84064: हलो यमां यमि लोपः¶
Padacheda: हलः | S | 5 | 1 |
यमाम् | S | 6 | 3 |
यमि | S | 7 | 1 |
लोपः | S | 1 | 1 |
Sutrartha¶
हल्-वर्णात् परस्य यम्-वर्णस्य यम्-वर्णे परे विकल्पेन लोपः भवति ।
<pt> हल् = सर्वाणि व्यञ्जनानि । यम् = अन्त:स्थाः + वर्गपञ्चमाः । </pr> हल्-वर्णात् अनन्तरम्, यम्-वर्णात् पूर्वम् विद्यमानस्य यम्-वर्णस्य प्रकृतसूत्रेण वैकल्पिकः लोपः भवति । अस्य सूत्रस्य द्वे उदाहरणे एतादृशे — 1. आदित्यः देवता यस्य अस्मिन् अर्थे दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः (4.1.85) अनेन सूत्रेण “आदित्य” शब्दात् “ण्य”-प्रत्यये कृते प्रकृतसूत्रेण यकारस्य लोपः विधीयते —
आदित्यः देवता अस्य [तद्धितवृत्तिः]
= आदित्य + ण्य [**दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः** (4.1.85) इति ण्य-प्रत्ययः]
→ आदित्य + य [णकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ आदित्य् य [**यस्येति च** (6.4.148) इति अकारलोपः]
→ आदित् य [**हलो यमां यमि लोपः** (8.4.64) इति तकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।]
→ आदित्य
आस्ये भवः अस्मिन् अर्थे “आस्य”-शब्दात् शरीरावयवाच्च (4.3.55) इति सूत्रेण “यत्”-प्रत्यये कृते पुनः “आस्य” इत्येव शब्दः सिद्ध्यति । अस्य प्रक्रियायां यकारस्य प्रकृतसूत्रेण लोपः कृतः दृश्यते —
आस्ये भवः [तद्धितवृत्तिः]
→ आस्य + यत् [**शरीरावयवाच्च** (4.3.55) इति यत्]
→ आस्य् + य [**यस्येति च** (6.4.148) इति अकारलोपः]
→ आस् + य [**हलो यमां यमि लोपः** (8.4.64) इति सकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।]
→ आस्य
अनचि च (8.4.47) तथा च अचो रहाभ्यां द्वे (8.4.46) इत्यादिभिः सूत्रैः (वार्त्तिकैः च) द्वित्वे कृते अपि अस्य सूत्रस्य प्रयोगः सम्भवति, परन्तु कोऽपि नूतनः शब्दः न सिद्ध्यति, अपितु कृतद्वित्वस्य वर्णस्य एव अनेन सूत्रेण लोपं कृत्वा मूलशब्दस्य पुनः विधानं क्रियते । कानिचन उदाहरणानि एतानि — 1. अनचि च (8.4.47) इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —
शय्या
→ शय्य्या [**अनचि च** (8.4.47) इति यकारस्य वैकल्पिकं द्वित्वम्]
→ शय्या [द्वितीयस्य यकारस्य **हलो यमां यमि लोपः** (8.4.64) इति विकल्पेन लोपः]
अचो रहाभ्यां द्वे (8.4.46) इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —
दुर्लभ
→ दुर्ल्लभ [**अचो रहाभ्यां द्वे** (8.4.46) इति लकारस्य वैकल्पिकम् द्वित्वम् ]
→ दुर्लभ [प्रथम-लकारस्य **हलो यमां यमि लोपः** (8.4.64) इति विकल्पेन लोपः]
<!यणो मयो द्वे वाच्ये!> इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —
वाल्मीकि
→ वाल्म्मीकि [<!यणो मयो द्वे वाच्ये!> (वार्त्तिकम् (8.4.47)) इति इति मकारस्य वैकल्पिकम् द्वित्वम् ]
→ वाल्मीकि [प्रथम-मकारस्य **हलो यमां यमि लोपः** (8.4.64) इति विकल्पेन लोपः]
यम्-वर्णस्य सवर्णे यम्-वर्णे परे एव लोपः
यद्यपि प्रकृतसूत्रे यम्-वर्णस्य यम्-वर्णे परे लोपः उक्तः अस्ति, तथापि अत्र केवलम् यम्-वर्णस्य तस्मिन् यम्-वर्णे परे एव लोपः विधीयते । इत्युक्ते, यकारस्य यकारे परे, लकारस्य लकारे परे — इत्यनेन प्रकारेणैव लोपः विधीयते । अतएव अस्य सूत्रस्य कौमुदीव्याख्याने यथासङ्ख्यविज्ञानात् इति शब्दः प्रयुक्तः अस्ति । अतएव “माहात्म्यम्” इत्यस्मिन् शब्दे विद्यमानस्य मकारस्य यकारे परे प्रकृतसूत्रेण लोपः नैव विधीयते ।
** हलो यमां यमि लोपः (8.4.64) तथा च झरो झरि सवर्णे (8.4.65) इति द्वयोः सूत्रयोः पृथक् विधानस्य प्रयोजनम्**
हलो यमां यमि लोपः (8.4.64) तथा च झरो झरि सवर्णे (8.4.65) इति द्वाभ्याम् अपि सूत्राभ्याम् लोपकार्यम् एव उक्तम् अस्ति । अतः एते द्वे सूत्रे एकत्रीकृत्य (इत्युक्ते, “यम् + झर् = यर्” इति यर्-प्रत्याहारस्य प्रयोगं कृत्वा) हलो यरां यरि सवर्णे लोपः इति एकम् सूत्रम् अपि कर्तुम् शक्यते । परन्तु तादृशं क्रियते चेत् “मूर्ध्नः”, “शार्ङ्गम्”, “आर्त्नी” इत्यादिषु शब्देषु हल्-वर्णात् परस्य (रेफात् परस्य) यर्-वर्णस्य (धकारस्य) सवर्णे यर्-वर्णे परे (नकारे परे) अनिष्टः लोपः सम्भवेत् । तादृशं मा भूत् इति ज्ञापयितुम् पाणिनिना यर्-प्रत्याहारस्य स्थाने यम् तथा झर् इति द्वौ प्रत्याहारौ पृथक् पृथक् प्रयुज्य द्वयोः भिन्नसूत्रयोः निर्माणम् कृतम् अस्ति । “मूर्ध्नः”, “शार्ङ्गम्”, “आर्त्नी” इत्यादिषु उदाहरणेषु झर्-वर्णात् परः झर्-वर्णः न हि विद्यते, अतः एतादृशेन भिन्नसूत्रस्य निर्माणेन एतेषु उदाहरणेषु अनिष्टः लोपः अपि न भवति ।
Sutrartha (English)¶
A यम्-letter sandwiched between a हल्-letter (on left) and the same यम्-letter (on right) is optionally removed.
Vasu English Summary¶
After a consonant, the following semi-vowel or a nasal is elided optionally, when the same letters follow it
Vasu English Translation¶
After a consonant, the following semi-vowel or a nasal is elided optionally, when the same letters follow it The word अन्यतरस्याम् should be read into the sutra. Thus शय्य्या or शय्या, the middle य् being elided. In शय्या there are two यs, one of the affix क्यप् (3.3.99); and the second of अयङ् (7.4.22), and the third arises by doubling (8.4.47). आदित्य्य (formed by doubling य by the Vartika under 47 ante), or आदित्य ‘son of Aditi’ In आदित्य्य there are two यs, one of ण्य (4.1.85), and the second arises by doubling.
Similarly आदित्य देवता अस्य स्थाली पाकस्य = आदित्य्य ॥ Then by (8.4.47), there is a third य, as अदित्य्य ॥ Here also we may elide the one middle य or both the middle य’s. Thus आदित्यः or आदित्य्य ॥
Why do we say हलः ‘preceded by a consonant’? Observe अन्नम् when म् is preceded by a vowel.
Why do we say यमाम् “of यम् letters”? Observe अग्ग्निः, अर्घ्यम् (5.4.25) where घ is not a य ॥
Why do we say यमिं “when यम् follows” ? Observe शार्ङ्गम् here ङ् is not followed by a यम् ॥
Kashika¶
अन्यतरस्यामिति वर्तते। हल उत्तरेषां यमां यमि परतो लोपो भवत्यन्यतरस्याम्। शय्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति। शय्या, शय्य्या। अदितेरपत्यमादित्य इत्यत्र तकारात् पर एको यकारः,**यणो मयः०** (८.४.४७ वा०) इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति — आदित्यः, आदित्य्यः। आदित्यो देवता अस्य स्थालीपाकस्येति आदित्य्यः, आदित्यः, आदित्य्य्य इति। अत्रापि द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति। हल इति किम्? अन्नम्। यमामिति किम्? अर्घ्यम्। यमीति किम्? शार्ङ्गम्॥
Siddhanta Kaumudi¶
हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥
Laghu Siddhanta Kaumudi¶
हलः परस्य यमो लोपः स्याद् वा यमि। इति यलोपः। आदित्यः। प्राजापत्यः। देवाद्यञञौ (वार्त्तिकम्) । दैव्यम्। दैवम्। बहिषष्टिलोपो यञ्च (वार्त्तिकम्)। बाह्यः ईकक्च (वार्त्तिकम्)॥
Laghu Shabdendushekhar¶
वा यमीति । झयो होऽन्यतरस्याम् (८.४.६२) इत्यतो “अन्यतरस्याम्” इत्यनुवृत्तेरिति भावः । दीर्घादाचार्याणाम् (८.४.५२) इत्युत्तरम् अनुस्वारस्य ययि परसवर्णः (८.४.५८), वा पदान्तस्य (८.४.५९), तोर्लि (८.४.६०), उदः स्थास्तम्भोः पूर्वस्य (८.४.६१), झयो होन्यतरस्याम् (८.४.६२), शश्छोऽटि (८.४.६३) - इति षट्सूत्रीपाठोत्तरं झलां जश् झशि (८.४.५३), अभ्यासे चर्च (८.४.५४), खरि च (८.४.५५), वाऽवसाने (८.४.५६), अणोऽप्रगृह्यस्यानुनासिकः (८.४.५७) - इति पञ्चसूत्र्याः पाठ इति भाष्यसम्मताष्टाध्यायीपाठे तु वाऽवसाने (८.४.५६) इत्यतोऽनुवृत्तिर्बोद्ध्या । स्पष्टञ्चास्य वैकल्पिकत्वं लण्सूत्रे भाष्ये । आदित्य इति । आदित्यशब्दाच्छेषार्थण्यन्ताद्देवतार्थे ण्यः । यस्येति च (६.४.१४८) इत्यल्लोपेऽनेन यलोपः । आपत्यस्य च तद्धितेऽनाति (६.४.१५१) इति तु न । आपत्यत्वाभावात् । हल इति किम् ? “शय्या” । यमामिति किम् ? “आर्ध्नोत्” । यमीति किम् ? “रामाभ्याम्” ॥
Balamanorama¶
हलो यमां यमि लोपः - उभयत्रापि प्रथमयकारस्य लोपविधिमाह — हलो यमां यमि लोपः ।झयो होऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते । यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात् । ‘हल’ इति दिग्योगे पञ्चमी ।परस्ये॑ति शेषः । तदाह-हलः परस्य यम इत्यादिना । अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपे संपद्यते । लोपाऽभावपक्षे तु द्वियकाररूपं संपद्यते । ननुहलो यमा॑मिति सूत्रमेतदर्थं नारम्भणीयम्, अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाऽभावे एकयकाररूपस्य च सिद्धेरित्याशङ्क्य नास्य सूत्रस्यात्र प्रयोजनमित्याह — इति लोपेति । तर्हि किमस्य सूत्रस्य फलमित्यत आह — लोपारम्भेति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इत्यादित्यशब्दाच्छेषार्थण्यान्ताद्देवतार्थेण्यः । आदित्य — य इति स्थितेयस्येति चे॑ति यकारादकारस्य लोपे तकाराद्यकारस्याऽनेन सूत्रेण लोपः । तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा । अतः सूत्रारम्भो न विफल इति भावः । अत्रआपत्यस्य च तद्धितेऽनाती॑ति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाऽभावात् । अत्र त्वतत्सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः । नन्वेवमपि महात्मनो भाव इत्यर्थेगुणवचनब्राआहृणादिभ्यः॑ इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात्, यकाररूपयम्परकत्वाच्चेत्यत आह — यमामिति । यथासंख्यविज्ञानादिति । विज्ञायते अनेनेति विज्ञानं=सूत्रम् ।विज्ञानं शिल्पशास्त्रयोः॑ इत्यमरः । यथासंख्यसूत्रादित्यर्थः । तथाच मकारस्य मकारे परत एव लोपलाभाद्यकारे परे न लोप इत्यर्थः ।
Tattvabodhini¶
हलो यमां यमि लोपः - हलो यमां यमि । हलः किम् न्याय्यम् । इह यकारादीनां यकारादौ परे यथासम्भवमुदाहरणान्युच्यन्ते । सुध्युपास्यः । मध्वरिः । अत्रयणो मय॑ इति मयः परस्य यस्य वस्य च द्वित्वे कृते अनेन लोपः । दुर्लभः । दुर्ञुङुवे । कुर्मः । अत्र तुअचो रहाभ्या॑मिति लस्य ञस्य मस्य च द्वित्वे कृते लोपः । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः । अत्रअनचि चे॑ति ङमो द्वित्वे सत्यनेन ङकारणकारनकाराणां लोपः । लोपः स्याद्वेति ।झयो ह्मः॑ इति सूत्रादन्यतरस्यामित्यनुवर्तत इति भावः ।लोपारम्भफलं तु आदित्यो देवतेति । आदित्यशब्दात्दित्यदित्ये॑ति ण्यप्रत्ययेयस्येति चे॑त्यकारलोपेऽनेन च यलोपे आदित्यमित्येकयकारकं रूपं सिध्यति नान्यथेति भावः । नचआपत्यस्य च तद्धितेऽनाती॑त्यनेन यलोपे कृते एकयकारकं रूपं सिध्यतीति वाच्यम् ; अदितौ जात आदित्य इत्यादिविवक्षायां तस्याऽप्रवृत्तेः । यथासङ्ख्यविज्ञानादिति । उक्तोदाहरणेषु वोपारम्भफलाभावाद्रोफस्य रेफे परत उदाहरणाऽभावाच्च यथासङ्क्यासूत्रमिह नोप्रन्यस्तम् ष । माहात्म्यमिति । अत्र मलोपो नेत्यर्थः ।हलोयरां यरि सवर्णे लोपः॑ इति तु न सूत्रितम् ।मूर्ध्रः॑शाङ्र्ग॑ मित्यादौ रेफात्परस्य लोपांपत्तेः ।
Nyaas¶
शय्य्येत्यत्र द्वौ यकारो इति। एकः संज्ञायां समज (3.3.99) इत्यादिना विहितस्य क्यपोऽवयवः, अपरस्त्वपङः। क्रमजस्तृतीयः इति। क्रमः=आनुपूर्वी, ततो जातः क्रमजः। स पुनः अनचि च (8.4.46) इत्यनेन यो विहितः, स हि पूर्वयकाराभ्यां पश्चाज्जात इति क्रमजो भवति। तकारत् परो यकार एकः [एको यकारः -काशिका] इति। दित्यदित्यादित्य (4.1.85) इत्यादिना विहितस्य ण्यस्यावयवः। द्वौ यकारौ इति। एकोऽदितिशब्दात्? तस्यापत्यम् (4.1.92) इत्यर्थे दित्यदित्या`दिसूत्रेण (4.1.85) विहितस्यावयवः। द्वपितीयस्त्वादित्यशब्दादेव **सास्य देवता** (4.2.24) इत्यर्थे तेनैव सूत्रेण विहितस्य ण्यस्यावयवः। `क्रमजस्तृतीयः इति। यणो मयः (वा।956) इत्यनेन यो विहितः। मध्यमस्य मध्यमयोर्वा इति। अन्यतरस्याम्? (8.4.61) इत्यधिकारात्। यद्येकस्य भवति ततो मध्यमस्य, अथ द्वयोरिति ततो मद्यमयोः। आश्नम् इति। अन्नाष्णः (4.4.85) इति निपातनात्? अदो जग्धिर्ल्यप्ति किति (2.4.36) इति न भवति जग्ध्यादेशः, रदाभ्याम् (8.2.42) इत्यादिना निष्ठानत्वम्। भवत्ययं नकारो यम्, यमि परतश्च; न च हल उत्तरः, किं तर्हि? अचः। अध्र्यम् इति। पादार्धाभ्याञ्च (5.4.25) इति तादर्थे यत्। अत्र घकारो रेफादुत्तरो भवति, यकारे यमि परतः। न त्वयं यम्? धकारः; तस्य यम्त्वसन्निवेशात्। शाङ्गंम् इति। शृङ्गस्य विकार इत्यण्, आदिवृद्धिः, रपरत्वम्। अत्र ङकारो यम्? हल उत्तरो भवति, न तु तस्मात् परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरह्गा भवति; न तु तस्मात्? परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरङ्गा भवित; लोपस्त्वन्तरङ्गः, ततश्चान्तरङ्गे लोपे कर्तव्ये वृद्धेरसिद्धत्वम्, तस्या असिद्धत्वात्? तदाश्रितस्य रेफस्याप्यसिद्धत्वमेव। एवं च सति ङकारो हल एव परो न भवतीति यत्? केचिच्चोदयन्ति तन्मतमिदं नोपन्यसनीयमेव; मूलोदाहरणेऽपि तथा सम्भवात्॥
Praudhamanorama¶
लोपः स्याद्वेति। झयो हः— (8.4.62) इत्यतोऽन्यतरस्यामित्यनुवृत्तेः। एतच्च लण्सूत्रे भाष्ये स्पष्टम्। माहात्म्यमिति। अत्र मलोपो नेत्यर्थः। ‘हलो यरां यरि सवर्णे लोपः’ इति तु न सूत्रितम्। आर्ध्नोत्, मूर्ध्नः, शार्ङ्गम्, आर्त्नी इत्यादौ रेफात्परस्य लोपापत्तेः॥
Prakriyasarvasvam¶
हलः परेषां यमां क्रमाद् यमि परे वा लोपः स्यात् । ये परे यस्य लोपः, वे परे वस्येति क्रमः । मव् य । यलोपस्य पूर्वत्रासिद्धत्वेनोपधात्वाभावान्न वृद्धिः । मव्यम् । अयं लोपो नित्य इति कौमुदी । वेति वृत्तिः । हन् य ।