84058: अनुस्वारस्य ययि परसवर्णः

Padacheda: अनुस्वारस्य | S | 6 | 1 |

ययि | S | 7 | 1 |

परसवर्णः | S | 1 | 1 |

Sutrartha

अनुस्वारस्य यय्-वर्णे परे परसवर्णादेशः भवति ।

<pt> यय् = वर्गीयव्यञ्जनानि + अन्तःस्थाः । <light>आहत्य 29 वर्णाः</light> </pt> यय्-वर्णे परे अनुस्वारस्य स्थाने परसवर्णादेशः भवति । अस्य सूत्रस्य प्रयोगः केवलम् अपदान्त-अनुस्वारस्य विषये एव सम्भवति, यतः पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे वा पदान्तस्य (8.4.59) इति अग्रिमसूत्रेण केवलम् विकल्पेन एव अनुनासिकादेशः विधीयते । अपदान्त-अनुस्वारः तु नश्चापदान्तस्य झलि (8.3.24) इति एकेन एव सूत्रेण सिद्ध्यति । अतः प्रकृतसूत्रस्य प्रयोगः नित्यम् नश्चापदान्तस्य झलि (8.3.24) इत्यस्मात् अनन्तरम् सम्भवति । क्रमेण उदाहरणानि एतानि — **1. कवर्गीयवर्णे परे अनुस्वारस्य ङकारादेशः विधीयते ** —

अकिँ (लक्षणे, भ्वादिः, (1.92))
→ अन्क् [**इदितो नुम् धातोः** (7.1.58) इति नुमागमः]
→ अन्क् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ अंकनीय [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ अङ्कनीय [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः ङकारः]

**2. चवर्गीयवर्णे परे अनुस्वारस्य ञकारादेशः विधीयते ** —

मुचॢँ (मोक्षणे, तुदादिः, (6.166))
→ मुच् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ मुच् + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ मुच् + श + ति [**तुदादिभ्यः शः** (3.1.77) इति 'श' इति विकरणप्रत्ययः]
→ मु नुम् च् + अ + ति [**शे मुचादीनाम्** (7.1.59) इति नुमागमः]
→ मुंच् + अ + ति [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ मुञ्चति [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति नकारस्य परसवर्णे ञकारः]

**3. टवर्गीयवर्णे परे अनुस्वारस्य णकारादेशः विधीयते ** —

कुठिँ (प्रतिघाते, भ्वादिः, (1.0397)
→ कुन्ठ् [**इदितो नुम् धातोः** (7.1.58) इति नुमागमः]
→ कुन्ठ् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ कुंठनीय [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ कुण्ठनीय [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः णकारः]

**4. तवर्गीयवर्णे परे अनुस्वारस्य नकारादेशः विधीयते ** —

चर् (गतौ भक्षणे च, भ्वादिः, (1.640))
→ चर् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ चर् + झि [**तिप्तस्झि..** इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]
→ चर् + अन्ति [**झोऽन्तः** (7.1.3) इति अन्ति-आदेशः]
→ चर् + शप् + अन्ति [**कर्तरि शप्** (3.1.68) इति शप्-प्रत्ययः]
→ चर् + अ + अन्ति [इत्संज्ञालोपः]
→ चरन्ति [**अतो गुणे** (6.1.97) इति पररूपम्]
→ चरंति [**नश्चापदान्तस्य झलि** (8.3.24) इति अपदान्तनकारस्य अनुस्वारः]
→ चरन्ति [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः नकारः । अस्य असिद्धत्वात् **रषाभ्यां नो णः समानपदे** (8.4.1) इति षत्वं न विधीयते ।]

**5. पवर्गीयवर्णे परे अनुस्वारस्य मकारादेशः विधीयते ** —

दन्भुँ (दम्भने, स्वादिः, (5.26)
→ दन्भ् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः]
→ दंभनीय [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ दम्भनीय [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति परसवर्णः मकारः]

अपदान्त-अनुस्वारात् अनन्तरम् अन्तःस्थाः नैव सम्भवन्ति, यतः अपदान्त-अनुस्वारस्य निर्माणम् केवलम् नश्चापदान्तस्य झलि (8.3.24) इत्यनेनैव क्रियते; झल्-प्रत्याहारेण च अन्तःस्थानाम् ग्रहणमेव न भवति । अन्तःस्थवर्णे परे अपदान्त-अनुस्वारस्य निर्माणमेव न शक्यम् इति आशयः । पदान्त-अनुस्वारस्य विषये तु वा पदान्तस्य (8.4.59) इत्यनेन विकल्पेन परसवर्णादेशः भवति, अतः तस्य उदाहरणानि अत्र न दीयन्ते ।

Sutrartha (English)

An अनुस्वार when followed by a यय् वर्ण is converted to the परसवर्ण.

Vasu English Summary

In the room of अनुस्वारा, when यय् follows, a letter homogenous with the latter is substituted.

Vasu English Translation

In the room of अनुस्वारा, when यय् follows, a letter homogenous with the latter is substituted. Thus शङ्किता, शङ्कितुम्, शङ्कितव्यम्, उञ्छिता, कुण्डिता, नन्दिता, कम्पिता &c. These are from roots शकि शङ्कायाम्, उञ्छि उञ्छे, कुदिदाहे, टुनदि समृद्धौ, कपि चलने ॥ Here नुम् is added because they are उदित्, and this न् becomes anusvara by (8.3.24), and this anusvara is changed to ङ् when followed by a guttural क् &c, to ञ् when followed by a palatal च &c, and so on to ण्, न् and म् ॥

Why do we say ‘when यय् follows’? Observe आक्रंस्यते, आचिक्रंस्यते ॥

In कुर्वन्ति, वृषन्ति, the न is not changed into ण, though required by (8.4.2). Because the णत्व is asiddha, and therefore by the prior rule (8.3.24), the न is first changed into anusvara (8.2.1). That anusvara is again changed into न by the present rule, न being homogeneous with त ॥ This change again being असिद्ध as if it had never taken place (8.2.1), the ण is never substituted for न ॥

Kashika

अनुस्वारस्य ययि परतः परसवर्ण आदेशो भवति। शङ्किता। शङ्कितुम्। शङ्कितव्यम्। उञ्छिता। उञ्छितुम्। उञ्छितव्यम्। कुण्डिता। कुण्डितुम्। कुण्डितव्यम्। नन्दिता। नन्दितुम्। नन्दितव्यम्। कम्पिता। कम्पितुम्। कम्पितव्यम्। इह कुर्वन्ति, कृषन्ति इत्यत्र णत्वस्यासिद्धत्वात् पूर्वं नकारस्यानुस्वारः क्रियते। तस्यापि परसवर्णेन पुनर्नकार एव भवति। तस्याप्यसिद्धत्वात् पुनर्णत्वं न भवति। एवमनुस्वारीभूतो णत्वमतिक्रामतीति। ययीति किम्? आक्रंस्यते। आचिक्रंसते॥

Siddhanta Kaumudi

स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥

Laghu Siddhanta Kaumudi

स्पष्टम्। शान्तः॥

Balamanorama

अनुस्वारस्य ययि परसवर्णः - अनुस्वारस्य ययि । स्पष्टमिति । अनुवत्र्यपदान्तराभावादिति भावः । अङ्कित इति । अन्क पदे लक्षणे चेति चुरादौ नौपधः । नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्तः, इट् । निष्ठायां सेटीति णिलोपः । अनुस्वारस्यानेन परसवर्णः । परनिमित्तमत्र ककारः, तत्सवर्णः कवर्गः । सोऽनुस्वारस्य भवन् नासिकारस्थानसाम्याङकार एव भवति । अञ्चित इति । अन्चु गतिपूजनयोः । नोपधः । तस्मात् । क्तः । अञ्चेः पूजायामिति इट् । नाञ्चेः पूजायामिति निषेधादनिदितामिति नलोपो न । अत्र नश्चापदान्तस्येत्यनुस्वारस्य परसवर्णो ञकारः । कुण्ठित इति । कुठि प्रतिघाते । इदित्त्वान्नुम् । क्त इट् । अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकारः । शान्त इति । शम उपशमे । क्तः । वा दान्तशान्तेत्यादिनिपातनान्नेट् । अनुनासिकस्य क्वीति दीर्घः । नश्चेति मस्यानुस्वारः । तस्यं परसवर्णो नकारः । गुम्फित इति । गुन्फ ग्रन्थे-द्वितीयान्तः चतुर्थान्तो वा, नोपधः । क्तः इट् ।नोपधात्थफान्ताद्वा॑ इत्यकित्त्वपक्षे नलोपो न । अत्र नश्चेत्यनुस्वारस्य परसवर्णो मकारः । ननु कृञ्धातोर्लट्, झिः, झोऽन्तः, तनादिकृञ्भ्य उः, गुणः, परत्वम् ।अत उत्स#आर्वधातुके॑ । उकारस्य यण् । न भकुर्छुरामिति निषेधात् र्वौरुपधाया इति दीर्घो न । कुर्वन्तीति रूपम् । अत्र नकारस्य नश्चापदान्तस्येत्यनुस्वारं बाधित्वा परत्वाद्रषाभ्यामिति णत्वं स्यात् । न च त्रिपाद्यां नश्चापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्यसिद्धत्वादनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेर्दुर्वारत्वादित्यत आह — कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया परसवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्याऽसिद्धत्वान्न णत्वमिति भावः ।

Tattvabodhini

अनुस्वारस्य ययि परसवर्णः - अनुस्वारस्य । अत्रययी॑ति स्पष्टार्थम्, अचि परेऽनुस्वाराऽभावात् । शलि तु परसवर्णोऽनुस्वारान्तरतमो न संभवतीतिकुण्डं रथेने॑त्यत्रेवदंशन॑मित्यादावपि परसवर्णविध्यप्रवृत्तेः । अत्र वदन्ति-॒ईषद्विवृतमूष्माणां, विवृतं स्वराणा॑मिति भाष्यमतेययी॑त्यास्यापार्थकत्वम् । सूत्रकारमते तदावश्यकमेव । अन्यथादशन॑मित्यादावनुस्वारान्तरतमः परसवर्णोऽनुनासिक ईकारः स्यात् । ईकारशकारयोस्तन्मते सावण्र्यस्य सत्त्वात् । तथाकुण्डं शेते॑ इत्यादावनुस्वारस्यवा पदान्तस्ये॑ति स्यादिति । अङ्कित इति ।अङ्क पदे लक्षणे चे॑ति चुरादिण्यन्तात्क्तः ।निष्ठायां सेटी॑ति णिलोपः । परसवर्णेन ङः ।अकि लक्षणे॑ इत्यस्माद्वा क्तः । नुमोऽनुस्वारे परसवर्णेन ङः । अञ्चित इति ।अञ्चेः पूजाया॑मिति निष्ठायामिट् ।नाऽचे॑रिति नलोपनिषेधः ।कुण्ठित इति ।कुठि प्रतिघाते॑ क्तः । नुमोऽनुस्वारे परसवर्णेन णः ।शान्त इति ।शम उपशमे॑ क्तः ।वा दान्तशान्ते॑ति निपरातनादिडभावः ।अनुनासिकस्य क्वी॑ति दीर्घः । मस्यानुस्वारे परसवर्णेन नकारः । गुम्फित इति ।गुम्फ ग्रन्थे॑क्तः । मस्यानुस्वारे परसवर्णेन मः॥

Padamanjari

शङ्कितेत्यादि ।’शकि सङ्कायाम्’ , ठुच्छि उञ्छेऽ,’कुडि दाहे’ ,’टुअनदि समृद्धौ’ ,’कपि चलने’ , इदत्वान्नुम्,’नश्चापदान्तस्य झलि’ इत्यनुस्वारः, तस्य ककारादिषु परतो यथासंख्यं परसवर्णा वर्गपञ्चमाङ्कारादयः । कुर्वन्ति, कृषन्तीत्यत्र झेरन्तादेशे नकारस्य णत्वं प्राप्नोति, तत्कस्मान्न भवति ? इत्याह - इहेति । णत्वमनुस्वारात्पूर्वं न भवति, यस्माण्णत्वस्यासिद्धत्वात् पूर्वमनुस्वार एव क्रियते, पश्चादपि न भवति, अनुस्वारस्थानिकस्यास्य परसवर्णस्य णत्वे कर्तव्ये असिद्धत्वात् । परसवर्णेनेति । परसवर्णार्थेन शास्त्रेणेत्यर्थः । एवमित्यादि । अनुस्वारीभूतो णत्वमतिक्रामतीति भाष्ये यदुक्तं तदेवमुक्तप्रकारेणेत्यर्थः ॥

Nyaas

शङ्किता इत्यादि। शकि शङ्कायाम् (धातुपाठः-86), उछि उञ्छे (धातुपाठः-215), कुडिदाहे (धातुपाठः-270), टुनदि समुद्धो (धातुपाठः-67), कपि चलने (धातुपाठः-375) -एभ्यस्तृजादयः, इदित्त्वान्नुम्, नश्चापदान्तस्य झलि (8.3.24) इत्यनुस्वारः, तस्यानेन परसवर्णः। कुर्वन्ति, कृषन्ति इति। करोतेः, कृष विलेखने (धातुपाठः-1286) इत्यस्माच्च तौदादिकात्? परस्य लडादेशस्य झेः झोऽन्तः (7.1.3) इत्यन्तादेशः। नकारस्यानुस्वारे तस्य च परसवर्णे नकारे सति अट्कुप्वाङ्नुम् (8.4.2) इत्यादिना णत्वं प्राप्नोति, तत्? कस्मान्न भवति? इत्याह -इह इत्यादि। णत्वमत्रानुस्वारात्? पूर्वं स्यात्? पश्चाद्वा? पूर्वं तावन्न भवति; यस्मादनुस्वारे कर्तव्ये णत्वस्यासिद्धत्वम्, अतः पूर्वं नकारस्यानुस्वार एव क्रियते। परसवर्णे नकारे कृते पश्चादपि न भवति; णत्वे कर्तव्येऽनुस्वारस्थानिकस्यासिद्धत्वात्। परसवर्णेन इति। परसवर्णार्थेन शास्त्रेणेत्यर्थः। भवति तादथ्र्यात्? ताच्छब्द्यम्। यथा प्रदीपार्था मल्लिका प्रदीप इति। पुनः इति। अनुस्वारक्रियाया उत्तरकालमित्यर्थः। एवम् इत्यादिनाऽनुस्वारीभूतो नकारो णत्वमतिक्रामतीति भाष्ये णत्वस्यातिक्रमणमनुस्वारीभूतस्य नक्रस्योक्तम्। तदेवासिद्धत्वात्? परसवर्णस्य नकारसय णत्वं न सम्पद्यत इति दर्शयति। अतिक्रामति इति। अतिक्रम्म वर्तत इत्यर्थः। आर्क्रस्यते इति। आङ्पूर्वात्? क्रमेर्लुट्, आङ उद्गमने (1.3.40) इत्यात्मनेपदम्। आचिर्क्रसते`[आचिक्रंस्यते -काशिका] इति। `पूर्ववत्? सनः (1.3.62) इत्यात्मनेपदम्॥

Prakriyasarvasvam

ययि परेऽनुस्वारस्य परसवर्णः स्यात् । नासिक्यत्वात् नकारङकारौ । गन्ता । अञ्चति । अत्र परसवर्णस्यासिद्धत्वा’दनचि चे’ति’ नञयोर्द्वित्वाभावे प्राप्ते, द्वित्वे कार्ये परसवर्णः सिद्धो वाच्यः’ । इति सिद्धत्वात् द्वित्वम् ।

Sarala

अनुस्वारस्य ययि परे परसवर्णः स्यादित्यर्थः ॥

Sudha

स्पष्टमिति । अनुवर्त्यपदान्तराभावादिति भावः । अनुस्वारस्य परसवर्णः भवति ययि परे इत्यर्थः ॥ ** शान्त इति ।** “शाम्-त” इति स्थिते अत्र नश्चापदान्तस्य झलि (8.3.24) इत्यनेन म् इत्यस्यानुस्वारे कृते “शां-तः” इति जाते अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यनेन परसवर्णे नकारे विहिते “शान्तः” इति सिद्धम् । एवमेव “अङ्कितः”, “अञ्चितः”, “कुण्ठितः”, “गुम्फितः” इत्यत्रापि बोध्यम् ॥