84057: अणोऽप्रगृह्यस्यानुनासिकः

Padacheda: अणः | S | 6 | 1 |

अप्रगृह्यस्य | S | 6 | 1 |

अनुनासिकः | S | 1 | 1 |

Sutrartha

प्रगृह्यसंज्ञकं विहाय अन्यशब्दस्य अण्-वर्णस्य अवसाने परे विकल्पेन अनुनासिकादेशः भवति ।

प्रगृह्यम् इति संज्ञा ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) इत्यस्मात् आरभ्य ईदूतौ च सप्तम्यर्थे (1.1.19) इत्येतैः नवभिः सूत्रैः दीयते । एतैः सूत्रेः केवलम् स्वराणाम् एव प्रगृह्यसंज्ञा भवति । एतेभ्यः केनचित् अपि सूत्रेण यस्य प्रगृह्यसंज्ञा न भवति, तादृशस्य अवर्णस्य/इवर्णस्य/उवर्णस्य अवसाने परे अनुनासिकादेशः भवति इति प्रकृतसूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि —

  1. “बाल”-शब्दस्य सम्बोधनैकवचनस्य रूपम् “बाल”-इति भवति । अस्मिन् शब्दे लकारोत्तरस्य अकारस्य प्रगृह्यसंज्ञा न भवति । अस्यां स्थितौ यदि अस्मात् अकारात् अनन्तरम् अवसानम् (वर्णानाम् अभावः) विद्यते, तर्हि लकारोत्तरस्य अकारस्य विकल्पेन अनुनासिकादेशे कृते “बालँ” इत्यपि रूपं सिद्ध्यति ।

  2. “तथा”-शब्दस्य अन्तिम-आकारस्य प्रगृह्यसंज्ञायाः अभावात् प्रकृतसूत्रेण विकल्पेन अनुनासिकादेशे कृते “तथाँ” इत्यपि साधुरूपं सिद्ध्यति ।

  3. “दधि”-शब्दस्य अन्तिम-इकारस्य विकल्पेन अनुनासिकादेशे कृते “दधिँ” इत्यपि साधुरूपं सिद्ध्यति ।

  4. “नदी”-शब्दस्य अन्तिम-ईकारस्य विकल्पेन अनुनासिकादेशे कृते “नदीँ” इत्यपि साधुरूपं सिद्ध्यति ।

  5. “मधु”-शब्दस्य अन्तिम-उकारस्य विकल्पेन अनुनासिकादेशे कृते “मधुँ” इत्यपि साधुरूपं सिद्ध्यति ।

  6. अप्रगृह्यसंज्ञक-दीर्घ-ऊकारान्तपदानाम् उदाहरणानि न सन्ति अतः तेषां विषये इदं सूत्रं न प्रवर्तते ।

दलकृत्यम्

1. अप्रगृह्यस्य इति किमर्थम् ? प्रगृह्यसंज्ञकवर्णस्य प्रकृतसूत्रेण अनुनासिकादेशः न भवति । यथा - “मती”, “धेनू” एतयोः शब्दयोः ईदूदेद्द्विवचनं प्रगृह्यम् (1.1.11) इति सूत्रेण प्रगृह्यसंज्ञा भवति अतः तयोः विषये प्रकृतसूत्रम् नैव प्रवर्तते । 2. अणः इति किमर्थम् ? “पचते”, “साधौ” एतादृशेषु शब्देषु विद्यमानस्य स्वरस्य अनुनासिकादेशः न भवति ।

अण्-प्रत्याहारः पूर्वेण णकारेण गृह्यते

प्रकृतसूत्रे प्रयुक्तः अण्-प्रत्याहारः अइउण्-सूत्रस्य णकारेण निर्मितः अस्ति, न हि लण्-सूत्रस्य णकारेण । यदि अयम् णकारः लण्-प्रत्याहारस्य णकारेण निर्मितः स्यात्, तर्हि पाणिनिः तस्य स्थाने अच्-प्रत्याहारस्यैव प्रयोगम् अकरिष्यत्, यतः प्रगृह्यसंज्ञा केवलम् अच्-वर्णानाम् एव भवति । किञ्च, अस्यां स्थितौ अच्-प्रत्याहारस्य निर्देशः अपि व्यर्थः एव, यतः प्रगृह्यसंज्ञायाः निर्देशसामर्थ्याद् एव तत्र स्थानिनः अच्त्वम् सिद्ध्येत् । इत्युक्ते, यदि पाणिनिः सर्वेषाम् अच्-वर्णानां कृते इदं सूत्रम् ऐच्छत्, तर्हि ‘अप्रगृह्यस्यानुनासिकः’ इति लघुतरं सूत्रमेव सः निर्मायात् । परन्तु तथा न कृत्वा आचार्यः अण्-प्रत्याहारस्य अस्मिन् सूत्रे साक्षात् ग्रहणं करोति । एतदेव अस्य ज्ञापकम् यत् प्रकृतसूत्रे विद्यमानः अण्-प्रत्याहारः पूर्वणकारेण एव गृह्यते ।

Sutrartha (English)

The अण् letter of a non-प्रगृह्य word becomes अनुनासिक optionally when it is followed by an अवसान.

Vasu English Summary

The अनुनासिका is optionally the substitute of an अण् vowel which occurs in a Pause, and is not a परिगृह्य।

Vasu English Translation

The अनुनासिका is optionally the substitute of an अण् vowel which occurs in a Pause, and is not a परिगृह्य। अ, इ and उ, short and long, may, when final in a Pause, be pronounced as nasals, provided that they are not Pragrihya (1.1.11) &c.) The अण् here is a Pratyahara with the first ण् ॥ Thus दधिँ or दधि, मधुँ or मधु, कुमारीँ or कुमारी ॥

Why do we say ‘of an अण् vowel?” Observe, कर्तृ, हर्तृ ॥

Why do we say ‘which is not a pragrihya’? Observe अग्नी, वायू which are pragrihya by (1.1.11).

Kashika

अणोऽप्रगृह्यसंज्ञस्यावसाने वर्तमानस्य वानुनासिकादेशो भवति। दधिँ, दधि। मधुँ, मधु। कुमारीँ, कुमारी। अण इति किम्? कर्तृ। हर्तृ। अप्रगृह्यस्येति किम्? अग्नी। वायू॥

Siddhanta Kaumudi

अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अग्नी ॥

Balamanorama

अणोऽप्रगृह्यस्यानुनासिकः - अणोऽप्रगृह्रस्य । ‘वा॒अवसाने’ इत्यनुवर्तते । तदाह — अप्रगृह्रेत्यादिना । अत्र अण् पूर्वेणैव णकारेण, व्याख्यानात् । ततस्च ‘कर्तृ’ इत्यत्र नानुनासिकः । इत्यच्संधीति । अल्पाच्तरमिति, सिद्धमनच्त्वादिति, कथमनच्त्वमिति च सूत्रवार्तिकभाष्यप्रयोगादेवजातीयस्थलेषु असंदेहार्थं संध्यभावोऽभ्यनुज्ञातः । अतोऽत्र कुत्वश्चुत्वयोरभावेऽपि न दोषः । इति*बालमनोरमायामच्सन्धिः ।अत तिङन्ते प्रत्ययमाला ।अथ प्रत्ययमालां वक्ष्यन्नाह — कण्डूयतेः सन्निति । ‘धातोः कर्मणः’ इत्यनेनेति भावः । प्रथमस्यैकाचेति ।अजादेर्द्वितीयस्ये॑ति द्वितीयैकाचो द्वित्वे प्राप्ते इत्यपि ज्ञेयम् ।कण्ड्वादेस्तृतीयस्येति ।एकाचो द्वित्व॑मिति शेषः ।कण्ड्वादे॑रित्यनन्तरंयगन्तस्ये॑ति शेषः, केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् । कण्डूयियिषतीति । कण्डूयेति यगन्तात्सनि इटि अतो लोपः । इस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे । कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । क्यजन्तात्सन्निति । ‘उदाह्यियते’ इति शेषः । यथेष्टं नामधातुषु — इत्पि वार्तिकम । नाम = प्रातिपदिकं, तद्धटितधातुष्वित्यर्थः । अजादेस्त्वाद्येतरस्येति । अजादेरित्यनुवृत्त्या आदिभूतादचः पेरषामेकाचां यतेष्टमित्यर्थलाभादिति भावः । नदराणामिति । तेषां मध्ये आदिभूतादचः परस्यैवेत्यर्थः । इन्द्रीयतेः सन्निति । इन्द्रशब्दात् क्यजन्तात्सन्नित्यर्थः । द्रीशब्दयिशब्दयोरिति । नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु आदिभूतादचः परत्वाऽभावान्न द्वित्वनिषेध इति भावः । चिच्नद्रीयिषतीति । चन्द्रीयतेः सनि प्रथमस्यैकाचो द्वित्वम् । चन्द्रिद्रीयिषतीति । द्वितयीस्यैकाचो द्वित्वम् । प्रियमिति । प्रियमाख्यातुमिच्छतीत्यर्थे ‘तत्करोति तदाचष्टे’ इति ण्यन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्यप्रियस्थिरे॑ति प्रादेशे वृद्धौ पुकि णिचो गुणाऽयादेशयोः षत्वे प्रापयिषेत्येव सन्नन्तम् । प्रियमाचक्षाणं प्रेरयितुमिच्छतीत्यर्ते तु प्रापि इति ण्यन्तादुक्ताद्धेतुमण्णौतद्नतात्सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपेद्वितीयणिचो गुणाऽयादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टं नामधातुष्वित्याद्यानां त्रयाणामेकाचामेकैकस्य द्वित्वेपिप्रापयिषती॑त्यादिरूपत्रयमित्यर्थः । उरुमिति । उरुमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दाचष्टे इत्यर्थे णिचिप्रियस्थिरे॑ति वरादशे उपधावृद्धौ वारि इति ण्यन्तात्सनि इटि णिचो गुणाऽयादेशयोः षत्वे वारयिषेति सन्नन्तम् । माधवमते वृद्ध्याङ्गीकाराद्वारीत्यस्माद्धेतुमण्ण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टं नामधातुषवित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादिरूपत्रयमित्यर्थः । बाढंसिसाधयिषतीति । बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् ।अन्तिकबाढयो॑रिति साधादेशः । तत्र सकारस्यादेशत्वाऽभावान्न षत्वम् । तदाह — षत्वं तु नास्तीति । बोभूयिषयिषतीत्यत्र प्रक्रियां दर्शयति — यङिति । ‘भूधातो’ रिति शेषः । द्वित्वे बोभूयेति स्थितम् । सन्निति । इटि अतो लोपे षत्वे बोभूयिषेति स्थितम् । ण्यन्तात्सन्निति । बोभूयिषेत्यस्माद्धेतुमण्णिचि अतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणाऽयादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् ।अनभ्यासस्ये॑त्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषयतीत्यत्र प्रक्रियां दर्शयति — यङिति ।भूधातो॑रिति शेषः । द्वित्वे बोभूयेति स्थितम् । णिजिति । बोभूयेत्यस्माद्धेतुमण्णौ अतो लोपे बोभूयि इति स्थितम् । सन्नन्ताण्णिजिति । बोभूयि इत्यस्मात्सनि इटि णिचो गुणाऽयादेशयोः ष्टवे बोभूययिषेति स्थितम् । तस्माद्धेतुमण्णिचि अतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि गुणाऽयादेशयोर्बोभूययिषयतीति रूपं सिद्धम् । प्रत्ययमाला समाप्ता । अथ पूर्वकृदन्तप्रकरणम् ।

Tattvabodhini

अणोऽप्रगृह्यस्यानुनासिकः - अणोऽप्रगृह्रस्य । अण इति किम् , हर्तृ कर्तृ । अच्सन्धिरिति । कुत्वं श्चुत्वं वाऽत्र न कृतं, स्पष्टप्रतिपत्त्यर्थम् । अत एवानुस्वारस्याप्यच्त्वादित्यादिनिर्देशोऽप्युपपन्नः । इति प्रकृतिभावप्रकरणम्॥इति तत्त्वबोधिन्यामच्सन्धिप्रकरणम्॥ — — — — — — — — — — — — — अथ तिङन्ते प्रत्ययमाला । प्रथमस्येति । अजादेस्तु द्वितीयस्य द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । प्राचा तुयथेष्टं नामाधातुषु॑ इति प्राप्तेकण्ड्वादेस्तृतीयस्येत्युक्त॑मित्यवतारितं, तदयुक्तम्, नामधातुत्वस्य निराकृतत्वात् । अत एव मूले नामधाथून् समाप्य कण्ड्वादयः पृथगेवोक्ताः । द्रीशब्दयिशब्दयोरिति । नकारस्य त्वचः परत्वाद्द्वत्वं नेति भाव- । पिप्रापयिषतीति । णाविष्ठवद्भावेन प्रियशब्दस्यप्रियस्थिरे॑त्यादिना प्रादेशः । ततो द्वित्वादि । सिसाधयिषतीति । इष्टवद्भावादिहअनतिकबाढयो॑रिति साधादेशः । सादिधयिषति । साधयियिषति । षत्वं तु नास्तीति । आदेशावयवत्वादिति भावः । बोभयिषयिषतीति । इह यङ् निमित्तद्वित्वे कृतेऽपि सन्निमित्तद्वत्वे कृतेऽपि सन्निमित्तद्वित्ववारणायलिटि धातो॑रिति सूत्रेअनभ्यासस्ये॑ त्येतदवश्यं वर्तव्यम् । एवं चलक्ष्ये लक्षमं सकृदेव प्रवर्तते॑ इति अनभ्यासग्रहणं तत्र माऽस्त्विति भाष्यस्थं प्रत्याख्यानं प्रौढिवादमात्रमिति भावः ।अथ पूर्वकृदन्तप्रकरणम् ।

Padamanjari

ठणःऽ इति पूर्वेण णकारेण प्रत्याहरः । अग्नी, वायू इति । ठीदूदेत्ऽ इति प्रगृह्यसंज्ञा ॥

Nyaas

अणः इति पूर्वेण णकारेण प्रत्याहारग्रहणम्। अन्यथाऽसन्देहार्थ अचः इति कुर्यात्। न च पदान्तहलोऽणः सम्भन्ति। दीर्घे, मधुँ इति। स्वमोर्नपुंसकात् (7.1.23) इति स्वमोर्लुक्। अग्नी, वायू इति। प्रथमयोः पूर्वसवर्णः (6.1.102) इति दीर्घः। ईदूदेद्विवचनम् (1.1.11) इति प्रगृह्रसंज्ञा॥

Prakriyasarvasvam

अप्रगृह्यस्याणोऽवसाने अनुनासिको वा स्यात् । सुनुँ, वारिँ गोपीँ कृष्णायँ, इत्यादि । विकल्पाद्यथास्थितमपि । अप्रगृह्यस्येत्युक्तेर्हरी विष्णू इत्यादौ न । अप्रगृह्यस्याणोऽवसाने वानुनासिकः स्यात् । दधि । दधिँ । म¹धु । मधुँभिरि व विन्दती ३ ॥ (?)