84044: शात्

Padacheda: शात् | S | 5 | 1 |

Sutrartha

शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वम् न भवति ।

शकारात् परः विद्यमानस्य तवर्गीयवर्णस्य स्तोः श्चुना श्चुः (8.4.41) इत्यनेन प्राप्तम् श्चुत्वम् न भवति — इति प्रकृतसूत्रस्य आशयः । वस्तुतस्तु पदान्तशकारस्य व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इति षत्वं भवति । अपदान्तशकारस्य अपि झलि परे (अतः तकारथकारदकारधकारेषु परेषु) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8.2.36) इत्यनेनैव षत्वम् एव विधीयते । अतः अत्र केवलम् अपदान्तशकारस्य नकारे परे ष्टुत्वनिषेधस्य उदाहरणानि विद्यन्ते । यथा — 1. “(प्रछँ (ज्ञीप्सायाम्)” धातोः “प्रश्न” इति रूपस्य सिद्धौ प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति —

प्रछँ (ज्ञीप्सायाम्, तुदादिः (6.0149))
→ प्रछ् + नङ् [**यजयाचयतविच्छप्रच्छरक्षो नङ्** (3.3.90) इति नङ्-प्रत्ययः]
→ प्र तुक् छ् + नङ् [**छे च** (6.1.73) इति तुगागमः]
→ प्र श् + न [**च्छ्वोः शूडनुनासिके च** (6.4.19) इति त्छ्-इत्यस्य नकारादेशः]
→ प्रश्न [**श्चुना श्चुः**  (8.4.40) इति श्चुत्वे प्राप्ते **शात्** (8.4.44) इति निषेधः ]
एवमेव 'विच्छ् + नङ् = विश्न' इत्यपि रूपं सिद्ध्यति ।
  1. “अश् (भोजने)” धातोः श्ना-विकरणप्रत्यये परे प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति —

अश् (भोजने, क्र्यादिः, (9.59))
→ अश् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ अश् + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ अश् + श्ना + ति [**क्र्यादिभ्यः श्ना** (3.1.81) इति श्नाप्रत्ययः]
→ अश्नाति [**स्तोः श्चुना श्चुः** (8.4.40) इत्यनेेन शकारात् परस्य नकारस्य श्चुत्वे प्राप्ते **शात्** (8.4.44) इति तत् निषिध्यते ।]

Sutrartha (English)

A तवर्गीय letter following a शकार does not undergo श्चुत्वम्.

Vasu English Summary

In the room of तु there is not a palatal substitute, when श् precedes.

Vasu English Translation

In the room of तु there is not a palatal substitute, when श् precedes. The words न and तोः are understood here. This is an exception to (8.4.40). Thus, प्रच्छ + न (3.3.90) = प्रश् + न (6.4.19) = प्रश्नः, विश्नः &c.

Kashika

तोरिति वर्तते। शकारादुत्तरस्य तवर्गस्य यदुक्तं तद् न भवति। प्रश्नः। विश्नः॥

Siddhanta Kaumudi

शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥

Laghu Siddhanta Kaumudi

शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥

Balamanorama

शात् - शात् । न पदान्तादिति पूर्वसूत्रात्ने॑त्यनुवर्तते ।स्तोःश्चुना श्चु॑रित्यतःतो॑रिति ,चु॑रिति चानुवर्तते । नतु सकारः शकारश्च ।शा॑दिति दिग्योगे पञ्चमी,परस्ये॑त्यध्याहार्यन्तदाह — शात्परस्येत्यादिना । विश्न इति । विच्छ गतौ ।यजयाचयतविच्छप्रच्छरक्षो नङ् इति नङ् । छ्वोःशूठ् इति छस्य शः । ङित्त्वान्न गुणः । अत्र शकारयोगात्तवर्गीयनकारस्य श्चुत्वेन ञकारे प्राप्ते निषेधः । पूर्वसूत्रे ‘श्चुना योगे’ इत्यत्रापि यथासङ्शख्याश्रयणे तु इह तवक्दीयस्य नकारस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थः स्यात् । एवंचाऽस्मादेव निषेधात्पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासंख्याश्रयणमिति विज्ञायते । प्रश्न इति ।प्रच्छ ज्ञीप्सायाम् । पूर्वन्नङादि । अत्रग्राहिज्ये॑ति संप्रसारणं न,प्रश्ने चासन्नकाले॑ इत्यादिनिर्देशात् । अत्र वर्गपञ्चमानां नासिकास्थानाधिक्ये ।ञपि तत्तद्वर्गीयैरस्ति सावण्र्यमिति तुल्यास्यसूत्रेऽवोचाम ।

Tattvabodhini

शात् - शात् ।ने॑तितो॑रिति चानुवर्तते तदाह-तवर्गस्येत्यादि ।जश्त्व॑-मित्यादिव्याख्यातृनिर्देशे निःसन्दिग्धत्वेन बोधनायवश्चे॑ति षत्वं जश्त्वं च न कृतं,तथा श्चुत्वमपि न कृतमिति परिहारसम्भवाद्वर्गान्त्यमेवोदाहरति-विश्नः प्रश्न इति ।विच्छ गतौ॑,प्रच्छ ज्ञाप्सायाम् ।यजयाचे॑त्यादिनानङ् ।छ्वोः शू॑डिति छस्य शत्वम् । नङो ङित्वाद्गुणाभावः । प्रच्छेस्तुप्रश्ने चासन्ने॑ति निर्देशात्संप्रसारणाऽभावः । ननु ञमङणनाना नासिकास्थानाधिक्याद्वर्गेष्वाद्यैश्चतुर्भिः सह तुल्यस्थानत्वाभावेन सावण्र्याऽभावात्स्तोः श्चुने॑तितु॑ शब्देन नकारो न गृह्रते किं तु स्ववर्गाद्यश्चत्वार एवेति विश्न प्रश्न इत्यत्र श्चुत्वाऽप्रसक्तेः किमनेन निषेधेनेति चेदत्राहुः,-॒शा॑दिति निषेधाल्लिङ्गादेवतुल्यास्यप्रयत्न॑मित्यत्रास्यग्रहणेन नासिकास्थानभिन्नं ताल्वादिस्थानं गृह्रते, तत्स्थानं तु तुल्यमेवेतितु॑ शब्देन पञ्चमस्यापि ग्रहणात्स्चुत्वप्रसक्तौ निषेधोऽयमावश्यकः । एवंचतोर्ली॑तितु॑ शब्देन नकारस्यापि ग्रहणाद्विद्वाँल्लिखतीत्यादि सिध्यति । नच निमित्तकार्यिणोर्यथासङ्ख्यनिरासज्ञापकमित्युक्तत्वात्तेनैव चार्थवत्त्वे कथमुक्तार्थे ज्ञापकं भवेदिति वाच्यं;तु॑ शब्देन नकारग्रहणे सिद्धे हि यथासङ्ख्यनिवृत्तिरतेन ज्ञापनीयेत्युभयज्ञापेनबाधकाऽभावात् । नापितुल्यास्ये॑त्यत्र यत्किञ्चित्स्थानतुल्यत्वविवक्षायां वर्गेषु पञ्चापि वर्णाः परस्परं सवर्णा भवेयुरित्युक्तोदाहरणे श्चुत्वप्रसक्तौशा॑दित्यारम्भ आवश्यक इत्येतज्ज्ञापकाश्रयणं किमर्थमिति वाच्यं, तथाहि सति ञमङणनानां परस्परसावण्र्यपत्त्यात्व नयसी॑त्यादौअनुस्वारस्य ययि परसवर्णः॒॑वा पदान्तस्ये॑त्यनुस्वारस्य ञादयोऽपि स्युः । ताल्वादिस्थानासाम्याऽभावेऽपि नासिकारूपस्य यत्किचित्स्थानस्य तुल्यत्वात् । नापि तुस्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां ञादीनां परत्परसावण्र्यं न भवेत्, तेषां नासिकास्थानसाम्येऽपि ताल्वादिस्थानसाम्याऽभावेन न्यूनस्थानकत्वात् । ततश्चत्वं नयसी॑त्यादिषु नातिप्रसङ्गः । स्ववर्गाद्यैः सह तु ञादीनां सावण्र्यं स्यादेव । नासिकास्थानाधिक्येऽपितदन्यूनस्थानकत्वात्तेषामितिविद्वाँल्लिखतीट॑त्यादीष्टं सिध्यति । वर्गाद्यानां तु नासिकास्थानाऽभावेन न्यूनस्थानकत्वात्पञ्चमेन च सावण्र्याभावेऽपि न क्षतिरिति ज्ञापकाश्रयणं विनैवेष्टसिद्धिरिति वाच्यं,हे गौरि एही॑त्यादौ सवर्णदीर्घापत्तेः ।इकोऽसवर्ण॑ इति शाकलप्रकृतिभावानापत्तेश्च । इकारान्यूनस्थानकत्वेन तत्सवर्णत्वादेकारस्य ।स्वराणामूष्माणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव चे॑ति वचनात्प्रयत्नभेदेन सावण्र्याऽभावमभ्युपगम्योक्तानिष्टवारणेऽपितद्वस्तु॑तदस्त्र॑मित्यत्रतोर्ली॑ति परसवर्णविधिना दकारस्य वकारापंत्तेः,वकारस्य ओष्ठस्थानादिक्येऽपि दन्तस्थानसाम्येन लकाराऽन्यूनस्थानकत्वात् । यदि तुवकारस्य दन्तोष्ठ॑मिति समाहारनिर्देशादोष्ठस्थान (दन्तस्थान)भिन्नमेव दन्तोष्ठस्थानमिति वकारस्य लकारसावण्र्याभावात्तद्वस्त्वित्यादौ नातिप्रसङ्ग इति ब्राऊषे तर्हिलुग्वा दुहे॑त्यादिना दन्त्ये तङि विधीयमानो रक्सस्तस्य लुक्-॒अदुह्वही॑त्यत्र न स्यात्, किंतुअदुग्धे॑त्यादावेव स्यात् । तथापिपूर्तः॑पिपुरती॑त्यादौ विधीयमानम्उदोष्ठयपूर्वस्ये॑त्युत्वंसुस्वूर्षती॑त्यादौ न स्यादुक्तरीत्या वकारस्यौष्ठत्वाऽभावात् । न च वस्योष्ठत्वेदन्त्यत्वेच सतिसेक्सृप् इति षोपदेशलक्षणे स्विदादीनां पृथग्ग्रहणं व्यर्थं स्यात्तेषामपि दन्त्यान्तसादित्वादिति भ्रमितव्यम्;दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपी॑त्यादेर्मूल एव वक्ष्यमाणत्वात् । ये तु पाणिनिशिक्षायां यमानुस्वारयोरेव नासिकास्थानत्वकथनादन्येषां स्थानं नासिका न भवति, किं त्वनुनासिकत्वं गुण एव । नासिकाव्यापारेणोच्चार्यमाणत्वमात्रेण नासिकास्थानत्वकथने त्वकारादीनामप्युक्तरीत्या नासिकास्थानमिति स्थाननिरूपणे तेषां तदकथान्न्यूनतेत्यादि वदन्ति । तेषामत्रोक्तज्ञापकाश्रयणं विनैवेष्टसिद्धिः । अन्ये त्वकारादीना नासिकया सर्वदाऽनुच्चारणादनुनासिकत्वं गुणः,सत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षितत्वात् । ञमङणनानां त्वनुनासिकत्वं नापैति, सर्वदैव तयोच्चारणादिति न गुणः, किन्तु यमानुस्वारयोरिव स्थानमेव नासिकेति स्थानानिरूपणेञमङणनाना नासिका चे॑त्युक्तं नत्वकारादीनां । नासिका चेति । यत्तूक्तं तुल्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां तद्वस्त्वित्यादौतोर्ली॑ति दकारस्य वकारप्रसङ्ग इति तदापाततः ।तोर्ली॑त्यत्र लकारद्वयनिर्देश इति स्वीकृत्य लकाररूपे लकारे परे परसवर्ण इति व्याख्यायामुक्तदोषाऽप्रसक्तेरित्याहुः॥

Padamanjari

प्रश्नः, विश्न इति ।’यजयाच’ इत्यादिना नङ्,’च्छवोः शूडनुनासिके च’ इति च्छकारस्य शकारः ।’सर्वे विधयश्च्छन्दसि विकल्प्यन्ते’ इति तैतिरीयके नायं प्रतिषेधो भवति - अयोऽश्ञाति । तत्रापि काठके भवत्येव - ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिघाय । स्वाध्यायब्राह्मणे च भवतीति सकलं भद्रमश्नुते ॥

Nyaas

विश्नः, प्रश्नः इति। विच्छ गतौ (धातुपाठः-1423) प्रच्छ ज्ञीप्सायाम् (धातुपाठः-1413), पूर्ववन्नङ्, च्छ्वोः शूडनुनासिके च (6.4.19) इति च्छकारस्य शकारः। यद्यपि प्रश्ने चासन्नकाले (3.2.117) इति निपतनादेव शात्परस्य तदर्गस्य चुत्वं न भवतीत्यैषोऽर्थो लभ्यते, तथापि मन्दधियां प्रतिपत्तिगौरवपरीहारार्थमिदमारभ्यते। अथ वा`अवाधकान्यपि निपातनानि भवन्ति` (पु।प।वृ।19) इत्युक्तम्। यद्येतन्नारभ्यते, प्रश्ञः, विश्ञ इत्यपि रूपं सम्भाव्येत॥

Prakriyasarvasvam

शात् परस्य स्तोश्चुत्वं न । प्रश्नाति । वाक् ईड्यः । चित् रूपः ।

Sarala

तोः षि (८.४.४३) इत्यतः “तोः” इति, न पदान्ताट्टोरनाम् (८.४.४२) इत्यतः “न” इति चानुवर्त्तते । तत्र प्राप्तस्य चुत्वस्य निषेधायाह - चुत्वमितिविश्न इत्यत्र “विच्छगतौ” इति धातोः यजयाचयतविच्छप्रच्छरक्षो नङ् (३.३.९०) इति भावे नङि च्छ्वोः शूडनुनासिके च (६.४.१९) इति शादेशः । एवं प्रश्न इत्यत्रापि ॥

Sudha

विश्न इति । “विश्-न”, “प्रश्-न” इत्यत्र पूर्वसूत्रेण नकारस्य श्चुत्वे प्राप्ते शात् (8.4.44) इत्यनेन शात्परस्य तवर्गस्य — न-इत्यस्य — श्चुत्वं निषिध्यते । तेनात्र “न्-” इत्यस्य न “ञ्-” इत्यादेश इति भावः ॥