubling (8.4.47) of these four, one or two middle ones may be dropped. मरुत्त्त्त here are four तs. A fifth may be added by doubling, and by this rule, one, two or three of them may be elided. मरुत् + दा + क्त = मरुत् + द्त् + त (7.4.47) the word मरुत् being treated as an Upasarga ((1.4.59), vartika) = मरुत्त्त्त ॥

Why do we say झरः ‘of a jhar’? Compare शार्ङ्गम्, here ङ् which is not a झर् is not elided, though it is followed by a झर् letter. Why do we say झरि ‘followed by a jhar’? See प्रियपञ्ञ्चः ॥ This is a Bahuvrihi compound = प्रियाः पञ्चास्य ॥ The word प्रिय stands first in the compound under (2.2.35) (vartika). The full word is प्रियापञ्चन्, the अ is elided by (6.4.134), and we have प्रियपञ्च्न्; and then this न् becomes a palatal ञ् ॥ Here च् is preceded by a हल् letter, and itself is a झर्, and is followed by a homogeneous letter ञ्, but as ञ् is not झर्, the च् is not elided. The elided अ is not considered sthanivat, and so च is considered to be immediately followed by ञ् ॥

Why do we say सवर्णे ‘when a homogeneous jhar follows’? Observe तर्प्तु, तर्प्तम् &c, where प् and त् are not homogeneous.

By using the word सवर्णे, the rule of mutual correspondence (1.3.10) is avoided. Had the rule been झरो झरि the rule of mutual correspondence according to order of enumeration would have applied, and the forms शिण्ढि पिण्ढि could not have been evolved by the elision of ड before ढ ॥ For the evolution of these forms see the commentary under (1.1.58). These are the Imperative 2nd Person Singular of शिष् and पिष् ॥ The अ of श्नम् is elided by (6.4.111): the हि is changed to धि by (6.4.101), the ष् is changed to ड् by (8.4.53), the न् of श्नम् is changed to anusvara by (8.3.24); this anusvara is again changed to ण् by (8.4.58); the ध is changed to ढ, and by the present rule, the preceding ड् is elided before this ढ ॥

Bhashya

झरो झरि सवर्णे सवर्णग्रहणं किमर्थम्॥ झरो झरि सवर्णग्रहणं समसङ्ख्यप्रतिषेधार्थम्॥ झरो झरि सवर्णग्रहणं क्रियते॥ (किं प्रयोजनम्?)॥ समसङ्ख्यप्रतिषेधार्थम्॥ सङ्ख्यातानुदेशो मा भूदिति॥ किं च स्यात्?॥ इह न स्यात्-शिण्ढि पिण्ढि॥(झरो झरि)

Kashika

हल इति वर्तते, अन्यतरस्यामिति च। हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवत्यन्यतरस्याम्। प्रत्तम् अवत्तमित्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः। तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति। मरुत्त्त्त इत्यत्र चत्वारस्तकाराः, क्रमजः पञ्चमः। तत्र मध्यमस्य मध्यमयोर्मध्यमानां वा लोपो भवति। मरुच्छब्दस्य ह्युपसंख्यानसामर्थ्यात् (१.४.५९ वा०) अच उपसर्गात् तः (७.४.४७) इति तत्वं भवति। झर इति किम्? शार्ङ्गम्। झरीति किम्? प्रियपञ्च्ञा। अल्लोपस्य च पूर्वत्रासिद्धे न स्थानिवत् (महाभाष्य १.१५४) इति स्थानिवद्भावप्रतिषेधादत्र चकारस्य ञकारे लोपः स्यात्। सवर्ण इति किम् ? तर्प्ता । तर्प्तुम्। तर्प्तव्यम्। सवर्णग्रहणसामर्थ्यादिह संख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते। तेन शिण्ढि पिण्ढि इति ढकारे डकारस्य लोपो भवति॥

Siddhanta Kaumudi

हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णर्धिः । कृष्णर्द्धिः । कृष्णर्द्द्धिः । यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य तु अनचि च (SK48) इति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥

Laghu Siddhanta Kaumudi

हलः परस्य झरो वा लोपः सवर्णे झरि॥

Laghu Shabdendushekhar

झरो झझयो होऽन्यतरस्यां (८.४.६२) इत्यतो वाऽवसाने (८.४.५६) इत्यतो वा विकल्पोऽनुवर्त्तते । हयवरट्सूत्रशेषे भाष्ये स्पष्टमिदम्। लोपे इति । ऋधधातोर्झर इति भावः । असतीति । द्वित्वाभाव इत्यनुकृष्यते । त्रिधमिति । त्रिधकारत्वं प्रक्रियाभिप्रायेण । न च द्वित्वभिन्ने पूर्वत्र कर्त्तव्ये परमसिद्धमित्यर्थकेन <!पूर्वत्रासिद्धीयमद्वित्वे!> (वा० (८.२.१)) इत्यनेन धातुधकारस्य जश्त्वे दस्य द्वित्वमितीदमयुक्तमिति वाच्यम् । फले विशेषाभावेन तदनादरणात् । न ह्यत्र जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषोऽस्ति, तदनन्तरञ्जश्त्वप्रवृत्तेस्तस्य परिभाषात्वेन फलविशेषे एव प्रवृत्तेरित्यन्यत्र विस्तरः । पञ्चमीति । विनिगमकाभावादिति भावः । अत एवास्य वैकल्पिकत्वम् ॥

Balamanorama

झरो झरि सवर्णे - झरो झरि सवर्णे ।झयोहोऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते ।हलो यमा॑मित्यतो ‘हल’ इति, ‘लोप’ इति चानुवर्तते । तदाह — हलः परस्येत्यादिना । तदिह रूपत्रयं संपन्नमित्याह-द्वित्वाभाव इत्यादिना । रेफात्परस्य ऋधिति धात्वन्तस्य धकारस्यअचो रहाभ्या॑मिति द्वित्वाऽभावे सतिझरो झरी॑ति लोपे च सति एकधकारं रूपमित्यर्थः । असतीति । ‘द्वित्वाऽभावे’ इत्यनुकृष्यते । तस्यैव ऋधेर्धकारस्य द्वित्वाऽभावे लोपे चा.ञसति द्विधकारं रूपम् । तथा तस्यैव ऋधेर्धकारस्य द्वित्वे लोपे च सति द्विधकारमेव रूपमित्यर्थः । सतीति । तस्यैव ऋधेर्धकारस्य द्वित्वे सति लोपे च असति त्रिधकारं रूपमित्यर्थः । यद्यपि द्विधपक्षे प्रथमधकारस्य त्रिधपक्षे मध्यमधकारस्य चझलाञ्जश् झशी॑ति जश्त्वेन दकारो भवति । तथापि प्रक्रियाभिप्रायेण भूतपूर्वगत्या वा द्विधत्वं त्रिधत्वं चेति न दोषः । अथ तवल्कार इत्यत्राह यण इति । यणः परस्य मयो द्वित्वमिति व्याख्याने ककारस्य द्वित्वं, लकारस्य त्वनचि चेति द्वित्वमित्यर्थः । तेनेति लकारककारयोर्द्वित्वविकल्पेनेत्यर्थः । द्वित्वं लस्यैवेति । लकारस्य द्वित्वे ककारस्य द्वित्वाऽभावे च सति द्विलकारमेकककारं च प्रथमं रूपमित्यर्थः । नोभयोरिति । लकारककारयोरुभयोरपि द्वित्वाऽभावे एकलकारमेकककारं तृतीयं रूपमित्यर्थः । उभयोरपीति । लककारयोरुभयोरपि द्वित्वे द्विलकारं द्विककारं चतुर्थं रूपमित्यर्थः । तवल्कारादिष्विति । आदिना ममल्कारादिङ्ग्रहः ।

Tattvabodhini

झरो झरि सवर्णे - झरो झरि ।हलो यमा॑मित्यतोहल॑ इत्यनुवर्तते, तदाह-हलः परस्येति । हलः किम् । प्रत्तम् । झर इति किम् । शाङ्र्गम् । झरीति किम् । तर्प्ता । सवर्णग्रहणसामर्थ्याद्यथासङ्ख्यमत्र न भवति । तेनशिण्डी॑ त्यत्र डस्य विकल्पेन लोपः सिध्यतीति दिक् । लोपोवेति ।झयो हः॑ इति सूत्रादन्यतरस्यामित्यनुवृत्तेः । असति लोप इति ।द्वित्वाऽभावे॑इत्यनुषज्यते । द्वित्वलोपयोरसतोरित्यर्थः । त्रिधमिचि ।यणो मयः॑ इति लक्षणान्तरेण पुनर्द्वित्वेचतुर्ध॑मिति बोध्यम् ।द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि ।तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम्॥

Padamanjari

त्रयस्तकारा इति । ठच उपसर्गातःऽ इत्याकारस्य तकारः, तकारस्यापि चर्त्वं तकारः; एकः प्रत्ययसम्बन्धी, ठनचि चऽ इति द्विर्वचने क्रमजश्चतुर्थः । चत्वारस्तकारा इति । पूर्वोक्तास्त्रयः, चतुर्थो रुच्छब्दसम्बन्धी, पञ्चमो द्विर्वचनेन सम्पादितः । मरुच्छब्दस्योपसंख्यानसामर्थ्यादिति । एतच्च’मरुच्छब्दस्योपसंख्यानम्’ इत्यत्रैव प्रतिपादितम् । शार्ङ्गिन्निति । भवत्ययं ङ्कारो हलः परः झरि सवर्णे परतः, न त्वयं झरिति न लुप्यते । प्रिययञ्च्ञेति । प्रियाः पञ्चास्येति बहुव्रीहिः,’वा प्रियस्य’ इति प्रियशब्दपूर्वनिपातस्तृतीयैकवचनम्, अल्लोपः, नकारस्य श्चुत्वम् - ञकारः । भवत्ययं चकारो हलः परः स्वयं च झर् सवर्णे च परतः, न तु ञकारो झरिति न लुप्यते । ननु चाल्लोपस्य स्थानिवत्वादनन्तरो न भवति सवर्णः, तत्किमेतन्निवृत्यर्थेन’झरि’ इत्यनेन ? इत्यत आह - अल्लोपस्येति । तर्प्तेति ।’तृप प्रीणने’ , पकारस्य तकारः स्थानेभेदात्सवर्णो न भवति । ननु च निमितानां कायिणां च संख्यासामान्यादिह संख्यातानुदेशे सति नैव तप्तेत्यत्र लोपः प्राप्नोति, तत्किमेतन्निवृत्यर्थेन सवर्णग्रहणेन ? अत आह - सवर्णग्रहणसामर्थ्यादिति । न हि यथासंख्येऽसवर्णे झरस्ति, यद्व्यावृत्यर्थं सवर्णग्रहणं स्यात् । शिण्ढि, पिण्ढैइति ।’शिष्लृ विशेषणे’ ,’पिष्लृ सञ्चूर्णने’ - रुधादी, लोट्, सेर्हिः,’श्नसोरल्लोपः’ , हेर्धिः,’झलां जश् झशि’ इति षकारस्य डकारः,’नश्चापदान्तस्य झलि’ इत्यनुस्वारः, तस्य परसवर्णो णकारः, धकारस्य ष्टुअत्वम् - ढकारः, अनेन डकारस्य ढकारे लोपः ॥

Nyaas

प्रत्तमवत्तम् इत्यादि। ददातेः क्तः, अच उपसर्गात्तः (7.4.47) इत्यकारस्य तकारः, दकारस्यापि खरि च (8.4.54) इति चर्त्वम्। एवं तावत्? त्रयस्तकाराः -द्वावादेशौ, एकः प्रत्ययावयवः। अनचि च (श्र।4।47) इति यो निर्वृत्तः स क्रमजश्चतुर्थः। मध्यमस्य मध्यमयोर्वा इति। पूर्ववदन्यतरस्यांग्रहणानुवृत्तेरेव वेदितव्यम्। मरुत्त्त इति चत्वारस्तकाराः इति। तरयः पूर्ववत्, चतुर्थो मरुच्छब्दावयवः, क्रमजः पञ्चम इति अनचि च (8.4.46) इति यो विहितः। ननु चाजन्तादुपसर्गात्? तत्वमुच्यते, न च मरुच्छब्दोऽजन्तः, किं तर्हि? हलन्तः, तत्? कथं तत्वं भवति? इत्याह -मरुच्छब्दस्य इत्यादि। उपसर्गाः क्रियायोगे (1.4.59) इत्यत्र मरुच्छब्दस्योपसंख्यानमुपसर्गकार्यार्थम्। यदि सत्यामपि तस्यां तत्वं न स्यात्, तदा तस्य वैयध्र्यं स्यात्। तस्मादुपसंख्यानसामर्थ्यादनजन्तादपि तत्वं भवत्येव। तर्हि यथा ह्रुपसर्गोपसंख्यानसामर्थ्यात्? तत्वं भवति, तथा भरुन्नयतीत्यत्रापि उपसर्गादसमासेऽपि णोपदेशस्य (8.4.14) इति तकारेणा नडादिव्यवाये णत्वं स्यात्। यदीष्यते तदा भवतु। यदि नेष्यते तदा क्षुभ्नादिषु (8.4.38) द्रष्टव्यः। शाङ्र्गम् इति। ङकारो हल उत्तरो भवति झरि च सवर्णे परतः, न त्वयं झरिति न भवति लोपः। प्रियपञ्च्ञा इति प्रियाः पञ्चास्येति बहुव्रीहिः, ततस्तृतीयैकवचनम्। अल्लोपोऽनः (6.4.134) इत्यकारलोपः, स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वं तवर्गस्य। वर्गो वर्गेण सवर्ण इति ञकारश्चवर्गस्य सवर्णः। न त्वयं ञकारो झर्। तेन तस्मिन्? परभूते पूर्वस्माद्धलः परस्यापि चकारस्य लोपो न भवति। ननु चाक्रियमाणेऽपि झरीत्येतस्मिन्? नैवात्र लोपः प्राप्नोति, निर्दिष्टग्रहणस्यादन्तर्यार्थत्वात्; अनन्तरे परभूते सवर्णे लोपेन भवितव्यम्, न चात्रानन्तरो ञकारः, पूर्वस्य लोपे कृते अचः परस्मिन् पूर्वविधौ (1.1.57) इत्यकारलोपस्य स्थानिवद्भावात्, तत्? किं झरीतयनेन? इत्यत आह -लोपस्य इत्यादि। पूर्वत्रासिद्धीये ह्रल्लोपस्य स्थानिवद्भावः प्रतिषिध्यते। अत्र झरि इत्येतन्नोच्येत यदि, तदात्र लोप स्यादेव। तर्प्ता इति। तृप प्रीणने (धातुपाठः-1271), पकारस्य तकारः स्थानबेदात्? सवर्णो न भवति, तेनाच लोपे न भवति। ननु च निमित्तानां कार्यिणां च साम्यादिह संख्यातानुदेशेन भवतिव्यम्, तत्रासत्यपि सवर्णग्रहणे तर्प्तेत्यादौ नैव लोपः प्राप्नोति, तत्? किं तन्निवृत्त्यर्थेन सवर्णग्रहणेन? इत्यत आह -सवर्णग्रहणसामर्थ्यात् इत्यादि। यद्यत्र यतासंक्यं स्यात् ततो झकारस्य झकार एव लोपः प्रसज्येत, यावता झकारस्य झकार एव सवर्णः, एवं च सति सवर्णग्रहणमनर्थकं स्यात्; व्यवच्छेद्याभावात्। न हि झकारस्यासवर्णो झकारः सम्भवति। तस्मादत्र सवर्णग्रहणसामर्थ्यान्न संख्यातानुदेशो भवति। तेन शिण्डि, पिण्ढौत्यत्र सवर्णमात्रे ढकारे डकारलोपे भवतीति। शिष्लृ विशरणे [विशेषणे -धा।पा`] (धातुपाठः-1451), पिष्लृ सञ्चूर्णने (धातुपाठः-1452), लोङ्, सिप्, सेह्र्रपिच्च (3.4.87) इति हिरादेशः, श्नम्, श्नसोरल्लोपः (6.4.111) इत्यकारलोपः, हुझल्भ्यो हेर्धिः (6.4.101) इति धिभावः, झलां जश् झशि (8.4.53) इति जश्त्वम् -षकारस्य डकारः, नश्चापदान्तस्य झलि (8.3.24) इत्यनुस्यारः; ष्टुना ष्टुः (8.4.41) इति धकारस्य ढकारः, अनुस्वारस्य ययि परसवर्णः (8.4.58) इति णकारः, अनेन डकारस्य ढकारे लोपः॥

Praudhamanorama

लोपो वेति। झयो होन्यतरस्याम् (8.4.62) इति सूत्राद्विकल्पानुवृत्तेः। एतच्च नाज्झलौ (1.1.10) इति सूत्रे भाष्यकैयटयोः स्पष्टम्। प्राचस्तु विकल्पानुवृत्तेरनुक्तेर्न्यूनता। यदपि व्याख्यातृभिः शरोऽचि (8.4.49) इति ज्ञापकमभिप्रेत्य तत्संवादार्थं भाष्यमुपन्यस्तम्— ‘अनुवर्तते विभाषा शरोऽचि यद्वारयत्ययं द्वित्वम्’ इति, तन्न, तदुत्तरभाष्ये एव उक्तज्ञापकस्य दूषितत्वात्। लोपस्य हि नित्यत्वे अचो रहाभ्याम्— (8.4.46) इति द्वित्वं लोपापवादः स्यात्। तथा च ‘शरोऽचि’ इत्यस्य सार्थक्यं स्पष्टमेव। तस्माद्विकल्पानुवृत्तौ ज्ञापकान्तरमनुसर्तव्यम्, भाष्यकारादिव्याख्यानमेव वा शरणम्। द्वित्वलोपयोरिति। यत्तु द्वित्वविधानसामर्थ्याद् द्वावेव शिष्येते इति, तन्न, लोपस्य वैकल्पिकत्वेन द्वित्वस्य पक्षे चरितार्थत्वात्। त्रिधमिति। ‘यणो मय’ लक्षणान्तरेण पुनर्द्वित्वे तु चतुर्धमपि बोध्यम् ॥

Prakriyasarvasvam

हलः परस्य झरः सवर्णे झरि परे लोपः स्यात् । इति द्वितीयचलोपः । कंसच छेदीति । श्लिष्टोच्चा२रणं कंसच्छेदी । <karika>झरो झरीति लोपोऽयं वेति वृत्तौ तथापि तु । नातीवोच्चारणे भेदो नित्योऽयं कौमुदीमते ॥ ३१ ॥</karika> चे च्छिद्यते इति स्थिते ।

Sarala

तस्य “झरो झरी”ति पाक्षिको लोपः । लोपाभावे थस्य श्रवणं, न तु खरि च (८.४.५५) इति चर्त्त्वं, चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् । हल इतिहलो यमां यमि लोपः (८.४.६४) इत्यतः “हलः” इति “लोपः” इति च पदमनुवर्तते ॥