84062: झयो होऽन्यतरस्याम्

Padacheda: झयः | S | 5 | 1 |

हः | S | 6 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha

झय्-वर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णः (वर्गचतुर्थः) आदेशः भवति ।

<pt> झय् = वर्गप्रथमाः, वर्गद्वितीयाः, वर्गतृतीयाः, वर्गचतुर्थाः </pt> झय्-वर्णात् परस्य हकारस्य विकल्पेन पूर्वसवर्णादेशः भवति — इति अस्य सूत्रस्य आशयः । संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव पूर्वसवर्णः वर्गचतुर्थः वर्णः आदेशरूपेण विधीयते । <note>अस्मिन् सूत्रे “पूर्वसवर्णः” इति शब्दः साक्षात् नैव अनुवर्तते । परन्तु अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यस्मात् “सवर्णः” इति, तथा च उदः स्थास्तम्भोः पूर्वस्य (8.4.61) इत्यस्मात् “पूर्वस्य” इति स्वीकृत्य पूर्वस्य सवर्णः इति अत्र अर्थविधानार्थम् क्रियते ।</note> वस्तुतस्तु, अपदान्त-झय्-वर्णात् परः हकारः नैव सम्भवति । अपि च, पदान्त-झय्-वर्णस्य तु प्रक्रियायाम् आदौ झलां जशोऽन्ते (8.2.39) इत्यनेन जश्त्वम् अवश्यमेव भवति । इत्युक्ते, केवलम् वर्गतृतीयवर्णात् अनन्तरम् विद्यमानस्य हकारस्य विषये एव अस्य सूत्रस्य प्रसक्तिः वर्तते । तानि एतादृशानि — 1. गकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (घकारादेशः)

वाचः हरिः [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ वाच् + हरि [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः]
→ वाक् + हरि [**चोः कुः** (8.2.30) इति कुत्वम्]
→ वाग् + हरि [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्]
→ वाग् + घरि [**झयो होऽन्यतरस्याम्** (8.4.62) इति हकारस्य वैकल्पिकः पूर्वसवर्णः घकारः]
→ वाग्घरि ।

पक्षे प्रकृतसूत्रस्य प्रयोगं विना "वाग्हरि" इत्यपि रूपं सिद्ध्यति ।

2. जकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (झकारादेशः) वस्तुतस्तु पदान्तजकारस्य प्रायेण सर्वत्र चोः कुः (8.2.30) इति कुत्वे गकारः विधीयते । परन्तु “अच्”इति प्रत्याहारस्य चकारस्य कुत्वं कुत्रचित् स्पष्टताप्रतिपत्यर्थम् कुत्वं विना एव प्रयोगः क्रियते । तत्र जकारात् परस्य हकारस्य पूर्वसवर्णः झकारः सम्भवति —

अच् च हल् च  [**चार्थे द्वन्द्वः** (2.2.29)
→ अच् + हल् + औ [द्विवचनस्य निर्देशार्थम् **स्वौजस्..** (4.1.2) इति औ-प्रत्ययः]
→ अज् + हल् + औ [**झलां जशोऽन्ते** (8.2.39) इति चकारस्य जश्त्वे जकारः। अत्र **चोः कुः** (8.2.30) इति सूत्रम् नैव प्रवर्तते, यतः तस्य प्रयोगसमये "अच्"-शब्दस्य भसंज्ञा भवति इति **वृद्धिरादैच्** (1.1.1) सूत्रे भाष्यकारः स्पष्टी करोति ।]
→ अज् + झल् + औ [**झयो होऽन्यतरस्याम्** (8.4.62) इति हकारस्य वैकल्पिकः पूर्वसवर्णः झकारः]
→ अज्झलौ

पक्षे प्रकृतसूत्रस्य प्रयोगं विना "अज्हलौ" इत्यपि रूपं सिद्ध्यति ।

3. डकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (ढकारादेशः)

मधुलिड् हसति
→ मधुलिड् ढसति [**झयो होऽन्यतरस्याम्** (8.4.62) इति हकारस्य वैकल्पिकः पूर्वसवर्णः ढकारः]
→ मधुलिड्ढसति

पक्षे प्रकृतसूत्रस्य प्रयोगं विना "मधुलिड्हसति" इत्यपि रूपं सिद्ध्यति ।

4. दकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (धकारादेशः)

तस्मै हितम् [**चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः** (2.1.36) इति चतुर्थीतत्पुरुषः]
→ तद् हितम् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः]
→ तद् धितम् [**झयो होऽन्यतरस्याम्** (8.4.62) इति हकारस्य वैकल्पिकः पूर्वसवर्णः धकारः]
→ तद्धितम्

पक्षे प्रकृतसूत्रस्य प्रयोगं विना "तद्हितम्" इत्यपि रूपं सिद्ध्यति ।

5. बकारात् परस्य हकारस्य विकल्पेन वर्गचतुर्थः (भकारादेशः)

त्रिष्टुब् हि
→ त्रिष्टुब्भि [**झयो होऽन्यतरस्याम्** (8.4.62) इति हकारस्य वैकल्पिकः पूर्वसवर्णः भकारः]

पक्षे प्रकृतसूत्रस्य प्रयोगं विना "त्रिष्टुब्हि" इत्यपि रूपं सिद्ध्यति ।

Sutrartha (English)

A हकार following a झय् letter is optionally converted to the पूर्वसवर्ण (i.e. वर्गचतुर्थ).

Vasu English Summary

In the room of ह after (a sonant Mute) there is optionally a letter homogenous with the prior.

Vasu English Translation

In the room of ह after (a sonant Mute) there is optionally a letter homogenous with the prior. The pratyahara झय् includes all Mutes. But practically sonant Mutes are only taken here.

As वाक् + हसति = वाग्घसति or वाग् हसति, श्वलिड् ढसति or हसति, अग्निचिद् धसति or हसति, त्रिष्टुब् भसति or हसति, सोमसुद् धसति or सोमसुद् हसति ॥

Why do we say झयः ‘after a sonant Mute?’ Observe प्राङ् हसति, भवान् हसति ॥

Kashika

झय उत्तरस्य हकारस्य पूर्वसवर्णादेशो भवत्यन्यतरस्याम्। वाग्घसति, वाग् हसति। श्वलिड् ढसति, श्वलिड् हसति। अग्निचिद्धसति, अग्निचिद् हसति। सोमसुद्धसति, सोमसुद् हसति। त्रिष्टुब्भसति, त्रिष्टुब् हसति। झय इति किम्? प्राङ् हसति। भवान् हसति॥

Siddhanta Kaumudi

झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थं एवादेशः । वाग्घरिः । वाग्हरिः ॥

Laghu Siddhanta Kaumudi

झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाग्हरिः॥

Balamanorama

झयो होऽन्यतरस्याम् - झयो हः । झय इति पञ्चमी ।परस्ये॑त्यध्याहार्यम् । ‘ह’ इति । षष्ठी ।उदः स्थास्तम्भो॑रित्यतःपूर्वस्ये॑ति,अनुस्वारस्य ययी॑त्यतः ‘सवर्ण’ इति चानुवर्तते, तदाह — इयः परस्येत्यादिना ।वाग्घरि॑रित्युदाहरणम् । वाच्शब्दश्चकारान्तः, कुत्वं जश्त्वम् । वाग्-हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकारः पूर्वो निमित्तम्, तत्सवर्णाः कखगघङाः पञ्च । तेषां हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम् । आभ्यन्तरप्रयत्नसाम्यं तु पञ्चानामपि हकारेण स्थानिना न विद्यते, स्पृष्टविवृतप्रयत्नबेदात् । अतो बाह्रयत्नत आन्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह — घोषवत इत्यादिना । स्थानीभूतो हकारो घोषनादसंवानमहाप्राणाख्ययत्नचतुष्टयवान्, तस्य क-ख-ग-घ-ङेषु प्रथमतृतीयपञ्चमा न भवन्ति, तेषामल्पप्राणत्वात् । द्वितीयः खकारोऽपि न भवति, तस्याऽघोषस्वासविवारयत्नकत्वात् । चतुर्थस्तु घकारो घोषनादसंवारमहाप्राणवान् । अतः स एव घकारो हकारस्य (स्थाने) भवतीत्यर्थः । ततश्च वाग्घरिरिति भवति । पूर्वसवर्णभावे तु वाग् हरिरिति रूपम् ।

Padamanjari

उदाहरणेषु हकारस्य महाप्राणस्य सोष्मणो घोषवतस्तादृश एवं घकारादयश्चतुर्था भवन्ति ॥

Nyaas

वाग्धसति इत्यादावुदाहरणे हकारस्य महाप्राणस्यान्तरतम्यात्? तादृश एव घकारादयो वर्गचतुर्था भवन्ति। अन्यतरस्यांग्रहणं पूर्वविध्योर्नित्यत्वज्ञापनार्थम्॥

Sudha

** झयो ह इति** झयः इति पञ्चमी । परस्येत्यध्याहार्यम् । ह इति षष्ठौ । उदः स्थास्तम्भोः पूर्वस्य (8.4.61) इत्यतः पूर्वस्येति, अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यतः सवर्ण इति चानुवर्तते, तदेवाह — झय परस्येत्यादिना । ** **वाग्घरिरिति । ** “वाक्-हरिः” इति स्थिते, अत्र **झलां जशोऽन्ते (8.2.39) इत्यनेन जश्त्वे गकारे कृते झय्-प्रत्याहारान्तःपातिनो गकारात् परस्य हकारस्य पूर्वसवर्णः — गकारसवर्णाः क्, ख्, ग्, घ्, ङ् इति प्राप्ताः । तत्र हकारेण संवारनादघोषमहाप्राणवता तुल्यः संवारनादघोषमहाप्राणवान् घकारः विकल्पेन हकारस्य स्थाने जातः । तेन “वाग्घरिः” इति रूपं जायते । पक्षे “वाग्हरिः” इति भवति ।

Sutra Prayogas

• देव-भाग्घ्विः (भट्टिकाव्यम्): झयो हो ऽन्यतरस्याम् इति हकारस्य पूर्वसवर्णः।

• समिद्ध-शरणा (भट्टिकाव्यम्): झयो हो ऽन्यतरस्याम् इति पूर्वसवर्णः।