84045: यरोऽनुनासिकेऽनुनासिको वा =============================== **Padacheda:** यरः | S | 6 | 1 | अनुनासिके | S | 7 | 1 | अनुनासिकः | S | 1 | 1 | वा | S | 0 | 0 | Sutrartha --------- **पदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः भवति ।** **यर्** = हकारं विहाय सर्वाणि व्यञ्जनानि । पदान्ते विद्यमानस्य यर्-वर्णस्य अनुनासिके परे विकल्पेन अनुनासिकादेशः विधीयते । तत्र वर्गीयव्यञ्जनानाम् तत्तद्वर्गस्य पञ्चमम् व्यञ्जनम्, तथा च यकार-वकार-लकाराणाम् यथासङ्ख्यम् यँकार-वँकार-लँकाराः आदेशरूपेण जायन्ते । यद्यपि अस्मिन् सूत्रे "यरः" इति निर्देशः विद्यते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् वर्गतृतीयवर्णानां विषये एव भवति । सर्वाणि उदाहरणानि क्रमेण एतादृशानि — 1. **पदान्त-कवर्गीयवर्णस्य (गकारस्य) अनुनासिके ङकारादेशः ** — । .. code-block:: text वाचः मुखम् [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः] → वाच् मुख [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः] → वाक् मुख [**चोः कुः** (8.2.30) इति कुत्वम्] → वाग् मुख [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वे गकारः] → वाङ् मुख [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । गकारस्य सवर्णः ङकारः आदेशरूपेण विधीयते ।। → वाङ्मुख ।
पक्षे अनुनासिकादेशं विना "वाग्मुख" इत्यपि सम्भवति । 2. **पदान्त-चवर्गीयवर्णस्य (जकारस्य) अनुनासिके परे ञकारादेशः ** — .. code-block:: text मरुत् ञकारीयति → मरुद् ञकारीयति [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्] → मरुज् ञकारीयति [**स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्] → मरुञ् ञकारीयति [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः ।जकारस्य सवर्णः ञकारः आदेशरूपेण विधीयते ।। →‌ मरुञ्ञकारीयति 3. **पदान्त-टवर्गीयवर्णस्य (डकारस्य) अनुनासिके परे णकारादेशः** — .. code-block:: text षट् मुखानि अस्य सः [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिः] षष् + मुख [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुँलोपः] → षड् + मुख [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वे डकारः] → षण् + मुख [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । डकारस्य सवर्णः णकारः आदेशरूपेण विधीयते ।। → षण्मुख 4. **पदान्त-तवर्गीयवर्णस्य (दकारस्य) अनुनासिके परे नकारादेशः** — .. code-block:: text → सुहृद् मम [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वे दकारः] → सुहृन्मम [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । दकारस्य सवर्णः नकारः आदेशरूपेण विधीयते ।] 5. **पदान्त-पवर्गीयवर्णस्य (बकारस्य) अनुनासिके परे मकारादेशः** — .. code-block:: text त्रिष्टुब् नमति → त्रिष्टुम्नमति [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति विकल्पेन अनुनासिकादेशः । बकारस्य सवर्णः मकारः आदेशरूपेण विधीयते ।] 6. **पदान्ते विद्यमानानाम् यकार-वकार-लकाराणाम् अनुनासिके परे यँ-वँ-लँकारादेशाः** वस्तुतस्तु प्रयोगेषु पदान्ते यकारवकारलकाराः नैव दृश्यन्ते । तादृशाः भवन्ति चेदपि **लोपो व्योर्वलि** (6.1.66) इत्यनेन यकारस्य, वकारस्य च लोपः भवति, अतः प्रकृतसूत्रेण तस्य अनुनासिकादेशः नैव सम्भवति । पदान्तलकारस्य विषये यद्यपि प्रयोगस्थानि उदाहरणानि न वर्तन्ते, तथापि धातुभ्यः क्विप्-प्रत्यये कृते उदाहरणम् अवश्यं सम्भवति — .. code-block:: text चलति सः = चल् + क्विप् [**अन्येभ्योऽपि दृश्यते** (3.2.178) इति क्विप्] → चल् + ० [पकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, ककारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा, उभयोः **तस्य लोपः** (1.3.9) इति लोपः । इकारः उच्चारणार्थः, सोऽपि लुप्यते । अवशिष्टवकारस्य **वेरपृक्तस्य** (6.1.67) इतो लोपः । ] → चल् → चल् नमति → चल्ँनमति, चल्नमति [**यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति लकारस्य विकल्पेन अनुनासिकादेशः] **सूत्रस्य प्रयोगस्य अवकाशः** यद्यपि अस्मिन् सूत्रे "यरः" इति निर्देशः विद्यते, तथापि अस्य सूत्रस्य प्रयोगः केवलम् वर्गतृतीयवर्णानां विषये, लकालस्य च विषये एव भवति । तदित्थम् — 1. पदान्ते विद्यमानानाम् वर्गप्रथम-द्वितीय-तृतीय-चतुर्थवर्णानाम् **झलां जशोऽन्ते** (8.2.39) इति जश्त्वे वर्गतृतीयवर्णादेशः भवति । अतः वर्गप्रथम-द्वितीय-चतुर्थाः पदान्ते नैव सम्भवति । 2. पदान्ते विद्यमानस्य शकारस्य **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वे ततः **झलां जशोऽन्ते** (8.2.39) इति जश्त्वे डकारः विधीयते । अतः पदान्ते शकारः न सम्भवति । 3. पदान्ते विद्यमानस्य षकारस्य **झलां जशोऽन्ते** (8.2.39) इति जश्त्वे डकारः विधीयते । अतः पदान्ते षकारः न सम्भवति । 4. पदान्ते विद्यमानस्य सकारस्य **ससजुषो रुः** (8.2.66) इति रुत्वं भवति । अतः पदान्ते सकारः नैव सम्भवति । 5. पदान्ते विद्यमानस्य रेफस्य सवर्ण-अनुनासिकाभावात् अनुनासिकादेशः नैव सम्भवति । 6. पदान्ते विद्यमानयोः यकारवकारयोः अनुनासिके वर्णे परे **लोपो व्योर्वलि** (6.1.66) इति लोपः भवति । अतः अस्य सूत्रस्य प्रयोगः पदान्ते विद्यमानानां वर्गतृतीयवर्णानाम् विषये, लकारस्य च विषये एव सम्भवति । **वार्त्तिकम् — ** **लौकिकसंस्कृते यर्-वर्णात् अनुनासिकादौ प्रत्यये परे यर्-वर्णस्य नित्यम् एव अनुनासिकादेशः भवति (न हि विकल्पेन)** - इति अस्य वार्त्तिकस्य आशयः । कानिचन उदाहरणानि एतानि — 1. "तत् प्रमाणं यस्य" अस्मिन् अर्थे **प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) अनेन सूत्रेण "तद्"-शब्दात् "मात्रच्"-प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अनेन वार्तिकेन अनुनासिकादेशः नित्यम् भवति । यथा - तद् + मात्रच् → तन्मात्र । 2. **नित्यं वृद्धशरादिभ्यः** (4.3.144) इति सूत्रेण विहिते "मयट्"-प्रत्यये परे पदान्त-यर्-वर्णस्य अनुनासिकादेशः नित्यं भवति । यथा - चिद् + मय = चिन्मय । वाग् + मय = वाङ्मय । 3. "षष्"-शब्दस्य षष्ठीबहुवचनस्य नाम्-प्रत्यये परे प्रकृतसूत्रेण नित्यम् अनुनासिकादेशः भवति । प्रक्रिया इयम् — .. code-block:: text षष् + आम् [**स्वौजस्..** (4.1.2) इति षष्ठीबहुवचनस्य आम्-प्रत्ययः] → षष् + नुड् आम् [**षट्चतुर्भ्यश्च** (7.1.55) इति नुडागमः] → षष् नाम् [डकारस्य इत्संज्ञा, लोपः । नकारोत्तरः उकारः उच्चारणार्थः । सोऽपि लुप्यते ।] → षड् नाम् [**झलां जशोऽन्ते** (8.2.39) इति पदान्तजश्त्वे षकारस्य डकारः] → षड् णाम् [**ष्टुन ष्टुः** (8.4.41) इति ष्टुत्वे णकारः] → षण्णाम् [ इति वार्त्तिकेन नित्यम् अनुनासिकादेशः] **दलकृत्यम्** 1. **पदान्तस्य इति किमर्थम् ? ** अपदान्तस्य यर्-वर्णस्य अनुनासिके परे प्रकृतसूत्रेण अनुनासिकादेशः न भवति । यथा, विद्-धातोः मिप्-प्रत्यये परे "वेद्मि" इति रूपम् सिद्ध्यति । अत्र अपदान्त-दकारस्य मकारे परे अनुनासिकादेशः न भवति । एवमेव, "मरुत् + मत्" इत्यत्र "मरुत्"-शब्दस्य पदसंज्ञां बाधित्वा **तसौ मत्वर्थे** (1.4.19) इत्यनेन भसंज्ञा भवति, अतः अत्रापि प्रकृतसूत्रेण अनुनासिकादेशः अनुनासिकादेशः न विधीयते । 2. **यरः इति किमर्थम्? ** स्वराणां विषये प्रकृतसूत्रं नैव प्रवर्तते । यथा, "पश्य माम्" इत्यत्र यकारोत्तस्य अकारस्य अनुनासिके परे अनुनासिकादेशः न भवति । पदान्तहकारस्य तु **हो ढः** (8.2.31) इत्यनेन ढत्वं भवति, अतः पदान्ते हकारः नैव सम्भवति । **यवादिगणस्य शब्देभ्यः मतुप्-प्रत्यये कृते इदं सूत्रं न प्रवर्तते** यवादिगणः नाम कश्चन गणः **मादुपधायाश्च मतोर्वोऽयवादिभ्यः** (8.2.9) अस्मिन् सूत्रे निर्दिष्टः अस्ति । अस्मिन् गणे विद्यमानेभ्यः यर्-वर्णान्तशब्देभ्यः यदा मतुप्-प्रत्ययः विधीयते, तदा तत्र प्रकृतसूत्रेण (वार्त्तिकेन) वा अनुनासिकादेशः न भवति — 1. हरित् + मतुप् → हरित्मत् । मरुत् + मतुप् → मरुत्मत् । गरुत् + मतुप् → गरुत्मत् । अत्र हरित्/मरुत्/गरुत्-शब्दानाम् **तसौ मत्वर्थै** (1.4.19) इत्यनेन भसंज्ञा भवति । पदसंज्ञायाः अभावात् अत्र प्रकृतसूत्रस्य प्रसक्तिः एव नास्ति । 2. ककुद् + मतुप् → ककुद्मत् । अत्र यवादिगणे 'ककुद्' शब्दस्य विधानसामर्थ्यात् दकारस्य प्रकृतसूत्रेण अनुनासिकादेशः न भवति इति कौमुद्याम् दीक्षितः स्पष्टीकरोति । प्रौढमनोरमायाम् तु **तसौ मत्वर्थे** (1.4.19) इति दकारप्रश्लेषं कृत्वा (इत्युक्ते, **द्तसौ मत्वर्थे** इति सूत्रं कृत्वा) "ककुद् + मतुप्" इत्यत्र ककुद्-शब्दस्य भसंज्ञां कृत्वा अपि अनुनासिकत्वं निवारितम् अस्ति । Sutrartha (English) ------------------- A यर् letter occurring at end of a पद is optionally converted to an अनुनासिक when it is followed by an अनुनासिक. Vasu English Summary -------------------- In the room of a यर् letter (every consonant except ह final) in a पद , when Nasal follows, there is optionally a Nasal substitute. Vasu English Translation ------------------------ In the room of a यर् letter (every consonant except ह final) in a पद , when Nasal follows, there is optionally a Nasal substitute. The word पदान्त is understood here. Thus वाक् + नयति = वाग्नयति or वाङ्नयति, अग्निचिद्नयति or अग्निचिन्नयति, त्रिष्टुब्नयति or त्रिष्टुम्ननयति, श्वलिण्नयति or श्वलिड्नयति ॥ Why do we say 'final in a *Pada*'? Observe, वेद् + मि = वेद्मि ॥ Here there is no option. So also क्षुभ्नाति ॥ Vart:- When it is a *pratyaya* or affix that follows, the nasalisation is obligatory in the secular language. Thus वाक् + मात्रम् = वाङ्मात्रम्, कियन्मात्रम् ॥ It is, however, only before the affixes मय and मात्र that the change is obligatory, and not before every affix beginning with a nasal. Bhashya ------- यरोऽनुनासिकेऽनुनासिको वा ॥ यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनम्॥ यरोऽनुनासिके प्रत्यये भाषायां नित्यमिति च वक्तव्यम्। वाङ्मयम्। त्वङ्मयमिति॥ Kashika ------- पदान्तग्रहणमनुवर्तते। यरः पदान्तस्यानुनासिके परतो वानुनासिक आदेशो भवति। वाङ् नयति, वाग् नयति। श्वलिण् नयति। श्वलिड् नयति। अग्निचिन् नयति, अग्निचिद् नयति। त्रिष्टुम् नयति, त्रिष्टुब् नयति। पदान्तस्येत्येव — वेद्मि। क्षुभ्नाति॥ यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्॥ वाङ्मयम्। त्वङ्मयम्। व्यवस्थितविभाषाविज्ञानात् सिद्धम्॥ Siddhanta Kaumudi ----------------- यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥ Laghu Siddhanta Kaumudi ----------------------- यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः एतद् मुरारिः । **प्रत्यये भाषायां नित्यम्** (वार्त्तिकम्) । तन्मात्रम् । चिन्मयम् ॥ Balamanorama ------------ **यरोऽनुनासिकेऽनुनासिको वा** - यरोऽनुनासिके ।न पदान्ताट्टो॑रित्यतः पदान्तादित्यनुवर्तते, तच्च षष्ठन्ततया विपरिणम्यते, तदाह — यरः पदान्तस्येति ।एतन्मुरारि॑रिति कर्मधारयः । एतद्-मुरारिरिति स्थिते दस्य अनुनासिको नकारः, दन्तस्थानसाम्यात्, स्पृष्टप्रयत्नसाम्याच्च । ननु चतुर्मुख इत्यत्रापि रेफस्य अनुनासिको णकारः स्यात्, रेफसकारयोः स्पृष्टेत्स्पृष्टप्रयत्नभेदेऽपि मूर्घस्थानान्तर्यादित्यत आह — स्थानेति ।एतन्मुरारि॑रित्यादौ स्थानतः प्रयत्नतश्चान्तरतमे स्पर्शे चरितार्थः=लब्धप्रयोजनोऽयमनुनासिकविधिः स्थानमात्रेण आन्तर्यमादाय रेफे न प्रवृत्तिमर्हतीत्यर्थः ।यूनि लब्धे तु युवतिर्जरठे रमते कथ॑मिति न्यायादिति भावः । प्रत्ययेभाषायाम् । वार्तिकमेतत् । भाष्य=लोकिकप्रयोगः । तत्र प्रयत्ने विद्यमाने अनुनासिके परतः प्रागुक्तोऽनुनासिको नित्यं भवतीत्यर्थः । तन्मात्रमिति । तत्-प्रमाणं यस्य तत्तन्मात्रं ।प्रमाणे द्वयसज्दध्नञ्मात्रचः॑ इति मात्रच्प्रत्ययः । चिन्मयमिति ।नित्यं वृद्धशारादिभ्यः॑ इत्यत्रनित्य॑मिति योगविभागात्ताद्रूप्ये मयट् । कथं तहीति । यदि प्रत्यये परे नित्यमनुनासिकः स्यात्तदामदोदग्राः ककुद्मन्त॑ इति कालिदासप्रयोगः कथमित्याक्षेपः । मतुपः प्रत्ययत्वेन तस्मिन् परे दकारस्य अनुनासिकनकारावश्यम्भावादिति भावः । परिहरति — यवादीति । यवादिगणे कुद्मच्छब्दे दकारस्य निर्देशान्न तस्यानुनासिकः । यदि तत्र दकारस्य नकार एव इष्टः स्यात्तर्हि नकारमेव लाघवान्निर्दिशेदिति भावः । Padamanjari ----------- 'पदान्तात्' इत्यनुवृतं षष्ठ।ल्न्तं विपरिणम्यते । वाङ्मयमिति ।'नित्यं वृद्धशरादिभ्यः' इति मयट् ॥ Nyaas ----- `पदान्तस्य` इत्यनेन **न पदान्ताट्टोरनाम्** (8.4.42) इत्यतः पदान्तग्रहणमनुवर्तते, तच्चार्थात्? षष्ठन्ततामनुभवतीति दर्शयति। `वाङ्न्यति` इत्यादावुदाहरणे **झलां जशोऽन्ते** (8.2.39) इति गकारादौ जश्त्वे कृते तस्यानुनासिकः कर्तव्यः। `वाङ्मयम्` इति। **नित्यं वृद्धशरादिभ्यः** (4.3.144) इति मयट्। `त्वङ्मयम्` इति। अत्रापि `मयङ्वैतयोः` (4.3.141) इत्यादिना॥ Praudhamanorama --------------- **प्रत्यये भाषायामिति** । यत्तु प्राचा मयटि नित्यमिति पठितम्, यच्च हलन्तप्रकरणे षण्णां, षड्णामित्युदाहृतम्, यच्च **यरोऽनुनासिक—** (8.4.45) इति वाऽनुनासिक इति तत्र व्याख्यातं, तत्सर्वं भाष्यविरोधादुपेक्ष्यम्। **यवादिगण इति।** 'यचि भं तसौ मत्वर्थे' इति संहितया पाठे तसाविति तात्पूर्वं दकारं प्रश्लिष्य भत्वेनाप्येतत्समाधातुं शक्यम्॥ Prakriyasarvasvam ----------------- पदान्तस्य यरोऽनुनासिके परेऽनुनासिको वा स्यात् । दस्य नः । तन्मुखम् । तद्मुखम् । स्पर्शानामेवेष्टम्, अन्यस्य न । चतुर्मुखः । 'तद्धितप्रत्यये परे नित्यं वाच्यम्' (वा० ८-४-४५) । चिन्मयः । तत् सुखम् । अत्र तस्य जश्त्वे कृते । Sarala ------ **पदस्य** (८.१.१६) इत्यनुवर्तते । तदन्त्विध्यलोन्त्यपरिभाषोभयलब्धमर्थमाह - **यरः पदान्तस्येति** । यरः पदान्तस्य प्रत्ययावयवेऽनुनासिके परे भाषायां नित्यमनुनासिको भवतीत्यर्थः । "वेद्मि" "बध्नाति " इत्यात्यादेस्तु नानुनासिकः, यरःपदान्तत्वाभावात् ॥ Sudha ----- **यरोनुनासिक इति ।** **न पदान्ताट्टोरनाम्** (8.4.42) इत्यतः पदान्तादित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते तदाह — **यरः पदान्तस्येति । ** "एतद्-मुरारिः" इति स्थितौ **यरोनुनासिकेऽनुनासिको वा** (8.4.45) इति सूत्रेण समेष्वनुनासिकेषु प्राप्तेषु सत्सु **स्थानेऽन्तरतमः** (1.1.50) इत्यनेन दस्य दन्त्यत्वात् दन्त्येषु चानुनासिकान्तःपातिनः नस्यैव विद्यमानत्त्वान्नकारे विकल्पेन जाते "एतन्मुरारिः" इति सिद्धम् । पक्षे — **एतद्मुरारिः** इति । एष चासौ मुरारिः इति कर्मधारयसमासोऽत्र बोध्यः । **प्रत्यये भाषायामिति । ** प्रत्यये अनुनासिकात्मके परे लोके नित्यमनुनासिकः स्यादित्यर्थः । **तन्मात्रमिति ** । तत्प्रमाणमस्येति तन्मात्रम्; **प्रमाणे द्वयसज्दघ्नञ्मात्रचः** (5.2.37) इत्यनेन मात्रच्प्रत्ययः । "तद्-मात्रम्" इत्यवस्थायाम् इत्यनेन स्थानत आन्तर्यमाश्रित्य दकारस्य स्थाने नकारे जाते **तन्मात्रम्** इति निष्पन्नम् । **चिन्मयमिति । ** चिदेव "चिन्मात्रम्", अत्र **नित्यं वृद्धशरादिभ्यः** (4.3.144) इत्यत्र नित्यमिति योगविभागात्ताद्रूप्ये मयट् । प्रक्रिया तु पूर्ववद्बोध्या ॥ Vartika ------- प्रत्यये भाषायां नित्यम् ।