84059: वा पदान्तस्य

Padacheda: वा | S | 0 | 0 |

पदान्तस्य | S | 6 | 1 |

Sutrartha

पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन परसवर्णादेशः भवति ।

<pt> यय् = वर्गीयव्यञ्जनानि + अन्तःस्थाः । <light>आहत्य 29 वर्णाः</light> </pt> अनुस्वारस्य ययि परसवर्णः (8.4.58) इत्यनेन अनुस्वारस्य यय्-वर्णे परे नित्यम् परसवर्णे प्राप्ते; पदान्ते विद्यमानस्य अनुस्वारस्य विषये अयं परसवर्णः प्रकृतसूत्रेण विकल्प्यते । पदान्त-अनुस्वारस्य यय्-वर्णे परे विकल्पेनैव अनुनासिकादेशः भवति इति आशयः । क्रमेण उदाहरणानि एतानि — **1. कवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन ङकारादेशः विधीयते ** —

  1. सर्वं कृष्णम् → सर्वङ्कृष्णम्, सर्वं कृष्णम् ।

  2. अहं खलु → अहङ्खलु, अहं खलु ।

  3. किं गीतम् → किङ्गीतम्, किं गीतम् ।

  4. संघटना → सङ्घटना, संघटना । उपसर्गस्य पदसंज्ञा भवति, अतः उपसर्गस्य अन्ते विद्यमानः अनुस्वारः पदान्त-अनुस्वारः एव स्वीक्रियते ।

  5. त्वं ङकारः → त्वङ्ङकारः, त्वं ङकारः ।

**2. चवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन ञकारादेशः विधीयते ** —

  1. इदं चित्रम् → इदञ्चित्रम्, इदं चित्रम् ।

  2. कं छात्रम् → कञ्छात्रम्, कं छात्रम् ।

  3. किं जितम् → किञ्जितम्, किं जितम् ।

  4. तं झटिति → तञ्झटिति, तं झटिति ।

  5. त्वं ञकारः → त्वञ्ञकारः, त्वं ञकारः ।

**3. टवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन णकारादेशः विधीयते ** —

  1. इदं टङ्कणम् → इदण्टङ्कणम् इदं टङ्कणम् ।

  2. कं ठकारम् → कण्ठकारम्, कं ठकारम् ।

  3. किं डयते → किण्डयते, किं डयते ।

  4. तां ढक्काम् → ताण्ढक्काम्, तां ढक्काम्

  5. त्वं णकारः → त्वण्णकारः, त्वं णकारः ।

**4. तवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन नकारादेशः विधीयते ** —

  1. इदं तत्र → इदन्तत्र, इदं तत्र ।

  2. त्वं थकारः → त्वन्थकारः, त्वं थकारः ।

  3. किं दत्तम् → किन्दत्तम्, किं दत्तम् ।

  4. तं धृतम् → तन्धृतम्, तं धृतम् ।

  5. अहं नमामि → अहन्नमामि, अहं नमामि ।

**5. पवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन मकारादेशः विधीयते ** —

  1. फलं पतितम् → फलम्पतितम्, फलं पतितम् ।

  2. त्वं फुल्लः → त्वम्फुल्लः, त्वं फुल्लः ।

  3. एतं बन्धम् → एतम्बन्धम्, एतं बन्धम् ।

  4. अहं भीतः → अहम्भीतः, अहं भीतः ।

  5. किं मया → किम्मया, किं मया ।

**6. यकारे/वकारे/लकारे परे पदान्त-अनुस्वारस्य विकल्पेन यथासङ्ख्यम् यँकारादेशः / वँकारादेशः / लँकारादेशः भवति‌ ** —

  1. त्वं यासि → त्वय्ँयासि, त्वं यासि । अनुस्वारस्य परसवर्णः अनुनासिकः यँकारः ।

  2. अहं वन्दे → अहव्ँवन्दे, अहं वन्दे । अनुस्वारस्य परसवर्णः अनुनासिकः वँकारः ।

  3. किं लब्धम् → किल्ँलब्धम् , किं लब्धम् । अनुस्वारस्य परसवर्णः अनुनासिकः लकारः ।

  4. रेफस्य अनुनासिकः सवर्णः न विद्यते, अतः पदान्त-अनुस्वारात् रेफे परे अनुस्वारस्य परसवर्णादेशः न भवति ।

Sutrartha (English)

An अनुस्वार occurring at end of a पद when followed by a यय् वर्ण is optionally converted to the परसवर्ण.

Vasu English Summary

In the room of अनुस्वारा, final in a पद, the substitution of a letter homogenous with the latter is optional.

Vasu English Translation

In the room of अनुस्वारा, final in a पद, the substitution of a letter homogenous with the latter is optional. Thus तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत् or तङ्कथञ्चित्रपक्षण्डयमानन्नभः स्थम्पुरुषोऽवधीत् ॥

Kashika

पदान्तस्यानुस्वारस्य ययि परतो वा परसवर्णादेशो भवति। तङ् कथञ् चित्रपक्षण् डयमानन् नभःस्थम् पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत्॥

Siddhanta Kaumudi

पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सव्ँवत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥

Laghu Siddhanta Kaumudi

त्वङ्करोषि, त्वं करोषि॥

Balamanorama

वा पदान्तस्य - वा पदान्तस्य ।अनुस्वारस्य ययि परसवर्ण॑ इत्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । त्वङ्करोषीति । त्वम्-करोषीति । स्थिते मोऽनुस्वारः । परसवर्णो ङकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्-यन्तेति स्थिते मोऽनुस्वारः । तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यँन्तेति रूपम् । एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः । सव्वँत्सर इति रूपम् । यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यल्लोंकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः ।

Padamanjari

तङ्क्थमित्यादि । ककारादिषु परतो ङ्कारादयः क्रमेण भवन्ति ॥

Nyaas

वावचनं पूर्वस्य नित्यात्वज्ञापनार्थम्। द्वयोर्विभावयोमध्ये ये वै विधयस्ते नित्या भवन्तीति कृत्वा। असति वाग्रहणे विपर्ययः सम्भाव्येत -पूर्वो विधिर्विभाषा, अयं तु विधिरारम्भसामर्थ्यान्नित्य इति॥

Prakriyasarvasvam

पदान्तस्यानुस्वारस्य ययि परसवर्णो वा स्यात् । त्वङ्कृष्णः । त्वांष्वन्दे । त्वांय्याचे । (यँल्लोकम् ।) विकल्पात् त्वं कृष्ण इत्यादि । यवलेषु परेषु सानुनासिकास्त एव ।

Sarala

(पदान्तस्याऽनुस्वारस्य ययि परसवर्णो वा स्यात्) ॥

Sudha

वा पदान्तस्येति । ** **अनुस्वारस्य ययि परसवर्णः (8.4.58) इति सम्पूर्णं सूत्रमनुवर्तते । “त्वम्-करोषि” इति स्थिते मोऽनुस्वारः (8.3.23) इत्यनेन पदान्तस्य मस्यानुस्वारे विहिते सति तस्य स्थाने वा पदान्तस्य (8.4.59) इत्यनेन विकल्पेन परस्य ककारस्य सवर्णे क् ख् ग् घ् ङ् इति सर्वस्मिन् प्राप्ते स्थानेऽन्तरतमः (1.1.50) इत्यनेन अनुस्वारस्य नासिकास्थानत्वात् तत्स्थानतुल्यो ङकारो जातः । तेन “त्वङ्करोषि” इति भवति । पक्षे अनस्वारात्मकम् “त्वं करोषि” इति रूपम् ॥