84066: उदात्तादनुदात्तस्य स्वरितः

Padacheda: उदात्तात् | S | 5 | 1 |

अनुदात्तस्य | S | 6 | 1 |

स्वरितः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The स्वरित is the substitute of an अनुदात्त vowel which follows an उदात्त vowel.

Vasu English Translation

The स्वरित is the substitute of an अनुदात्त vowel which follows an उदात्त vowel. Thus अग्निम् + ईले = अग्नि॑मीले ॥ Here ई which was अनुदात्त by rule (8.1.28), becomes svarita by the present rule, as it comes after the udatta इ of agni.

So also गा꣡र्ग्यः॑, वा꣡त्स्यः॑ ॥ Here यञ् is added by (4.1.105), and being ञित् the words are first acute. The final is anudatta, which becomes svarita. So also प꣡च॑ति and प꣡ठ॑ति, the शप् and तिप् are anudatta, the root is accented, the अ of शप् becomes svarita.

The rule (6.1.158), does not change this svarita into an Anudatta, because for the purposes of that rule, the present rule is असिद्ध, or as if it had not taken place (8.2.1). Therefore both the udatta and the svarita accent are heard.

Kashika

उदात्तादुत्तरस्यानुदात्तस्य स्वरितादेशो भवति। गार्ग्यः॑। वात्स्यः॑। पच॑ति पठ॑ति। अस्य स्वरितस्यासिद्धत्वाद् अनुदात्तं पदमेकवर्जम् (६.१.१५८) इत्येतद् न प्रवर्तते। तेनोदात्तस्वरितावुभावपि श्रूयेते॥

Siddhanta Kaumudi

उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् । अग्निमीळे (अ॒ग्निमी॑ळे) । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः (तमी॑शा॒नासः॑) ॥

Padamanjari

गार्ग्यः, वात्स्य इति ।’गर्गादिभ्यो यञ्’ , ञित्वादाद्यौदातत्वम्, शेषनिघातः, तस्य स्वरितः । पचति, पठतीति । शप्तिपावनुदातौ, धातुस्वरः, शबकारस्य स्वरितत्वम् ।’तित्स्वरितम्’ इत्यस्यानन्तरमिदं वक्तव्यम्, एवं हि स्वरितग्रहणं न कर्तव्यं भवति ? अत आह - अस्येति । यदि तत्र क्रियेत, ठनुदातं पदमेकवर्जम्ऽ इत्येतत्प्रवर्तेत । इह तु करणे न प्रवर्ततेः स्वरितस्यासिद्धत्वात् । तेन द्वयोरप्युदातस्वरितयोः श्रवणं भवति ॥

Nyaas

गार्ग्यः, वात्स्यः इति। गर्गवक्ष्टशब्दाभ्याम्? गर्गादिभ्यो यञ् (4.1.105) इति यञ्, ञ्नित्यादि नित्यम् [ञ्नित्यादेनि -प्रांउद्रितः पाठः] (6.1.191) इत्यत्त्युदात्तत्वम्, अनुदात्तं पदमेकवर्जम् (6.1.158) इति शेषस्यानुदात्तत्वम्, तस्य स्वरितो भवति। पचति, पठति इति। तिप्सपौ पित्त्वादनुदात्तौ। पकारस्याकारोऽपि धातुस्वरेणोदात्तः। तस्मात्? परस्य शवकारस्य स्वरितत्वं भवति। किं पुनः कारणं सूत्रमिदमिहोचयते, न तित्स्वरितम् (6.1.185) इत्यस्यानन्तरमुच्यताम्, एवं हि स्थरितग्रहणं न कर्तव्यं भवति; प्रकृतमेव ह्रनुवर्त्तिष्यते? इत्याह -अस्य इत्यादि। यदि तत्र क्रियेत, तदा अनुदात्तं पदमेकवर्जम् (6.1.158) इत्येतदिह प्रवर्तेत, तत्श्चानुदात्तस्वरितौ श्रूयेयाताम्, नोदात्तस्वरितौ। इह तु क्रियमाणे स्वरितस्यासद्धत्वात्? तदाश्रयम्? अनुदात्तं पदमेकवर्जम् (6.1.158) इति न प्रवर्तते, तेन द्वावप्यस्योदात्तस्वरितौ श्रूयेते॥

Prakriyasarvasvam

उदात्तात्परस्यानुदात्तस्य स्वरित आदेशः स्यात् । त त्वा समिद्भिः । अत्र नतवानां परत्वेऽपि तेषां ‘स्वरविधौ व्यञ्जनमविद्यमानवत्’ इत्यसद्वत्त्वादाकारस्यैव स्वरितः । ‘उदात्तस्वरितयोर्यणः-’ (८-२-४) इत्यत्र यण्स्वरो यणादेशे सिद्धो वाच्यः’ इत्युक्तेरस्य स्वरितस्य यण् स्वरत्वाभावेनासिद्धत्वादत्यतिष्ठदित्यादौ स्वरितयण्त्वं न । अत्र तकारयकारयोः ‘स्वरविधौ व्यञ्जनम्—’ (परि.) इत्यसद्वत्त्वात् ‘उदात्तादनुदात्तस्य—’ (८-४-६६) इत्येव स्वरितः । [ततश्च स्वरमञ्जर्यां ‘स्वरितस्थानजाद्यण्ः’ इत्याह दध्यानयतीत्युक्तिर्युज्येत वा न वा ॥] इन्द्र इत् इषं स्वः । अत्र इकारयोरुदात्तत्वाद् ‘अनुदात्तं पदमेकवर्जं’ (६-१-१५८) इत्यनुदात्तयोरकारयोः ‘उदात्तादनुदात्तस्य—’ (८-४-६६) ⁴स्वरिते प्राप्ते ।