84061: उदः स्थास्तम्भोः पूर्वस्य
================================
**Padacheda:** उदः | S | 5 | 1 |
स्था-स्तम्भोः | S | 6 | 2 |
पूर्वस्य | S | 6 | 1 |
Sutrartha
---------
**उद्-उपसर्गात् परस्य स्था-धातोः स्तम्भ-धातोः पूर्वसवर्णादेशः भवति ।**
"उत् + स्था" इत्यत्र स्था-धातोः, तथा च "उत् + स्तम्भ्" इत्यत्र स्तम्भ्-धातोः पूर्वसवर्णः (दकारस्य सवर्णः) आदेशरूपेण विधीयते । दकारस्य आहत्य पञ्च सवर्णाः सन्ति — त्, थ्, द्, ध्, न् । एतेभ्यः विवार-श्वास-अघोष-महाप्राण-सकारस्य तादृशः एव थकारः आदेशरूपेण विधीयते । अपि च, **आदेः परस्य** (1.1.54) इत्यनेन अयम् आदेशः स्था/स्तम्भ्-इत्येतयोः आदिवर्णस्य (सकारस्य) स्थाने भवति । इत्युक्ते, **"उद् + स्था" तथा च "उद् + स्तम्भ्" इत्यत्र विद्यमानस्य सकारस्य थकारादेशः भवति** — इति प्रकृतसूत्रस्य आशयः । यथा —
1) स्था-धातोः सकारस्य थकारादेशः
.. code-block:: text
उद् + स्थानम्
→ उत् + स्थानम् [**खरि च** (8.4.55) इति चर्त्वम्]
→ उत् + थ्थानम् [**उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) इति सकारस्य थकारः]
→ उत्थ्थानम्
→ उत्थानम् [**झरो झरि सवर्णे** (8.4.65) इत्यनेन थकारस्य विकल्पेन लोपः]
2) स्तम्भ्-धातोः सकारस्य थकारादेशः
.. code-block:: text
उद् + स्तम्भनम्
→ उत् + स्तम्भनम् [**खरि च** (8.4.55) इति चर्त्वम्]
→ उत् + थ्तम्भनम् [**उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) इति सकारस्य थकारः]
→ उत्थ्तम्भनम्
→ उत्तम्भनम् [**झरो झरि सवर्णे** (8.4.65) इत्यनेन थकारस्य विकल्पेन लोपः]
**वार्त्तिकद्वयम्**
1.
वेदेषु "उद् + स्कन्द्" इत्यत्रापि सकारस्य पूर्वसवर्णः कृतः दृश्यते । यथा, **अग्ने दूरम् उत्कन्दः** इत्यत्र सकारस्य थकारादेशे कृते, तस्य च अग्रे **झरो झरि सवर्णे** (8.4.65) इति लोपे कृते "उत्कन्द" इति रूपं सिद्ध्यति ।
2.
"उत्कन्दक" इति रोगवाचकः शब्दः (name of a disease) " उद् + स्कन्द्" इत्यस्मात् **रोगाख्यायां ण्वुल् बहुलम्** (3.3.108) इत्यनेन सूत्रेण ण्वुल्-प्रत्यये कृते सिद्ध्यति । तत्र प्रक्रियायां प्रकृतसूत्रेण सकारस्य परसवर्णः थकारः भवति — इति अस्य वार्त्तिकस्य आशयः । ततश्च **झरो झरि सवर्णे** (8.4.65) इति लोपः अपि विधीयते, येन "उत्कन्दक" इति शब्दः सिद्ध्यति ।
Sutrartha (English)
-------------------
The स्था and स्तम्भ् are converted to पूर्वसवर्ण when they follow the upasarga उत् ।
Vasu English Summary
--------------------
After उद्, in the room of the स of स्था or स्तम्भ, the substitute is a letter belonging to the class of the prior (i.e. a dental is substituted for this स).
Vasu English Translation
------------------------
After उद्, in the room of the स of स्था or स्तम्भ, the substitute is a letter belonging to the class of the prior (i.e. a dental is substituted for this स).
As उद् + स्थाता = उद् + थ्थाता = उद् + थाता (8.4.65) = उत् + थाता (8.4.55) = उत्थाता, उत्थातुम्, उत्थातव्यम् ॥ So also with स्तम्भ्, as, उत्तम्भिता, उत्तम्भितुम् &c. (See (1.1.67) and (1.1.54).
Why do we say of स्था and स्तम्भ? Compare उत्स्नात ॥
Vart:- In the Vedas, the above substitution takes place in the case of स्कन्द preceded by उद् ॥ As, अग्रे दूरमुत्कन्दः ॥
Vart:- So also when it means a disease. As उत्कन्दको नाम रोगः ॥ Or this form may have been derived from the root कन्द, and not स्कन्द ॥
Bhashya
-------
उदः स्थास्तम्भोः पूर्वस्य ॥ उदः(1) पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानम्॥ उदः पूर्वत्वे स्कन्देश्छन्दस्युपसङ्ख्यानं कर्त्तव्यम्॥ अघ्न्ये दूरमुत्कन्द(2)॥ रोगे च(1)॥ रोगे चेति वक्तव्यम्। उत्कन्दको रोगः॥
Kashika
-------
सवर्ण इति वर्तते। उद उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति। उत्त्थाता। उत्त्थातुम्। उत्त्थातव्यम्। स्तम्भेः खल्वपि — उत्तम्भिता। उत्तम्भितुम्। उत्तम्भितव्यम्। स्थास्तम्भोरिति किम्? उत्स्नाता॥ उदः पूर्वसवर्णत्वे स्कन्देश्छन्दस्युपसंख्यानम्॥ अग्ने दूरमुत्कन्द॥ रोगे चेति वक्तव्यम्॥ उत्कन्दको नाम रोगः। कन्दतेर्वा धात्वन्तरस्यैतद् रूपम्॥
Siddhanta Kaumudi
-----------------
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य (SK44) । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि (SK71) इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च (SK121) इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥
Laghu Siddhanta Kaumudi
-----------------------
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः ॥
Balamanorama
------------
**उदः स्थास्तम्भोः पूर्वस्य** - उदः स्थास्तम्भोः ।अनुस्वारस्य ययि परसवर्णः॑ इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात् । 'उद' इति पञ्चमी । अतस्तस्मादित्युत्तरस्येति परिभाषयाउदःपरयो॑रिति लभ्यते । तदाह — उदः परयोरिति । पूर्वेति । पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः । पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह — आदेः परस्येति । अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः । उत्थानमिति ।ष्ठा गतिनिवृत्तौ॑ । भावे ल्युट् । उत्तम्भनमिति ।ष्टभि प्रतिष्टम्भे॑ भावे ल्युट् । 'स्तम्भु रोधने' इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः ।स्थास्तम्भो॑रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात् । ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु ऌकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः, ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः । ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात् । आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात् । अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — अत्राऽघोषस्येति ।अघोषस्ये॑त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात् । स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान् । तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात् । द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान् । अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः । एवं च उद्-स्थानमिति स्थिते दकारस्यखरि चे॑ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम् । एवं उत्थतम्भनमित्यत्रापि योज्यम् । तत्र द्वितकारमेकथकारं चेति विशेषः । तस्येति । सकारादेशस्य थकारस्येत्यर्थः । एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः । ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम् । प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह — लोपाभावेति । असिद्धत्वादिति ।खरि चे॑ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः । उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः । उक्तप्रक्रियाया उभयत्रापि साधारण्यात् । केचित्तु 'न मुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः । तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तुदीर्घादाचार्याणा॑मित्युत्तरम् । अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरंझलाञ्जश् झशि॑, अभ्यासे चर्च॑,खरि च॑,वाऽवसाने॑,अणोऽप्रगृह्रास्यानुनासिकः॑, इति पञ्चसूत्रीपाठ इतिहलो यमा॑मिति सूत्रस्थभाष्यसंमतः सूत्रकमः । एवं चखरि चे॑ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
Tattvabodhini
-------------
**उदः स्थास्तम्भोः पूर्वस्य** - उदः स्था ।अनुस्वारस्य ययी॑त्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य संबध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्यमिप्रेत्याह — पूर्वसवर्णः स्यादिति॥
Padamanjari
-----------
परसवर्ण इति समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बद्ध्यते । उत्थातेति । सकारस्य पूर्वसवर्णस्तकारः । अन्ये तु बाह्यप्रयत्नसाम्यात् थकारमिच्छन्ति । तत्र तखाराद्वयस्य श्रवणम् । न च पूर्वस्य चर्त्वम्; तत्र कर्तव्येऽस्य पूर्वसवर्णस्यासिद्वत्वात् । रोगे चेति वक्तव्यमिति । इदमविशेषेण च्छन्दसि, भाषायां च ॥
Nyaas
-----
`उत्थाता` इति। `आदेः पदस्य` (1.1.53) इति सकारस्य महाप्राणस्याघोषस्य तादृश एव पूर्वसवर्णस्थकारः, `खरि च` (8.4.54) इति थकारस्य तकारः, `अनचि च` (8.4.46) इति पूर्वतकारस्य द्विर्वचनम्, **झरो झरि सवर्णे** (8.4.65) इति पक्ष एकस्य लोपः। `उत्तम्भिता` इति। स्तम्भिः सौत्रो धातुः। `उत्स्नाता` इति`ण्णा शौचे` (धातुपाठः-1052)। पूर्वग्रहणं परसवर्णनिवृत्त्यर्थम्। `उत्पूर्वस्य` इत्यादि। पूर्वसवर्णे कर्तव्ये स्कन्देश्छन्दति दि य उपसंख्यानम् -प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -**व्यत्ययो बहुलम्** (3.1.85) इति व्यत्ययेनोदः परस्य स्कन्दे श्छन्दसि विषये पूर्वसवर्णो भविष्यति। `उत्कन्द` [`उत्कन्दः` -काशिका] इति। लोट्, सिप्, `सेह्र्रपिच्च` (3.4.87) इति हिरादेशः, **अतो हेः** (6.4.105) इति हेर्लुक्। `रोगे च` इत्यादि। इदमविशेषेण च्छन्दसि भाषायां च रोगे वाच्य उदः परस्य स्कन्देः पूर्वसवर्णो भवतीत्येतदर्थरूपं व्याक्येयमित्यर्थः। तत्रेदं व्याख्यानम् -पृषोदरादित्वा (6.3.108) द्भविष्यतीति। `उत्कन्दकः` इति। `रोगाख्यायां ण्वुल्बहुलम्` (3.3.108) इति ण्वुल्॥ बाल-मनोरमासर्वत्र शाकल्यस्य 59, 8.4.61 सर्वत्र शाकल्यस्य। `ने`त्यनुवर्तते। यत्र यत्र द्वित्वं विहितं तत्र तत्र शाकस्यस्य ऋषेर्मते द्वित्वं न भवतीत्यर्थः। दीर्घादाचार्याणाम्। `ने`त्यनुवर्तते। दीर्घात्परस्य यरो द्वित्वं केषाञ्चिदाचार्याणां मते न भवति। मतान्तरे तु भवति। `अनचि चे`त्यत्र वाग्रहणमनुवर्तते इति नाज्झलाविति सूत्रे कैयटः। एवं चाऽनचि चेत्येव द्वित्वविकल्पसिद्धौ त्रिप्रभृतिष्वित्यादिसूत्रत्रयं नारम्भणीयमिति प्रौढमनोरमायां स्थितम्। एतत्सूत्रत्रयविरोधादनचि चेत्यत्र वाग्रहणं नानुवर्त्त्यमिति युक्तं प्रतिभाति। बाल-मनोरमाउदः स्थास्तम्भोः पूर्वस्य 119, 8.4.61 उदः स्थास्तम्भोः। `अनुस्वारस्य ययि परसवर्णः` इत्यत्र समासनिर्दिष्टमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानात्। `उद` इति पञ्चमी। अतस्तस्मादित्युत्तरस्येति परिभाषया `उदःपरयो`रिति लभ्यते। तदाह -उदः परयोरिति। पूर्वेति। पूर्वनिमित्तस्य उदो दकारस्य यः सवर्णः स आदेशः स्यादित्यर्थः। पूर्वसवर्णश्चायमलोऽन्त्यपरिभाषया स्थास्तम्भोरन्तादेशो न भवतीत्याह -आदेः परस्येति। अनया परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवतीत्यर्थः। उत्थानमिति। `ष्ठा गतिनिवृत्तौ`। भावे ल्युट्। उत्तम्भनमिति। `ष्टभि प्रतिष्टम्भे` भावे ल्युट्। `स्तम्भु रोधने` इति श्नुविधौ निर्दिष्टः सौत्रो वा धातुः। `स्थास्तम्भो`रिति पवर्गीयोपधनिर्देशस्य उभयसाधारणत्वात्। ननु उद्-स्थानमित्यत्र सकारस्य पूर्वसवर्णविधौ पूर्वनिमित्तं दकारः, तत्सवर्णश्च तथदधनाः पञ्चैव। दन्तस्थानसाम्यात्स्पृष्टप्रयत्नसाम्याच्च, न तु ऌकारः सकारश्च, तयोः स्थानसाम्येऽपि विवृतप्रयत्नत्वात्। नापि लकारः, ईषत्स्पृष्टत्वात्। एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णाः। ततश्च पूर्वनिमित्तभूतदकारसवर्णास्तथदधना#ः पञ्चापि सकारस्य प्राप्ताः, स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्। आभ्यन्तरप्रयत्नत आन्तर्यस्य च पञ्चस्वप्यभावात्। स्थानीभूतसकारस्य विवृप्रयत्नत्वात्, एतेषां च पञ्चानां स्पृष्टप्रयत्नत्वात्। अतोऽत्र बाह्रप्रयत्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह -अत्राऽघोषस्येति। `अघोषस्ये`त्यनेन आआसवतो विवरवतश्चेत्युक्तप्रायं, समनियतत्वात्। स्थानीभूतस्तावत्सकारोऽत्राघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टवान्। तस्य तथदधनेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात्। नापि चतुर्थो भवति, तस्य घोषनादसंवारयत्नकत्वात्। द्वितीयस्तु थकारोऽघोषआआसविवारमहाप्राणात्मकयत्नचतुष्टयवान्। अतः स एव थकारः पूर्वनिमित्तभूतदकारसवर्णः सकारस्य भवतीत्यर्थः। एवं च उद्-स्थानमिति स्थिते दकारस्य `खरि चे`ति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्थ्थानमित्येकतकारं द्विथकारं च रूपं सिद्धम्। एवं उत्थतम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारं चेति विशेषः। तस्येति। सकारादेशस्य थकारस्येत्यर्थः। एवं च प्रथमथकारस्य लोपपक्षे एकतकारमेकथकारं च रूपमिति भावः। ननु प्रथमथकारस्य ल#ओपाभावपक्षे एकतकारं द्विथकारं च रूपमित्यनुपपन्नम्। प्रथमथकारस्य खरि चेति चर्त्वे सति द्वितकारमेकथकारमित्यापत्तेरित्यत आह -लोपाभावेति। असिद्धत्वादिति। `खरि चे`ति सूत्रापेक्षया उदस्था इत्यस्य परत्वादिति भावः। उत्त्तम्भनमिति त्रितकारपाठस्तु प्रामादिकः। उक्तप्रक्रियाया उभयत्रापि साधारण्यात्। केचित्तु `न मुने` इत्यत्र नेति योगविभागमभ्युपगम्य पूर्वसवर्णस्य थकारस्य चर्त्वं प्रत्यसिद्धत्वाऽभावाच्चर्त्वे उत्त्तम्भनमिति त्रितकाररूपं कथञ्चित्साधयामासुः। तत्तु मूलकृतो न संमतं, मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात्। वस्तुतस्तु `दीर्घादाचार्याणा`मित्युत्तरम्। अनुस्वारस्य ययि परसवर्णः, वा पदान्तस्य, तोर्लि, उदःस्थास्तम्भोः पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तरं `झलाञ्जश् झशि`, अभ्यासे चर्च`, `खरि च`, `वाऽवसाने`, `अणोऽप्रगृह्रास्यानुनासिकः`, इति पञ्चसूत्रीपाठ इति `हलो यमा`मिति सूत्रस्थभाष्यसंमतः सूत्रकमः। एवं च `खरि चे`ति चर्त्वे कर्तव्ये उदः स्थास्तम्भोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाऽभावाच्चर्त्वे उत्थ्तानमिति द्वितकारमेकथकारं च रूपम्, उत्तूतम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम्।
Praudhamanorama
---------------
**अनुस्वारस्य ययि—** (8.4.58) इत्यत्र समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बध्यते, एकदेशे स्वरितत्वप्रतिज्ञानादित्याशयेनाह— **अघोषस्येत्यादि।** एतेन सस्य तकार इति प्राचां ग्रन्थाः प्रत्युक्ताः। यदपीह 'चयो द्वितीयाः शरि' इत्यस्योपन्यसनं, तदतिरभसात्॥
Sarala
------
**अनुस्वारस्य ययि परसवर्णः** (८.४.५८) इति सूत्रतः "सवर्ण"इत्यनुवर्तते इत्याह - **पूर्वसवर्ण इति** ॥
Sudha
-----
**उदः स्थास्तस्म्भोरिति ।** एकदेशे स्वरितत्वप्रतिज्ञानात् **अनुस्वारस्य ययि परसवर्णः** (8.4.58) इत्यत्रस्थं समासनिर्दिष्टमपि सवर्णग्रहणमिह निकृष्य सम्बध्यते । उद उति पञ्चमी । अतः **तस्मादित्युत्तरस्य** (1.1.67) इति परिभाषया उदः परयोः इति लभ्यते । तदाह — **उदः परयोरिति ।** "उद्-स्थानम्", "उद्-स्तम्भनम्" इति स्थिते । अत्र उदः परयोः स्था इत्यस्य स्तम्भ इत्यस्य च पूर्वसवर्णः - दकारसवर्णः प्राप्तः । तत्र **आदेः परस्य** (1.1.54) इति परिभाषया स्थास्तम्भोराद्यवयवस्य सकारस्यैव भवति । तत्र पूर्वदकारसवर्णाश्च — तथदधनाः पञ्चैव । दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च । न तु ऌकारः सकारश्च । तयोः स्थानसान्येऽपि विवृतप्रयत्नत्वात् । नापि लकारः ईषत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णाः भिन्नस्थानिकत्वान्न दकारसवर्णाः । एवञ्च पूर्वनिमित्रभूतदकारसवर्णाः तथदधनाः पञ्चापि सकारस्य प्राप्ताः । तत्र सकारस्य विवारश्वासाघोषमहाप्राणवतः सादृश्यात् तत्स्थाने तादृक् विवारश्वासाघोषमहाप्राणवान् थ् एव लभ्यते । तेन सस्य थकारादेशे "उद् थ् थानम्", "उद् थ् तम्भनम्" इति जाते **झरो झरि सवर्णे** (8.4.65) इत्यनेन दकारोत्तवर्तिनः थकारस्य विकल्पेन लोेपे **खरि च** (8.4.55) इत्यनेन दकारस्य चर्त्वे "उत्थानम्", "उत्तम्भनम्" इति भवतः । पक्षे "उत्थ्थानम्", "उत्थ्तम्भनम्" इत्येव, न तु थकारस्य चर्त्वम् । चर्त्वं प्रति थकारस्यासिद्धत्वात् ॥