84045: यरोऽनुनासिकेऽनुनासिको वा

Padacheda: यरः | S | 6 | 1 |

अनुनासिके | S | 7 | 1 |

अनुनासिकः | S | 1 | 1 |

वा | S | 0 | 0 |

Sutrartha

पदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः भवति ।

<pt>**यर्** = हकारं विहाय सर्वाणि व्यञ्जनानि ।</pr> पदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः विधीयते । तत्र वर्गीयव्यञ्जनानाम् तत्तद्वर्गस्य पञ्चमम् व्यञ्जनम्, तथा च यकार-वकार-लकाराणाम् यथासङ्ख्यम् यँकार-वँकार-लँकाराः आदेशरूपेण जायन्ते । यद्यपि अस्मिन् सूत्रे “यरः” इति निर्देशः विद्यते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् वर्गतृतीयवर्णानां विषये एव भवति । सर्वाणि उदाहरणानि क्रमेण एतादृशानि — 1. **पदान्त-कवर्गीयवर्णस्य (गकारस्य) अनुनासिके ङकारादेशः ** — ।

वाचः मुखम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः]
→ वाच् मुख [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः]
→ वाक् मुख [**चोः कुः** (8.2.30) इति कुत्वम्]
→ वाग् मुख [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वे गकारः]
→ वाङ् मुख [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । गकारस्य सवर्णः ङकारः आदेशरूपेण विधीयते ।।
→ वाङ्मुख ।
<br>
पक्षे अनुनासिकादेशं विना "वाग्मुख" इत्यपि सम्भवति ।
  1. **पदान्त-चवर्गीयवर्णस्य (जकारस्य) अनुनासिके परे ञकारादेशः ** —

मरुत् ञकारीयति
→ मरुद् ञकारीयति [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्]
→ मरुज् ञकारीयति [**स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्]
→ मरुञ् ञकारीयति [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः ।जकारस्य सवर्णः ञकारः आदेशरूपेण विधीयते ।।
→‌ मरुञ्ञकारीयति
  1. पदान्त-टवर्गीयवर्णस्य (डकारस्य) अनुनासिके परे णकारादेशः

षट् मुखानि अस्य सः [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः]
षष् + मुख [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः]
→ षड् + मुख [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वे डकारः]
→ षण् + मुख [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । डकारस्य सवर्णः णकारः आदेशरूपेण विधीयते ।।
→ षण्मुख
  1. पदान्त-तवर्गीयवर्णस्य (दकारस्य) अनुनासिके परे नकारादेशः

→ सुहृद् मम [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वे दकारः]
→ सुहृन्मम [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । दकारस्य सवर्णः नकारः आदेशरूपेण विधीयते ।]
  1. पदान्त-पवर्गीयवर्णस्य (बकारस्य) अनुनासिके परे मकारादेशः

त्रिष्टुब् नमति
→ त्रिष्टुम्नमति [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । बकारस्य सवर्णः मकारः आदेशरूपेण विधीयते ।]

6. पदान्ते विद्यमानानाम् यकार-वकार-लकाराणाम् अनुनासिके परे यँ-वँ-लँकारादेशाः वस्तुतस्तु प्रयोगेषु पदान्ते यकारवकारलकाराः नैव दृश्यन्ते । तादृशाः भवन्ति चेदपि लोपो व्योर्वलि (6.1.66) इत्यनेन यकारस्य, वकारस्य च लोपः भवति, अतः प्रकृतसूत्रेण तस्य अनुनासिकादेशः नैव सम्भवति । पदान्तलकारस्य विषये यद्यपि प्रयोगस्थानि उदाहरणानि न वर्तन्ते, तथापि धातुभ्यः क्विप्-प्रत्यये कृते उदाहरणम् अवश्यं सम्भवति —

चलति सः
= चल् + क्विप्  [**अन्येभ्योऽपि दृश्यते** (3.2.178) इति क्विप्]
→ चल् + ० [पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, उभयोः **तस्य लोपः** (1.3.9) इति लोपः । इकारः उच्चारणार्थः, सोऽपि लुप्यते । अवशिष्टवकारस्य **वेरपृक्तस्य** (6.1.67) इतो लोपः । ]
→ चल्
→ चल् नमति
→ चल्ँनमति, चल्नमति [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति लकारस्य विकल्पेन अनुनासिकादेशः]

सूत्रस्य प्रयोगस्य अवकाशः

यद्यपि अस्मिन् सूत्रे “यरः” इति निर्देशः विद्यते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् वर्गतृतीयवर्णानां विषये, लकालस्य च विषये एव भवति । तदित्थम् —

  1. पदान्ते विद्यमानानाम् वर्गप्रथम-द्वितीय-तृतीय-चतुर्थवर्णानाम् झलां जशोऽन्ते (8.2.39) इति जश्त्वे वर्गतृतीयवर्णादेशः भवति । अतः वर्गप्रथम-द्वितीय-चतुर्थाः पदान्ते नैव सम्भवति ।

  2. पदान्ते विद्यमानस्य शकारस्य व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इति षत्वे ततः झलां जशोऽन्ते (8.2.39) इति जश्त्वे डकारः विधीयते । अतः पदान्ते शकारः न सम्भवति ।

  3. पदान्ते विद्यमानस्य षकारस्य झलां जशोऽन्ते (8.2.39) इति जश्त्वे डकारः विधीयते । अतः पदान्ते षकारः न सम्भवति ।

  4. पदान्ते विद्यमानस्य सकारस्य ससजुषो रुः (8.2.66) इति रुत्वं भवति । अतः पदान्ते सकारः नैव सम्भवति ।

  5. पदान्ते विद्यमानस्य रेफस्य सवर्ण-अनुनासिकाभावात् अनुनासिकादेशः नैव सम्भवति ।

  6. पदान्ते विद्यमानयोः यकारवकारयोः अनुनासिके वर्णे परे लोपो व्योर्वलि (6.1.66) इति लोपः भवति ।

अतः अस्य सूत्रस्य प्रयोगः पदान्ते विद्यमानानां वर्गतृतीयवर्णानाम् विषये, लकारस्य च विषये एव सम्भवति ।

वार्त्तिकम् — <!यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्!>

लौकिकसंस्कृते यर्-वर्णात् अनुनासिकादौ प्रत्यये परे यर्-वर्णस्य नित्यम् एव अनुनासिकादेशः भवति (न हि विकल्पेन) - इति अस्य वार्त्तिकस्य आशयः । कानिचन उदाहरणानि एतानि —

  1. “तत् प्रमाणं यस्य” अस्मिन् अर्थे प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) अनेन सूत्रेण “तद्”-शब्दात् “मात्रच्”-प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अनेन वार्तिकेन अनुनासिकादेशः नित्यम् भवति । यथा - तद् + मात्रच् → तन्मात्र ।

  2. नित्यं वृद्धशरादिभ्यः (4.3.144) इति सूत्रेण विहिते “मयट्”-प्रत्यये परे पदान्त-यर्-वर्णस्य अनुनासिकादेशः नित्यं भवति । यथा - चिद् + मय = चिन्मय । वाग् + मय = वाङ्मय ।

  3. “षष्”-शब्दस्य षष्ठीबहुवचनस्य नाम्-प्रत्यये परे प्रकृतसूत्रेण नित्यम् अनुनासिकादेशः भवति । प्रक्रिया इयम् —

षष् + आम् [**स्वौजस्..** (4.1.2) इति षष्ठीबहुवचनस्य आम्-प्रत्ययः]
→ षष् + नुड् आम् [**षट्चतुर्भ्यश्च** (7.1.55) इति नुडागमः]
→ षष् नाम् [डकारस्य इत्संज्ञा, लोपः । नकारोत्तरः उकारः उच्चारणार्थः । सोऽपि लुप्यते ।]
→ षड् नाम् [**झलां जशोऽन्ते** (8.2.39) इति पदान्तजश्त्वे षकारस्य डकारः]
→ षड् णाम् [**ष्टुन ष्टुः** (8.4.41) इति ष्टुत्वे णकारः]
→ षण्णाम् [<!यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्!> इति वार्त्तिकेन नित्यम् अनुनासिकादेशः]

दलकृत्यम्

  1. पदान्तस्य इति किमर्थम् ? ** अपदान्तस्य यर्-वर्णस्य अनुनासिके परे प्रकृतसूत्रेण अनुनासिकादेशः न भवति । यथा, विद्-धातोः मिप्</qt>-प्रत्यये परे “वेद्मि” इति रूपम् सिद्ध्यति । अत्र अपदान्त-दकारस्य मकारे परे अनुनासिकादेशः न भवति । एवमेव, “मरुत् + मत्” इत्यत्र “मरुत्”-शब्दस्य पदसंज्ञां बाधित्वा **तसौ मत्वर्थे (1.4.19) इत्यनेन भसंज्ञा भवति, अतः अत्रापि प्रकृतसूत्रेण अनुनासिकादेशः अनुनासिकादेशः न विधीयते ।

  2. यरः इति किमर्थम्? ** स्वराणां विषये प्रकृतसूत्रं नैव प्रवर्तते । यथा, “पश्य माम्” इत्यत्र यकारोत्तस्य अकारस्य अनुनासिके परे अनुनासिकादेशः न भवति । पदान्तहकारस्य तु **हो ढः (8.2.31) इत्यनेन ढत्वं भवति, अतः पदान्ते हकारः नैव सम्भवति ।

यवादिगणस्य शब्देभ्यः मतुप्-प्रत्यये कृते इदं सूत्रं न प्रवर्तते

यवादिगणः नाम कश्चन गणः मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8.2.9) अस्मिन् सूत्रे निर्दिष्टः अस्ति । अस्मिन् गणे विद्यमानेभ्यः यर्-वर्णान्तशब्देभ्यः यदा मतुप्-प्रत्ययः विधीयते, तदा तत्र प्रकृतसूत्रेण (वार्त्तिकेन) वा अनुनासिकादेशः न भवति —

  1. हरित् + मतुप् → हरित्मत् । मरुत् + मतुप् → मरुत्मत् । गरुत् + मतुप् → गरुत्मत् । अत्र हरित्/मरुत्/गरुत्-शब्दानाम् तसौ मत्वर्थै (1.4.19) इत्यनेन भसंज्ञा भवति । पदसंज्ञायाः अभावात् अत्र प्रकृतसूत्रस्य प्रसक्तिः एव नास्ति ।

  2. ककुद् + मतुप् → ककुद्मत् । अत्र यवादिगणे ‘ककुद्’ शब्दस्य विधानसामर्थ्यात् दकारस्य प्रकृतसूत्रेण अनुनासिकादेशः न भवति इति कौमुद्याम् दीक्षितः स्पष्टीकरोति । प्रौढमनोरमायाम् तु तसौ मत्वर्थे (1.4.19) इति दकारप्रश्लेषं कृत्वा (इत्युक्ते, द्तसौ मत्वर्थे इति सूत्रं कृत्वा) “ककुद् + मतुप्” इत्यत्र ककुद्-शब्दस्य भसंज्ञां कृत्वा अपि अनुनासिकत्वं निवारितम् अस्ति ।

Sutrartha (English)

A यर् letter occurring at end of a पद is optionally converted to an अनुनासिक when it is followed by an अनुनासिक.

Vasu English Summary

In the room of a यर् letter (every consonant except ह final) in a पद , when Nasal follows, there is optionally a Nasal substitute.

Vasu English Translation

In the room of a यर् letter (every consonant except ह final) in a पद , when Nasal follows, there is optionally a Nasal substitute. The word पदान्त is understood here. Thus वाक् + नयति = वाग्नयति or वाङ्नयति, अग्निचिद्नयति or अग्निचिन्नयति, त्रिष्टुब्नयति or त्रिष्टुम्ननयति, श्वलिण्नयति or श्वलिड्नयति ॥

Why do we say ‘final in a Pada’? Observe, वेद् + मि = वेद्मि ॥ Here there is no option. So also क्षुभ्नाति ॥

Vart:- When it is a pratyaya or affix that follows, the nasalisation is obligatory in the secular language. Thus वाक् + मात्रम् = वाङ्मात्रम्, कियन्मात्रम् ॥ It is, however, only before the affixes मय and मात्र that the change is obligatory, and not before every affix beginning with a nasal.

Bhashya

यरोऽनुनासिकेऽनुनासिको वा ॥ यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनम्॥ यरोऽनुनासिके प्रत्यये भाषायां नित्यमिति च वक्तव्यम्। वाङ्मयम्। त्वङ्मयमिति॥

Kashika

पदान्तग्रहणमनुवर्तते। यरः पदान्तस्यानुनासिके परतो वानुनासिक आदेशो भवति। वाङ् नयति, वाग् नयति। श्वलिण् नयति। श्वलिड् नयति। अग्निचिन् नयति, अग्निचिद् नयति। त्रिष्टुम् नयति, त्रिष्टुब् नयति। पदान्तस्येत्येव — वेद्मि। क्षुभ्नाति॥ यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्॥ वाङ्मयम्। त्वङ्मयम्। व्यवस्थितविभाषाविज्ञानात् सिद्धम्॥

Siddhanta Kaumudi

यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥

Laghu Siddhanta Kaumudi

यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः एतद् मुरारिः । प्रत्यये भाषायां नित्यम् (वार्त्तिकम्) । तन्मात्रम् । चिन्मयम् ॥

Balamanorama

यरोऽनुनासिकेऽनुनासिको वा - यरोऽनुनासिके ।न पदान्ताट्टो॑रित्यतः पदान्तादित्यनुवर्तते, तच्च षष्ठन्ततया विपरिणम्यते, तदाह — यरः पदान्तस्येति ।एतन्मुरारि॑रिति कर्मधारयः । एतद्-मुरारिरिति स्थिते दस्य अनुनासिको नकारः, दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिको णकारः स्यात्, रेफसकारयोः स्पृष्टेत्स्पृष्टप्रयत्नभेदेऽपि मूर्घस्थानान्तर्यादित्यत आह — स्थानेति ।एतन्मुरारि॑रित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्पर्शे चरितार्थः=लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः ।यूनि लब्धे तु युवतिर्जरठे रमते कथ॑मिति न्यायादिति भावः । प्रत्ययेभाषायाम् । वार्तिकमेतत् । भाष्य=लोकिकप्रयोगः । तत्र प्रयत्ने विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं भवतीत्यर्थः । तन्मात्रमिति । तत्-प्रमाणं यस्य तत्तन्मात्रं ।प्रमाणे द्वयसज्दध्नञ्मात्रचः॑ इति मात्रच्प्रत्ययः । चिन्मयमिति ।नित्यं वृद्धशारादिभ्यः॑ इत्यत्रनित्य॑मिति योगविभागात्ताद्रूप्ये मयट् । कथं तहीति । यदि प्रत्यये परे नित्यमनुनासिकः स्यात्तदामदोदग्राः ककुद्मन्त॑ इति कालिदासप्रयोगः कथमित्याक्षेपः । मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः । परिहरति — यवादीति । यवादिगणे कुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः । यदि तत्र दकारस्य नकार एव इष्टः स्यात्तर्हि नकारमेव लाघवान्निर्दिशेदिति भावः ।

Padamanjari

‘पदान्तात्’ इत्यनुवृतं षष्ठ।ल्न्तं विपरिणम्यते । वाङ्मयमिति ।’नित्यं वृद्धशरादिभ्यः’ इति मयट् ॥

Nyaas

पदान्तस्य इत्यनेन न पदान्ताट्टोरनाम् (8.4.42) इत्यतः पदान्तग्रहणमनुवर्तते, तच्चार्थात्? षष्ठन्ततामनुभवतीति दर्शयति। वाङ्न्यति इत्यादावुदाहरणे झलां जशोऽन्ते (8.2.39) इति गकारादौ जश्त्वे कृते तस्यानुनासिकः कर्तव्यः। वाङ्मयम् इति। नित्यं वृद्धशरादिभ्यः (4.3.144) इति मयट्। त्वङ्मयम् इति। अत्रापि मयङ्वैतयोः (4.3.141) इत्यादिना॥

Praudhamanorama

प्रत्यये भाषायामिति । यत्तु प्राचा मयटि नित्यमिति पठितम्, यच्च हलन्तप्रकरणे षण्णां, षड्णामित्युदाहृतम्, यच्च यरोऽनुनासिक— (8.4.45) इति वाऽनुनासिक इति तत्र व्याख्यातं, तत्सर्वं भाष्यविरोधादुपेक्ष्यम्। यवादिगण इति। ‘यचि भं तसौ मत्वर्थे’ इति संहितया पाठे तसाविति तात्पूर्वं दकारं प्रश्लिष्य भत्वेनाप्येतत्समाधातुं शक्यम्॥

Prakriyasarvasvam

पदान्तस्य यरोऽनुनासिके परेऽनुनासिको वा स्यात् । दस्य नः । तन्मुखम् । तद्मुखम् । स्पर्शानामेवेष्टम्, अन्यस्य न । चतुर्मुखः । ‘तद्धितप्रत्यये परे नित्यं वाच्यम्’ (वा० ८-४-४५) । चिन्मयः । तत् सुखम् । अत्र तस्य जश्त्वे कृते ।

Sarala

पदस्य (८.१.१६) इत्यनुवर्तते । तदन्त्विध्यलोन्त्यपरिभाषोभयलब्धमर्थमाह - यरः पदान्तस्येति । यरः पदान्तस्य प्रत्ययावयवेऽनुनासिके परे भाषायां नित्यमनुनासिको भवतीत्यर्थः । “वेद्मि” “बध्नाति “ इत्यात्यादेस्तु नानुनासिकः, यरःपदान्तत्वाभावात् ॥

Sudha

यरोनुनासिक इति । न पदान्ताट्टोरनाम् (8.4.42) इत्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते तदाह — यरः पदान्तस्येति । ** “एतद्-मुरारिः” इति स्थितौ **यरोनुनासिकेऽनुनासिको वा (8.4.45) इति सूत्रेण समेष्वनुनासिकेषु प्राप्तेषु सत्सु स्थानेऽन्तरतमः (1.1.50) इत्यनेन दस्य दन्त्यत्वात् दन्त्येषु चानुनासिकान्तःपातिनः नस्यैव विद्यमानत्त्वान्नकारे विकल्पेन जाते “एतन्मुरारिः” इति सिद्धम् । पक्षे — एतद्मुरारिः इति । एष चासौ मुरारिः इति कर्मधारयसमासोऽत्र बोध्यः । प्रत्यये भाषायामिति । ** प्रत्यये अनुनासिकात्मके परे लोके नित्यमनुनासिकः स्यादित्यर्थः । **तन्मात्रमिति ** । तत्प्रमाणमस्येति तन्मात्रम्; **प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5.2.37) इत्यनेन मात्रच्प्रत्ययः । “तद्-मात्रम्” इत्यवस्थायाम् <!प्रत्यये भाषायां नित्यम्!> इत्यनेन स्थानत आन्तर्यमाश्रित्य दकारस्य स्थाने नकारे जाते तन्मात्रम् इति निष्पन्नम् । चिन्मयमिति । ** चिदेव “चिन्मात्रम्”, अत्र **नित्यं वृद्धशरादिभ्यः (4.3.144) इत्यत्र नित्यमिति योगविभागात्ताद्रूप्ये मयट् । प्रक्रिया तु पूर्ववद्बोध्या ॥

Vartika

प्रत्यये भाषायां नित्यम् ।