84061: उदः स्थास्तम्भोः पूर्वस्य¶
Padacheda: उदः | S | 5 | 1 |
स्था-स्तम्भोः | S | 6 | 2 |
पूर्वस्य | S | 6 | 1 |
Sutrartha¶
उद्-उपसर्गात् परस्य स्था-धातोः स्तम्भ-धातोः पूर्वसवर्णादेशः भवति ।
“उत् + स्था” इत्यत्र स्था-धातोः, तथा च “उत् + स्तम्भ्” इत्यत्र स्तम्भ्-धातोः पूर्वसवर्णः (दकारस्य सवर्णः) आदेशरूपेण विधीयते । दकारस्य आहत्य पञ्च सवर्णाः सन्ति — त्, थ्, द्, ध्, न् । एतेभ्यः विवार-श्वास-अघोष-महाप्राण-सकारस्य तादृशः एव थकारः आदेशरूपेण विधीयते । अपि च, आदेः परस्य (1.1.54) इत्यनेन अयम् आदेशः स्था/स्तम्भ्-इत्येतयोः आदिवर्णस्य (सकारस्य) स्थाने भवति । इत्युक्ते, “उद् + स्था” तथा च “उद् + स्तम्भ्” इत्यत्र विद्यमानस्य सकारस्य थकारादेशः भवति — इति प्रकृतसूत्रस्य आशयः । यथा — <hlb>1) स्था-धातोः सकारस्य थकारादेशः</hlb>
उद् + स्थानम्
→ उत् + स्थानम् [**खरि च** (8.4.55) इति चर्त्वम्]
→ उत् + थ्थानम् [**उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) इति सकारस्य थकारः]
→ उत्थ्थानम्
→ उत्थानम् [**झरो झरि सवर्णे** (8.4.65) इत्यनेन थकारस्य विकल्पेन लोपः]
<hlb>2) स्तम्भ्-धातोः सकारस्य थकारादेशः</hlb>
उद् + स्तम्भनम्
→ उत् + स्तम्भनम् [**खरि च** (8.4.55) इति चर्त्वम्]
→ उत् + थ्तम्भनम् [**उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) इति सकारस्य थकारः]
→ उत्थ्तम्भनम्
→ उत्तम्भनम् [**झरो झरि सवर्णे** (8.4.65) इत्यनेन थकारस्य विकल्पेन लोपः]
वार्त्तिकद्वयम्
1. <!उदः पूर्वसवर्णत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् !> वेदेषु “उद् + स्कन्द्” इत्यत्रापि सकारस्य पूर्वसवर्णः कृतः दृश्यते । यथा, अग्ने दूरम् उत्कन्दः इत्यत्र सकारस्य थकारादेशे कृते, तस्य च अग्रे झरो झरि सवर्णे (8.4.65) इति लोपे कृते “उत्कन्द” इति रूपं सिद्ध्यति । 2. <!रोगे चेति वक्तव्यम् !> “उत्कन्दक” इति रोगवाचकः शब्दः (name of a disease) “ उद् + स्कन्द्” इत्यस्मात् रोगाख्यायां ण्वुल् बहुलम् (3.3.108) इत्यनेन सूत्रेण ण्वुल्-प्रत्यये कृते सिद्ध्यति । तत्र प्रक्रियायां प्रकृतसूत्रेण सकारस्य परसवर्णः थकारः भवति — इति अस्य वार्त्तिकस्य आशयः । ततश्च झरो झरि सवर्णे (8.4.65) इति लोपः अपि विधीयते, येन “उत्कन्दक” इति शब्दः सिद्ध्यति ।
Sutrartha (English)¶
The स्था and स्तम्भ् are converted to पूर्वसवर्ण when they follow the upasarga उत् ।
Vasu English Summary¶
After उद्, in the room of the स of स्था or स्तम्भ, the substitute is a letter belonging to the class of the prior (i.e. a dental is substituted for this स).
Vasu English Translation¶
After उद्, in the room of the स of स्था or स्तम्भ, the substitute is a letter belonging to the class of the prior (i.e. a dental is substituted for this स).
As उद् + स्थाता = उद् + थ्थाता = उद् + थाता (8.4.65) = उत् + थाता (8.4.55) = उत्थाता, उत्थातुम्, उत्थातव्यम् ॥ So also with स्तम्भ्, as, उत्तम्भिता, उत्तम्भितुम् &c. (See (1.1.67) and (1.1.54).
Why do we say of स्था and स्तम्भ? Compare उत्स्नात ॥
Vart:- In the Vedas, the above substitution takes place in the case of स्कन्द preceded by उद् ॥ As, अग्रे दूरमुत्कन्दः ॥
Vart:- So also when it means a disease. As उत्कन्दको नाम रोगः ॥ Or this form may have been derived from the root कन्द, and not स्कन्द ॥
Bhashya¶
उदः स्थास्तम्भोः पूर्वस्य ॥ उदः(1) पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानम्॥ उदः पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानं कर्त्तव्यम्॥ अघ्न्ये दूरमुत्कन्द(2)॥ रोगे च(1)॥ रोगे चेति वक्तव्यम्। उत्कन्दको रोगः॥
Kashika¶
सवर्ण इति वर्तते। उद उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति। उत्त्थाता। उत्त्थातुम्। उत्त्थातव्यम्। स्तम्भेः खल्वपि — उत्तम्भिता। उत्तम्भितुम्। उत्तम्भितव्यम्। स्थास्तम्भोरिति किम्? उत्स्नाता॥ उदः पूर्वसवर्णत्वे स्कन्देश्छन्दस्युपसंख्यानम्॥ अग्ने दूरमुत्कन्द॥ रोगे चेति वक्तव्यम्॥ उत्कन्दको नाम रोगः। कन्दतेर्वा धात्वन्तरस्यैतद् रूपम्॥
Siddhanta Kaumudi¶
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य (SK44) । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि (SK71) इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च (SK121) इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥
Laghu Siddhanta Kaumudi¶
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ॥
Balamanorama¶
उदः स्थास्तम्भोः पूर्वस्य - उदः स्थास्तम्भोः ।अनुस्वारस्य ययि परसवर्णः॑ इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात् । ‘उद’ इति पञ्चमी । अतस्तस्मादित्युत्तरस्येति परिभाषयाउदःपरयो॑रिति लभ्यते । तदाह — उदः परयोरिति । पूर्वेति । पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह — आदेः परस्येति । अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः । उत्थानमिति ।ष्ठा गतिनिवृत्तौ॑ । भावे ल्युट् । उत्तम्भनमिति ।ष्टभि प्रतिष्टम्भे॑ भावे ल्युट् । ‘स्तम्भु रोधने’ इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः ।स्थास्तम्भो॑रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात् । ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु ऌकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः, ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः । ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् । आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात् । अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — अत्राऽघोषस्येति ।अघोषस्ये॑त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात् । स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान् । तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात् । द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान् । अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः । एवं च उद्-स्थानमिति स्थिते दकारस्यखरि चे॑ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम् । एवं उत्थतम्भनमित्यत्रापि योज्यम् । तत्र द्वितकारमेकथकारं चेति विशेषः । तस्येति । सकारादेशस्य थकारस्येत्यर्थः । एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः । ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम् । प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह — लोपाभावेति । असिद्धत्वादिति ।खरि चे॑ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः । उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः । उक्तप्रक्रियाया उभयत्रापि साधारण्यात् । केचित्तु ‘न मुने’ इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः । तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तुदीर्घादाचार्याणा॑मित्युत्तरम् । अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरंझलाञ्जश् झशि॑, अभ्यासे चर्च॑,खरि च॑,वाऽवसाने॑,अणोऽप्रगृह्रास्यानुनासिकः॑, इति पञ्चसूत्रीपाठ इतिहलो यमा॑मिति सूत्रस्थभाष्यसंमतः सूत्रकमः । एवं चखरि चे॑ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
Tattvabodhini¶
उदः स्थास्तम्भोः पूर्वस्य - उदः स्था ।अनुस्वारस्य ययी॑त्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य संबध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्यमिप्रेत्याह — पूर्वसवर्णः स्यादिति॥
Padamanjari¶
परसवर्ण इति समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बद्ध्यते । उत्थातेति । सकारस्य पूर्वसवर्णस्तकारः । अन्ये तु बाह्यप्रयत्नसाम्यात् थकारमिच्छन्ति । तत्र तखाराद्वयस्य श्रवणम् । न च पूर्वस्य चर्त्वम्; तत्र कर्तव्येऽस्य पूर्वसवर्णस्यासिद्वत्वात् । रोगे चेति वक्तव्यमिति । इदमविशेषेण च्छन्दसि, भाषायां च ॥
Nyaas¶
उत्थाता इति। आदेः पदस्य (1.1.53) इति सकारस्य महाप्राणस्याघोषस्य तादृश एव पूर्वसवर्णस्थकारः, खरि च (8.4.54) इति थकारस्य तकारः, अनचि च (8.4.46) इति पूर्वतकारस्य द्विर्वचनम्, झरो झरि सवर्णे (8.4.65) इति पक्ष एकस्य लोपः। उत्तम्भिता इति। स्तम्भिः सौत्रो धातुः। उत्स्नाता इति`ण्णा शौचे` (धातुपाठः-1052)। पूर्वग्रहणं परसवर्णनिवृत्त्यर्थम्। उत्पूर्वस्य इत्यादि। पूर्वसवर्णे कर्तव्ये स्कन्देश्छन्दति दि य उपसंख्यानम् -प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -व्यत्ययो बहुलम् (3.1.85) इति व्यत्ययेनोदः परस्य स्कन्दे श्छन्दसि विषये पूर्वसवर्णो भविष्यति। उत्कन्द [उत्कन्दः -काशिका] इति। लोट्, सिप्, सेह्र्रपिच्च (3.4.87) इति हिरादेशः, अतो हेः (6.4.105) इति हेर्लुक्। रोगे च इत्यादि। इदमविशेषेण च्छन्दसि भाषायां च रोगे वाच्य उदः परस्य स्कन्देः पूर्वसवर्णो भवतीत्येतदर्थरूपं व्याक्येयमित्यर्थः। तत्रेदं व्याख्यानम् -पृषोदरादित्वा (6.3.108) द्भविष्यतीति। उत्कन्दकः इति। रोगाख्यायां ण्वुल्बहुलम् (3.3.108) इति ण्वुल्॥ बाल-मनोरमासर्वत्र शाकल्यस्य 59, 8.4.61 सर्वत्र शाकल्यस्य। ने`त्यनुवर्तते। यत्र यत्र द्वित्वं विहितं तत्र तत्र शाकस्यस्य ऋषेर्मते द्वित्वं न भवतीत्यर्थः। दीर्घादाचार्याणाम्। `ने`त्यनुवर्तते। दीर्घात्परस्य यरो द्वित्वं केषाञ्चिदाचार्याणां मते न भवति। मतान्तरे तु भवति। `अनचि चे`त्यत्र वाग्रहणमनुवर्तते इति नाज्झलाविति सूत्रे कैयटः। एवं चाऽनचि चेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादिसूत्रत्रयं नारम्भणीयमिति प्रौढमनोरमायां स्थितम्। एतत्सूत्रत्रयविरोधादनचि चेत्यत्र वाग्रहणं नानुवर्त्त्यमिति युक्तं प्रतिभाति। बाल-मनोरमाउदः स्थास्तम्भोः पूर्वस्य 119, 8.4.61 उदः स्थास्तम्भोः। `अनुस्वारस्य ययि परसवर्णः इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात्। उद इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया उदःपरयो`रिति लभ्यते। तदाह -उदः परयोरिति। पूर्वेति। पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः। पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह -आदेः परस्येति। अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः। उत्थानमिति। `ष्ठा गतिनिवृत्तौ। भावे ल्युट्। उत्तम्भनमिति। ष्टभि प्रतिष्टम्भे भावे ल्युट्। स्तम्भु रोधने इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः। स्थास्तम्भो`रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात्। ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव। दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु ऌकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात्। नापि लकारः, ईषत्स्पृष्टत्वात्। एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः। ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात्। स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात्। अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह -अत्राऽघोषस्येति। `अघोषस्ये`त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात्। स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान्। तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात्। नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात्। द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान्। अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः। एवं च उद्-स्थानमिति स्थिते दकारस्य `खरि चे`ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम्। एवं उत्थतम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति। सकारादेशस्य थकारस्येत्यर्थः। एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः। ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम्। प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह -लोपाभावेति। असिद्धत्वादिति। `खरि चे`ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः। उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः। उक्तप्रक्रियाया उभयत्रापि साधारण्यात्। केचित्तु `न मुने इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः। तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात्। वस्तुतस्तु दीर्घादाचार्याणा`मित्युत्तरम्। अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरं `झलाञ्जश् झशि, अभ्यासे चर्च`, खरि च, वाऽवसाने, अणोऽप्रगृह्रास्यानुनासिकः, इति पञ्चसूत्रीपाठ इति `हलो यमा`मिति सूत्रस्थभाष्यसंमतः सूत्रकमः। एवं च `खरि चे`ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम्।
Praudhamanorama¶
अनुस्वारस्य ययि— (8.4.58) इत्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्याशयेनाह— अघोषस्येत्यादि। एतेन सस्य तकार इति प्राचां ग्रन्थाः प्रत्युक्ताः। यदपीह ‘चयो द्वितीयाः शरि’ इत्यस्योपन्यसनं, तदतिरभसात्॥
Sarala¶
अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्रतः “सवर्ण”इत्यनुवर्तते इत्याह - पूर्वसवर्ण इति ॥
Sudha¶
उदः स्थास्तस्म्भोरिति । एकदेशे स्वरितत्वप्रतिज्ञानात् अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यत्रस्थं समासनिर्दिष्टमपि सवर्णग्रहणमिह निकृष्य सम्बध्यते । उद उति पञ्चमी । अतः तस्मादित्युत्तरस्य (1.1.67) इति परिभाषया उदः परयोः इति लभ्यते । तदाह — उदः परयोरिति । “उद्-स्थानम्”, “उद्-स्तम्भनम्” इति स्थिते । अत्र उदः परयोः स्था इत्यस्य स्तम्भ इत्यस्य च पूर्वसवर्णः - दकारसवर्णः प्राप्तः । तत्र आदेः परस्य (1.1.54) इति परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवति । तत्र पूर्वदकारसवर्णाश्च — तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च । न तु ऌकारः सकारश्च । तयोः स्थानसान्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णाः भिन्नस्थानिकत्वान्न दकारसवर्णाः । एवञ्च पूर्वनिमित्रभूतदकारसवर्णाः तथदधनाः पञ्चापि सकारस्य प्राप्ताः । तत्र सकारस्य विवारश्वासाघोषमहाप्राणवतः सादृश्यात् तत्स्थाने तादृक् विवारश्वासाघोषमहाप्राणवान् थ् एव लभ्यते । तेन सस्य थकारादेशे “उद् थ् थानम्”, “उद् थ् तम्भनम्” इति जाते झरो झरि सवर्णे (8.4.65) इत्यनेन दकारोत्तवर्तिनः थकारस्य विकल्पेन लोेपे खरि च (8.4.55) इत्यनेन दकारस्य चर्त्वे “उत्थानम्”, “उत्तम्भनम्” इति भवतः । पक्षे “उत्थ्थानम्”, “उत्थ्तम्भनम्” इत्येव, न तु थकारस्य चर्त्वम् । चर्त्वं प्रति थकारस्यासिद्धत्वात् ॥