84064: हलो यमां यमि लोपः ======================== **Padacheda:** हलः | S | 5 | 1 | यमाम् | S | 6 | 3 | यमि | S | 7 | 1 | लोपः | S | 1 | 1 | Sutrartha --------- **हल्-वर्णात् परस्य यम्-वर्णस्य यम्-वर्णे परे विकल्पेन लोपः भवति ।** **हल्** = सर्वाणि व्यञ्जनानि । **यम्** = अन्त:स्थाः + वर्गपञ्चमाः । हल्-वर्णात् अनन्तरम्, यम्-वर्णात् पूर्वम् विद्यमानस्य यम्-वर्णस्य प्रकृतसूत्रेण वैकल्पिकः लोपः भवति । अस्य सूत्रस्य द्वे उदाहरणे एतादृशे — 1. **आदित्यः देवता यस्य** अस्मिन् अर्थे **दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः** (4.1.85) अनेन सूत्रेण "आदित्य" शब्दात् "ण्य"-प्रत्यये कृते प्रकृतसूत्रेण यकारस्य लोपः विधीयते — .. code-block:: text आदित्यः देवता अस्य [तद्धितवृत्तिः] = आदित्य + ण्य [**दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः** (4.1.85) इति ण्य-प्रत्ययः] → आदित्य + य [णकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः] → आदित्य् य [**यस्येति च** (6.4.148) इति अकारलोपः] → आदित् य [**हलो यमां यमि लोपः** (8.4.64) इति तकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।] → आदित्य 2. **आस्ये भवः** अस्मिन् अर्थे "आस्य"-शब्दात् **शरीरावयवाच्च** (4.3.55) इति सूत्रेण "यत्"-प्रत्यये कृते पुनः "आस्य" इत्येव शब्दः सिद्ध्यति । अस्य प्रक्रियायां यकारस्य प्रकृतसूत्रेण लोपः कृतः दृश्यते — .. code-block:: text आस्ये भवः [तद्धितवृत्तिः] → आस्य + यत् [**शरीरावयवाच्च** (4.3.55) इति यत्] → आस्य् + य [**यस्येति च** (6.4.148) इति अकारलोपः] → आस् + य [**हलो यमां यमि लोपः** (8.4.64) इति सकारात् (हल्-वर्णात्) परस्य यकारस्य (यम्-वर्णस्य) यकारे परे (यम्-वर्णे परे) विकल्पेन लोपः भवति ।] → आस्य **अनचि च** (8.4.47) तथा च **अचो रहाभ्यां द्वे** (8.4.46) इत्यादिभिः सूत्रैः (वार्त्तिकैः च) द्वित्वे कृते अपि अस्य सूत्रस्य प्रयोगः सम्भवति, परन्तु कोऽपि नूतनः शब्दः न सिद्ध्यति, अपितु कृतद्वित्वस्य वर्णस्य एव अनेन सूत्रेण लोपं कृत्वा मूलशब्दस्य पुनः विधानं क्रियते । कानिचन उदाहरणानि एतानि — 1. **अनचि च** (8.4.47) इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —‌ .. code-block:: text शय्या → शय्य्या [**अनचि च** (8.4.47) इति यकारस्य वैकल्पिकं द्वित्वम्] → शय्या [द्वितीयस्य यकारस्य **हलो यमां यमि लोपः** (8.4.64) इति विकल्पेन लोपः] 2. **अचो रहाभ्यां द्वे** (8.4.46) इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः —‌ .. code-block:: text दुर्लभ → दुर्ल्लभ [**अचो रहाभ्यां द्वे** (8.4.46) इति लकारस्य वैकल्पिकम् द्वित्वम् ] → दुर्लभ [प्रथम-लकारस्य **हलो यमां यमि लोपः** (8.4.64) इति विकल्पेन लोपः] 3. इत्यस्मात् अनन्तरम् प्रकृतसूत्रस्य प्रयोगः — .. code-block:: text वाल्मीकि → वाल्म्मीकि [ (वार्त्तिकम् (8.4.47)) इति इति मकारस्य वैकल्पिकम् द्वित्वम् ] → वाल्मीकि [प्रथम-मकारस्य **हलो यमां यमि लोपः** (8.4.64) इति विकल्पेन लोपः] **यम्-वर्णस्य सवर्णे यम्-वर्णे परे एव लोपः** यद्यपि प्रकृतसूत्रे यम्-वर्णस्य यम्-वर्णे परे लोपः उक्तः अस्ति, तथापि अत्र केवलम् **यम्-वर्णस्य तस्मिन् यम्-वर्णे परे एव लोपः विधीयते** । इत्युक्ते, यकारस्य यकारे परे, लकारस्य लकारे परे — इत्यनेन प्रकारेणैव लोपः विधीयते । अतएव अस्य सूत्रस्य कौमुदीव्याख्याने **यथासङ्ख्यविज्ञानात्** इति शब्दः प्रयुक्तः अस्ति । अतएव "माहात्म्यम्" इत्यस्मिन् शब्दे विद्यमानस्य मकारस्य यकारे परे प्रकृतसूत्रेण लोपः नैव विधीयते । ** **हलो यमां यमि लोपः** (8.4.64) तथा च **झरो झरि सवर्णे** (8.4.65) इति द्वयोः सूत्रयोः पृथक् विधानस्य प्रयोजनम्** **हलो यमां यमि लोपः** (8.4.64) तथा च **झरो झरि सवर्णे** (8.4.65) इति द्वाभ्याम् अपि सूत्राभ्याम् लोपकार्यम् एव उक्तम् अस्ति । अतः एते द्वे सूत्रे एकत्रीकृत्य (इत्युक्ते, "यम् + झर् = यर्" इति यर्-प्रत्याहारस्य प्रयोगं कृत्वा) **हलो यरां यरि सवर्णे लोपः** इति एकम् सूत्रम् अपि कर्तुम् शक्यते । परन्तु तादृशं क्रियते चेत् "मूर्ध्नः", "शार्ङ्गम्", "आर्त्नी" इत्यादिषु शब्देषु हल्-वर्णात् परस्य (रेफात् परस्य) यर्-वर्णस्य (धकारस्य) सवर्णे यर्-वर्णे परे (नकारे परे) अनिष्टः लोपः सम्भवेत् । तादृशं मा भूत् इति ज्ञापयितुम् पाणिनिना यर्-प्रत्याहारस्य स्थाने यम् तथा झर् इति द्वौ प्रत्याहारौ पृथक् पृथक् प्रयुज्य द्वयोः भिन्नसूत्रयोः निर्माणम् कृतम् अस्ति । "मूर्ध्नः", "शार्ङ्गम्", "आर्त्नी" इत्यादिषु उदाहरणेषु झर्-वर्णात् परः झर्-वर्णः न हि विद्यते, अतः एतादृशेन भिन्नसूत्रस्य निर्माणेन एतेषु उदाहरणेषु अनिष्टः लोपः अपि न भवति । Sutrartha (English) ------------------- A यम्-letter sandwiched between a हल्-letter (on left) and the same यम्-letter (on right) is optionally removed. Vasu English Summary -------------------- After a consonant, the following semi-vowel or a nasal is elided optionally, when the same letters follow it Vasu English Translation ------------------------ After a consonant, the following semi-vowel or a nasal is elided optionally, when the same letters follow it The word अन्यतरस्याम् should be read into the *sutra*. Thus शय्य्या or शय्या, the middle य् being elided. In शय्या there are two यs, one of the affix क्यप् (3.3.99); and the second of अयङ् (7.4.22), and the third arises by doubling (8.4.47). आदित्य्य (formed by doubling य by the *Vartika* under 47 *ante*), or आदित्य 'son of *Aditi*' In आदित्य्य there are two यs, one of ण्य (4.1.85), and the second arises by doubling. Similarly आदित्य देवता अस्य स्थाली पाकस्य = आदित्य्य ॥ Then by (8.4.47), there is a third य, as अदित्य्य ॥ Here also we may elide the one middle य or both the middle य's. Thus आदित्यः or आदित्य्य ॥ Why do we say हलः 'preceded by a consonant'? Observe अन्नम् when म् is preceded by a vowel. Why do we say यमाम् "of यम् letters"? Observe अग्ग्निः, अर्घ्यम् (5.4.25) where घ is not a य ॥ Why do we say यमिं "when यम् follows" ? Observe शार्ङ्गम् here ङ् is not followed by a यम् ॥ Kashika ------- अन्यतरस्यामिति वर्तते। हल उत्तरेषां यमां यमि परतो लोपो भवत्यन्यतरस्याम्। शय्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति। शय्या, शय्य्या। अदितेरपत्यमादित्य इत्यत्र तकारात् पर एको यकारः,**यणो मयः०** (८.४.४७ वा०) इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति — आदित्यः, आदित्य्यः। आदित्यो देवता अस्य स्थालीपाकस्येति आदित्य्यः, आदित्यः, आदित्य्य्य इति। अत्रापि द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति। हल इति किम्? अन्नम्। यमामिति किम्? अर्घ्यम्। यमीति किम्? शार्ङ्गम्॥ Siddhanta Kaumudi ----------------- हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥ Laghu Siddhanta Kaumudi ----------------------- हलः परस्य यमो लोपः स्याद् वा यमि। इति यलोपः। आदित्यः। प्राजापत्यः। **देवाद्यञञौ** (वार्त्तिकम्) । दैव्यम्। दैवम्। **बहिषष्टिलोपो यञ्च** (वार्त्तिकम्)। बाह्यः **ईकक्च** (वार्त्तिकम्)॥ Laghu Shabdendushekhar ---------------------- **वा यमीति** । **झयो होऽन्यतरस्याम्** (८.४.६२) इत्यतो "अन्यतरस्याम्" इत्यनुवृत्तेरिति भावः । **दीर्घादाचार्याणाम्** (८.४.५२) इत्युत्तरम् **अनुस्वारस्य ययि परसवर्णः** (८.४.५८), **वा पदान्तस्य** (८.४.५९), **तोर्लि** (८.४.६०), **उदः स्थास्तम्भोः पूर्वस्य** (८.४.६१), **झयो होन्यतरस्याम्** (८.४.६२), **शश्छोऽटि** (८.४.६३) - इति षट्सूत्रीपाठोत्तरं **झलां जश् झशि** (८.४.५३), **अभ्यासे चर्च** (८.४.५४), **खरि च** (८.४.५५), **वाऽवसाने** (८.४.५६), **अणोऽप्रगृह्यस्यानुनासिकः** (८.४.५७) - इति पञ्चसूत्र्याः पाठ इति भाष्यसम्मताष्टाध्यायीपाठे तु **वाऽवसाने** (८.४.५६) इत्यतोऽनुवृत्तिर्बोद्ध्या । स्पष्टञ्चास्य वैकल्पिकत्वं लण्सूत्रे भाष्ये । **आदित्य इति** । आदित्यशब्दाच्छेषार्थण्यन्ताद्देवतार्थे ण्यः । **यस्येति च** (६.४.१४८) इत्यल्लोपेऽनेन यलोपः । **आपत्यस्य च तद्धितेऽनाति** (६.४.१५१) इति तु न । आपत्यत्वाभावात् । हल इति किम् ? "शय्या" । यमामिति किम् ? "आर्ध्नोत्" । यमीति किम् ? "रामाभ्याम्" ॥ Balamanorama ------------ **हलो यमां यमि लोपः** - उभयत्रापि प्रथमयकारस्य लोपविधिमाह — हलो यमां यमि लोपः ।झयो होऽन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । तच्च विभक्तिप्रतिरूपकमव्ययं वार्थे वर्तते । यमामिति बहुत्वं प्रयोगबहुत्वापेक्षम् । एकैकस्मिन् प्रयोगे बहूनां यमामसम्भवात् । 'हल' इति दिग्योगे पञ्चमी ।परस्ये॑ति शेषः । तदाह-हलः परस्य यम इत्यादिना । अनेन सूत्रेण उदाहरणद्वयेऽपि प्रथमयकारस्य लोपे सति एकयकाररूपे संपद्यते । लोपाऽभावपक्षे तु द्वियकाररूपं संपद्यते । ननुहलो यमा॑मिति सूत्रमेतदर्थं नारम्भणीयम्, अचो रहाभ्यामिति यकारद्वित्वस्य वैकल्पिकतया द्वित्वे सति द्वियकाररूपस्य, द्वित्वाऽभावे एकयकाररूपस्य च सिद्धेरित्याशङ्क्य नास्य सूत्रस्यात्र प्रयोजनमित्याह — इति लोपेति । तर्हि किमस्य सूत्रस्य फलमित्यत आह — लोपारम्भेति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इत्यादित्यशब्दाच्छेषार्थण्यान्ताद्देवतार्थेण्यः । आदित्य — य इति स्थितेयस्येति चे॑ति यकारादकारस्य लोपे तकाराद्यकारस्याऽनेन सूत्रेण लोपः । तस्मिन् सत्येव आदित्यमित्येकयकारं रूपं सिध्यति, नान्यथा । अतः सूत्रारम्भो न विफल इति भावः । अत्रआपत्यस्य च तद्धितेऽनाती॑ति लोपस्तु न, जाताद्यर्थकत्वेन आपत्यत्वाऽभावात् । अत्र त्वतत्सूत्रं न्याय्यत्वादुपन्यस्तमिति भावः । नन्वेवमपि महात्मनो भाव इत्यर्थेगुणवचनब्राआहृणादिभ्यः॑ इति ष्यञि टिलोपे आदिवृद्धौ माहात्म्यमित्यत्रापि तकारान्मकारस्य लोपः स्यात्, तस्य यम्त्वात्, यकाररूपयम्परकत्वाच्चेत्यत आह — यमामिति । यथासंख्यविज्ञानादिति । विज्ञायते अनेनेति विज्ञानं=सूत्रम् ।विज्ञानं शिल्पशास्त्रयोः॑ इत्यमरः । यथासंख्यसूत्रादित्यर्थः । तथाच मकारस्य मकारे परत एव लोपलाभाद्यकारे परे न लोप इत्यर्थः । Tattvabodhini ------------- **हलो यमां यमि लोपः** - हलो यमां यमि । हलः किम् न्याय्यम् । इह यकारादीनां यकारादौ परे यथासम्भवमुदाहरणान्युच्यन्ते । सुध्युपास्यः । मध्वरिः । अत्रयणो मय॑ इति मयः परस्य यस्य वस्य च द्वित्वे कृते अनेन लोपः । दुर्लभः । दुर्ञुङुवे । कुर्मः । अत्र तुअचो रहाभ्या॑मिति लस्य ञस्य मस्य च द्वित्वे कृते लोपः । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः । अत्रअनचि चे॑ति ङमो द्वित्वे सत्यनेन ङकारणकारनकाराणां लोपः । लोपः स्याद्वेति ।झयो ह्मः॑ इति सूत्रादन्यतरस्यामित्यनुवर्तत इति भावः ।लोपारम्भफलं तु आदित्यो देवतेति । आदित्यशब्दात्दित्यदित्ये॑ति ण्यप्रत्ययेयस्येति चे॑त्यकारलोपेऽनेन च यलोपे आदित्यमित्येकयकारकं रूपं सिध्यति नान्यथेति भावः । नचआपत्यस्य च तद्धितेऽनाती॑त्यनेन यलोपे कृते एकयकारकं रूपं सिध्यतीति वाच्यम् ; अदितौ जात आदित्य इत्यादिविवक्षायां तस्याऽप्रवृत्तेः । यथासङ्ख्यविज्ञानादिति । उक्तोदाहरणेषु वोपारम्भफलाभावाद्रोफस्य रेफे परत उदाहरणाऽभावाच्च यथासङ्क्यासूत्रमिह नोप्रन्यस्तम् ष । माहात्म्यमिति । अत्र मलोपो नेत्यर्थः ।हलोयरां यरि सवर्णे लोपः॑ इति तु न सूत्रितम् ।मूर्ध्रः॑शाङ्र्ग॑ मित्यादौ रेफात्परस्य लोपांपत्तेः । Nyaas ----- `शय्य्येत्यत्र द्वौ यकारो` इति। एकः `संज्ञायां समज` (3.3.99) इत्यादिना विहितस्य क्यपोऽवयवः, अपरस्त्वपङः। `क्रमजस्तृतीयः` इति। क्रमः=आनुपूर्वी, ततो जातः क्रमजः। स पुनः `अनचि च` (8.4.46) इत्यनेन यो विहितः, स हि पूर्वयकाराभ्यां पश्चाज्जात इति क्रमजो भवति। `तकारत् परो यकार एकः` [एको यकारः -काशिका] इति। `दित्यदित्यादित्य` (4.1.85) इत्यादिना विहितस्य ण्यस्यावयवः। `द्वौ यकारौ` इति। एकोऽदितिशब्दात्? **तस्यापत्यम्** (4.1.92) इत्यर्थे `दित्यदित्या`दिसूत्रेण (4.1.85) विहितस्यावयवः। द्वपितीयस्त्वादित्यशब्दादेव **सास्य देवता** (4.2.24) इत्यर्थे तेनैव सूत्रेण विहितस्य ण्यस्यावयवः। `क्रमजस्तृतीयः` इति। `यणो मयः` (वा।956) इत्यनेन यो विहितः। `मध्यमस्य मध्यमयोर्वा` इति। अन्यतरस्याम्? (8.4.61) इत्यधिकारात्। यद्येकस्य भवति ततो मध्यमस्य, अथ द्वयोरिति ततो मद्यमयोः। `आश्नम्` इति। `अन्नाष्णः` (4.4.85) इति निपातनात्? **अदो जग्धिर्ल्यप्ति किति** (2.4.36) इति न भवति जग्ध्यादेशः, `रदाभ्याम्` (8.2.42) इत्यादिना निष्ठानत्वम्। भवत्ययं नकारो यम्, यमि परतश्च; न च हल उत्तरः, किं तर्हि? अचः। `अध्र्यम्` इति। `पादार्धाभ्याञ्च` (5.4.25) इति तादर्थे यत्। अत्र घकारो रेफादुत्तरो भवति, यकारे यमि परतः। न त्वयं यम्? धकारः; तस्य यम्त्वसन्निवेशात्। `शाङ्गंम्` इति। शृङ्गस्य विकार इत्यण्, आदिवृद्धिः, रपरत्वम्। अत्र ङकारो यम्? हल उत्तरो भवति, न तु तस्मात् परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरह्गा भवति; न तु तस्मात्? परो यम्? गकारः; तस्य यम्प्रत्याहारेऽसन्निवेशात्। नत्वादिवृद्धिस्तद्धिताश्रया बहिरङ्गा भवित; लोपस्त्वन्तरङ्गः, ततश्चान्तरङ्गे लोपे कर्तव्ये वृद्धेरसिद्धत्वम्, तस्या असिद्धत्वात्? तदाश्रितस्य रेफस्याप्यसिद्धत्वमेव। एवं च सति ङकारो हल एव परो न भवतीति यत्? केचिच्चोदयन्ति तन्मतमिदं नोपन्यसनीयमेव; मूलोदाहरणेऽपि तथा सम्भवात्॥ Praudhamanorama --------------- **लोपः स्याद्वेति।** **झयो हः—** (8.4.62) इत्यतोऽन्यतरस्यामित्यनुवृत्तेः। एतच्च लण्सूत्रे भाष्ये स्पष्टम्। **माहात्म्यमिति।** अत्र मलोपो नेत्यर्थः। 'हलो यरां यरि सवर्णे लोपः' इति तु न सूत्रितम्। आर्ध्नोत्, मूर्ध्नः, शार्ङ्गम्, आर्त्नी इत्यादौ रेफात्परस्य लोपापत्तेः॥ Prakriyasarvasvam ----------------- हलः परेषां यमां क्रमाद् यमि परे वा लोपः स्यात् । ये परे यस्य लोपः, वे परे वस्येति क्रमः । मव् य । यलोपस्य पूर्वत्रासिद्धत्वेनोपधात्वाभावान्न वृद्धिः । मव्यम् । अयं लोपो नित्य इति कौमुदी । वेति वृत्तिः । हन् य ।