84044: शात् =========== **Padacheda:** शात् | S | 5 | 1 | Sutrartha --------- **शकारात् परस्य तवर्गीयवर्णस्य श्चुत्वम् न भवति ।** शकारात् परः विद्यमानस्य तवर्गीयवर्णस्य **स्तोः श्चुना श्चुः** (8.4.41) इत्यनेन प्राप्तम् श्चुत्वम् न भवति — इति प्रकृतसूत्रस्य आशयः । वस्तुतस्तु पदान्तशकारस्य **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इति षत्वं भवति । अपदान्तशकारस्य अपि झलि परे (अतः तकारथकारदकारधकारेषु परेषु) **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः** (8.2.36) इत्यनेनैव षत्वम् एव विधीयते । अतः अत्र केवलम् अपदान्तशकारस्य नकारे परे ष्टुत्वनिषेधस्य उदाहरणानि विद्यन्ते । यथा — 1. "(प्रछँ (ज्ञीप्सायाम्)" धातोः "प्रश्न" इति रूपस्य सिद्धौ प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति — .. code-block:: text प्रछँ (ज्ञीप्सायाम्, तुदादिः (6.0149)) → प्रछ् + नङ् [**यजयाचयतविच्छप्रच्छरक्षो नङ्** (3.3.90) इति नङ्-प्रत्ययः] → प्र तुक् छ् + नङ् [**छे च** (6.1.73) इति तुगागमः] → प्र श् + न [**च्छ्वोः शूडनुनासिके च** (6.4.19) इति त्छ्-इत्यस्य नकारादेशः] → प्रश्न [**श्चुना श्चुः** (8.4.40) इति श्चुत्वे प्राप्ते **शात्** (8.4.44) इति निषेधः ] एवमेव 'विच्छ् + नङ् = विश्न' इत्यपि रूपं सिद्ध्यति । 2. "अश् (भोजने)" धातोः श्ना-विकरणप्रत्यये परे प्रकृतसूत्रेण श्चुत्वस्य निषेधः भवति — .. code-block:: text अश् (भोजने, क्र्यादिः, (9.59)) → अश् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → अश् + तिप् [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अश् + श्ना + ति [**क्र्यादिभ्यः श्ना** (3.1.81) इति श्नाप्रत्ययः] → अश्नाति [**स्तोः श्चुना श्चुः** (8.4.40) इत्यनेेन शकारात् परस्य नकारस्य श्चुत्वे प्राप्ते **शात्** (8.4.44) इति तत् निषिध्यते ।] Sutrartha (English) ------------------- A तवर्गीय letter following a शकार does not undergo श्चुत्वम्. Vasu English Summary -------------------- In the room of तु there is not a palatal substitute, when श् precedes. Vasu English Translation ------------------------ In the room of तु there is not a palatal substitute, when श् precedes. The words न and तोः are understood here. This is an exception to (8.4.40). Thus, प्रच्छ + न (3.3.90) = प्रश् + न (6.4.19) = प्रश्नः, विश्नः &c. Kashika ------- तोरिति वर्तते। शकारादुत्तरस्य तवर्गस्य यदुक्तं तद् न भवति। प्रश्नः। विश्नः॥ Siddhanta Kaumudi ----------------- शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥ Laghu Siddhanta Kaumudi ----------------------- शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥ Balamanorama ------------ **शात्** - शात् । न पदान्तादिति पूर्वसूत्रात्ने॑त्यनुवर्तते ।स्तोःश्चुना श्चु॑रित्यतःतो॑रिति ,चु॑रिति चानुवर्तते । नतु सकारः शकारश्च ।शा॑दिति दिग्योगे पञ्चमी,परस्ये॑त्यध्याहार्यन्तदाह — शात्परस्येत्यादिना । विश्न इति । विच्छ गतौ ।यजयाचयतविच्छप्रच्छरक्षो नङ् इति नङ् । छ्वोःशूठ् इति छस्य शः । ङित्त्वान्न गुणः । अत्र शकारयोगात्तवर्गीयनकारस्य श्चुत्वेन ञकारे प्राप्ते निषेधः । पूर्वसूत्रे 'श्चुना योगे' इत्यत्रापि यथासङ्शख्याश्रयणे तु इह तवक्दीयस्य नकारस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थः स्यात् । एवंचाऽस्मादेव निषेधात्पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासंख्याश्रयणमिति विज्ञायते । प्रश्न इति ।प्रच्छ ज्ञीप्सायाम् । पूर्वन्नङादि । अत्रग्राहिज्ये॑ति संप्रसारणं न,प्रश्ने चासन्नकाले॑ इत्यादिनिर्देशात् । अत्र वर्गपञ्चमानां नासिकास्थानाधिक्ये ।ञपि तत्तद्वर्गीयैरस्ति सावण्र्यमिति तुल्यास्यसूत्रेऽवोचाम । Tattvabodhini ------------- **शात्** - शात् ।ने॑तितो॑रिति चानुवर्तते तदाह-तवर्गस्येत्यादि ।जश्त्व॑-मित्यादिव्याख्यातृनिर्देशे निःसन्दिग्धत्वेन बोधनायवश्चे॑ति षत्वं जश्त्वं च न कृतं,तथा श्चुत्वमपि न कृतमिति परिहारसम्भवाद्वर्गान्त्यमेवोदाहरति-विश्नः प्रश्न इति ।विच्छ गतौ॑,प्रच्छ ज्ञाप्सायाम् ।यजयाचे॑त्यादिनानङ् ।छ्वोः शू॑डिति छस्य शत्वम् । नङो ङित्वाद्गुणाभावः । प्रच्छेस्तुप्रश्ने चासन्ने॑ति निर्देशात्संप्रसारणाऽभावः । ननु ञमङणनाना नासिकास्थानाधिक्याद्वर्गेष्वाद्यैश्चतुर्भिः सह तुल्यस्थानत्वाभावेन सावण्र्याऽभावात्स्तोः श्चुने॑तितु॑ शब्देन नकारो न गृह्रते किं तु स्ववर्गाद्यश्चत्वार एवेति विश्न प्रश्न इत्यत्र श्चुत्वाऽप्रसक्तेः किमनेन निषेधेनेति चेदत्राहुः,-॒शा॑दिति निषेधाल्लिङ्गादेवतुल्यास्यप्रयत्न॑मित्यत्रास्यग्रहणेन नासिकास्थानभिन्नं ताल्वादिस्थानं गृह्रते, तत्स्थानं तु तुल्यमेवेतितु॑ शब्देन पञ्चमस्यापि ग्रहणात्स्चुत्वप्रसक्तौ निषेधोऽयमावश्यकः । एवंचतोर्ली॑तितु॑ शब्देन नकारस्यापि ग्रहणाद्विद्वाँल्लिखतीत्यादि सिध्यति । नच निमित्तकार्यिणोर्यथासङ्ख्यनिरासज्ञापकमित्युक्तत्वात्तेनैव चार्थवत्त्वे कथमुक्तार्थे ज्ञापकं भवेदिति वाच्यं;तु॑ शब्देन नकारग्रहणे सिद्धे हि यथासङ्ख्यनिवृत्तिरतेन ज्ञापनीयेत्युभयज्ञापेनबाधकाऽभावात् । नापितुल्यास्ये॑त्यत्र यत्किञ्चित्स्थानतुल्यत्वविवक्षायां वर्गेषु पञ्चापि वर्णाः परस्परं सवर्णा भवेयुरित्युक्तोदाहरणे श्चुत्वप्रसक्तौशा॑दित्यारम्भ आवश्यक इत्येतज्ज्ञापकाश्रयणं किमर्थमिति वाच्यं, तथाहि सति ञमङणनानां परस्परसावण्र्यपत्त्यात्व नयसी॑त्यादौअनुस्वारस्य ययि परसवर्णः॒॑वा पदान्तस्ये॑त्यनुस्वारस्य ञादयोऽपि स्युः । ताल्वादिस्थानासाम्याऽभावेऽपि नासिकारूपस्य यत्किचित्स्थानस्य तुल्यत्वात् । नापि तुस्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां ञादीनां परत्परसावण्र्यं न भवेत्, तेषां नासिकास्थानसाम्येऽपि ताल्वादिस्थानसाम्याऽभावेन न्यूनस्थानकत्वात् । ततश्चत्वं नयसी॑त्यादिषु नातिप्रसङ्गः । स्ववर्गाद्यैः सह तु ञादीनां सावण्र्यं स्यादेव । नासिकास्थानाधिक्येऽपितदन्यूनस्थानकत्वात्तेषामितिविद्वाँल्लिखतीट॑त्यादीष्टं सिध्यति । वर्गाद्यानां तु नासिकास्थानाऽभावेन न्यूनस्थानकत्वात्पञ्चमेन च सावण्र्याभावेऽपि न क्षतिरिति ज्ञापकाश्रयणं विनैवेष्टसिद्धिरिति वाच्यं,हे गौरि एही॑त्यादौ सवर्णदीर्घापत्तेः ।इकोऽसवर्ण॑ इति शाकलप्रकृतिभावानापत्तेश्च । इकारान्यूनस्थानकत्वेन तत्सवर्णत्वादेकारस्य ।स्वराणामूष्माणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव चे॑ति वचनात्प्रयत्नभेदेन सावण्र्याऽभावमभ्युपगम्योक्तानिष्टवारणेऽपितद्वस्तु॑तदस्त्र॑मित्यत्रतोर्ली॑ति परसवर्णविधिना दकारस्य वकारापंत्तेः,वकारस्य ओष्ठस्थानादिक्येऽपि दन्तस्थानसाम्येन लकाराऽन्यूनस्थानकत्वात् । यदि तुवकारस्य दन्तोष्ठ॑मिति समाहारनिर्देशादोष्ठस्थान (दन्तस्थान)भिन्नमेव दन्तोष्ठस्थानमिति वकारस्य लकारसावण्र्याभावात्तद्वस्त्वित्यादौ नातिप्रसङ्ग इति ब्राऊषे तर्हिलुग्वा दुहे॑त्यादिना दन्त्ये तङि विधीयमानो रक्सस्तस्य लुक्-॒अदुह्वही॑त्यत्र न स्यात्, किंतुअदुग्धे॑त्यादावेव स्यात् । तथापिपूर्तः॑पिपुरती॑त्यादौ विधीयमानम्उदोष्ठयपूर्वस्ये॑त्युत्वंसुस्वूर्षती॑त्यादौ न स्यादुक्तरीत्या वकारस्यौष्ठत्वाऽभावात् । न च वस्योष्ठत्वेदन्त्यत्वेच सतिसेक्सृप् इति षोपदेशलक्षणे स्विदादीनां पृथग्ग्रहणं व्यर्थं स्यात्तेषामपि दन्त्यान्तसादित्वादिति भ्रमितव्यम्;दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपी॑त्यादेर्मूल एव वक्ष्यमाणत्वात् । ये तु पाणिनिशिक्षायां यमानुस्वारयोरेव नासिकास्थानत्वकथनादन्येषां स्थानं नासिका न भवति, किं त्वनुनासिकत्वं गुण एव । नासिकाव्यापारेणोच्चार्यमाणत्वमात्रेण नासिकास्थानत्वकथने त्वकारादीनामप्युक्तरीत्या नासिकास्थानमिति स्थाननिरूपणे तेषां तदकथान्न्यूनतेत्यादि वदन्ति । तेषामत्रोक्तज्ञापकाश्रयणं विनैवेष्टसिद्धिः । अन्ये त्वकारादीना नासिकया सर्वदाऽनुच्चारणादनुनासिकत्वं गुणः,सत्त्वे निविशतेऽपैती॑त्यादिलक्षणलक्षितत्वात् । ञमङणनानां त्वनुनासिकत्वं नापैति, सर्वदैव तयोच्चारणादिति न गुणः, किन्तु यमानुस्वारयोरिव स्थानमेव नासिकेति स्थानानिरूपणेञमङणनाना नासिका चे॑त्युक्तं नत्वकारादीनां । नासिका चेति । यत्तूक्तं तुल्यास्यत्वमन्यूनास्यत्वमिति व्याख्यायां तद्वस्त्वित्यादौतोर्ली॑ति दकारस्य वकारप्रसङ्ग इति तदापाततः ।तोर्ली॑त्यत्र लकारद्वयनिर्देश इति स्वीकृत्य लकाररूपे लकारे परे परसवर्ण इति व्याख्यायामुक्तदोषाऽप्रसक्तेरित्याहुः॥ Padamanjari ----------- प्रश्नः, विश्न इति ।'यजयाच' इत्यादिना नङ्,'च्छवोः शूडनुनासिके च' इति च्छकारस्य शकारः ।'सर्वे विधयश्च्छन्दसि विकल्प्यन्ते' इति तैतिरीयके नायं प्रतिषेधो भवति - अयोऽश्ञाति । तत्रापि काठके भवत्येव - ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिघाय । स्वाध्यायब्राह्मणे च भवतीति सकलं भद्रमश्नुते ॥ Nyaas ----- `विश्नः, प्रश्नः` इति। `विच्छ गतौ` (धातुपाठः-1423) `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413), पूर्ववन्नङ्, **च्छ्वोः शूडनुनासिके च** (6.4.19) इति च्छकारस्य शकारः। यद्यपि **प्रश्ने चासन्नकाले** (3.2.117) इति निपतनादेव शात्परस्य तदर्गस्य चुत्वं न भवतीत्यैषोऽर्थो लभ्यते, तथापि मन्दधियां प्रतिपत्तिगौरवपरीहारार्थमिदमारभ्यते। अथ वा`अवाधकान्यपि निपातनानि भवन्ति` (पु।प।वृ।19) इत्युक्तम्। यद्येतन्नारभ्यते, प्रश्ञः, विश्ञ इत्यपि रूपं सम्भाव्येत॥ Prakriyasarvasvam ----------------- शात् परस्य स्तोश्चुत्वं न । प्रश्नाति । वाक् ईड्यः । चित् रूपः । Sarala ------ **तोः षि** (८.४.४३) इत्यतः "तोः" इति, **न पदान्ताट्टोरनाम्** (८.४.४२) इत्यतः "न" इति चानुवर्त्तते । तत्र प्राप्तस्य चुत्वस्य निषेधायाह - **चुत्वमिति** । **विश्न** इत्यत्र "विच्छगतौ" इति धातोः **यजयाचयतविच्छप्रच्छरक्षो नङ्** (३.३.९०) इति भावे नङि **च्छ्वोः शूडनुनासिके च** (६.४.१९) इति शादेशः । एवं **प्रश्न** इत्यत्रापि ॥ Sudha ----- **विश्न इति ।** "विश्-न", "प्रश्-न" इत्यत्र पूर्वसूत्रेण नकारस्य श्चुत्वे प्राप्ते **शात्** (8.4.44) इत्यनेन शात्परस्य तवर्गस्य — न-इत्यस्य — श्चुत्वं निषिध्यते । तेनात्र "न्-" इत्यस्य न "ञ्-" इत्यादेश इति भावः ॥