84035: षात् पदान्तात्

Padacheda: षात् | S | 5 | 1 |

पदान्तात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

After a ष् final in a पद , the न् is not changed to ण।

Vasu English Translation

After a ष् final in a पद , the न् is not changed to ण। Thus निष्पानम्, दुष्पानम्; the visarga is changed to ष् here by (8.3.41). The rule (8.4.29) is debarred. सर्पिष्पानम् (is a genitive compound contra (2.2.14)). So also यजुष्पानम् (2.1.32). The ष is in these two by (8.3.45), and (8.4.10) is debarred.

Why do we say “षात् after a ष्?” Observe निर्णयः ॥

Why do we say पदान्तात् ‘final in a Pada’? Observe कुष्णाति, पुष्णाति ॥ The word पदान्त is equivalent to पदे अन्त or Locative Tatpurusha; and does not mean final of a Pada. Therefore the rule does not apply here. सुसर्पिष्केण (instrumental singular) सुयजुष्केण ॥ Here the क is added by (5.4.154). शोभनं सर्पिरस्य = सुसर्पिष्क (a Bahuvrihi). The ष is by (8.3.39). Before the affix क, the word सुसर्पिस् is a Pada (1.4. 17), and thus स् (ष्) is final of a Pada: but it is not final of a preceding member followed by another Pada. The rule, in fact, applies to compounds, the ष् being final in the first term.

Bhashya

षात्पदान्तात् ॥ षात्पदादिपरवचनम्॥ षात्पदादिपरग्रहणं कर्त्तव्यम्। इहैव यथा स्यात्-निष्पानं दुष्पानम्। इह मा भूत्-सुसर्पिष्केण(2) सयजुष्केण(3)॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। नैवं विज्ञायते-पदस्यान्तः पदान्तः, पदान्तादिति॥ कथं तर्हि?॥ पदे अन्तः पदान्तः, पदान्तादिति॥

Kashika

षकारात् पदान्तादुत्तरस्य नकारस्य णकारादेशो न भवति। निष्पानम्। दुष्पानम्। सर्पिष्पानम्। यजुष्पानम्। षादिति किम्? निर्णयः। पदान्तादिति किम्? कुष्णाति। पुष्णाति। पदे अन्तः पदान्त इति सप्तमीसमासोऽयम्, तेनेह न भवति — सुसर्पिष्केण। सुयजुष्केण। शेषाद् विभाषा (५.४.१५४) इति कप्॥

Siddhanta Kaumudi

नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥

Padamanjari

निष्पानम्, दुष्पानमिति । ठिदुदुपधस्य चऽ इति विसर्जनीयस्य षत्वम्, अत्र’कृत्यचः’ इति प्रसङ्गः । सर्पिष्पानमिति । कर्मणि षष्ठयाः समासः । यजुष्पानमिति ।’कर्तृकरणे कृता बहुलम्’ इति समासः । उभयत्रापि’नित्यं समासे’ नुतरपदस्थस्यऽ इति षत्वम्, अत्र’पानं देशे’ ‘वा भावकरणयोः’ इति प्राप्तिः । पदे अन्त इति ।’सप्तमी’ इति योगविभागात्समासः । सुसर्पिष्केणेति । शोभनं सर्पिरस्येति बहुव्रीहिः, कप्, ठिणः षःऽ इति षत्वम् । नायं पदे परतः पूर्वमवस्थितस्यान्तो भवति । पदस्य त्वन्तो भवति;’स्वादिषु’ इति पदसंज्ञाया विधानात्, ततश्च षष्ठीसमासेऽत्रापि प्राप्नोति । कथं पुनर्ज्ञायते - सप्तमीसमासोऽयमिति ? अन्तग्रहणात्; अन्यथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव षकारन्तात् पदादिति लभ्यते ॥

Nyaas

निष्पानम्, दुष्पानम् इति। इदुदुपधसय (8.3.41) इति विसर्जनीयस्य षत्वम्। इह कृत्यचः (8.4.29) इत्यनेन प्राप्तिः। सर्पिष्पानम्, यजुष्पानम् इति। षष्ठीसमासः। इसुसोः सामर्थ्ये (8.3.44) इत्यनुवर्तमाने नित्यं समासे (8.3.45) इत्यादिना विसर्जनीयस्य षत्वम्। अत्र वा भावकरणयोः (8.4.10) इति प्राप्तिः। पदान्तात् इति षष्ठीसमासोऽयमिति मन्यमानो यो देशयेत् -अथेह णत्वप्रतिषेधः कस्मान्न भवति -सुसर्पिष्केणेति, अत्र पदस्यान्तः षकार इति? तं प्रत्याह -पदे अन्तः इत्यादि। षष्ठीसमासे हि सति णत्वस्य प्रतिषेधः स्यात्, न चायं षष्ठीसमासः, किं तर्हि/ सप्तमी (2.1.40) इति योगविभागात्? समासः -पदे परभूतेऽन्तः पदान्त इति। न चात्र पदे परभूते षकारोऽन्तः; कशब्दस्यापदसंज्ञकप्वात्। तेनेह न भवति णत्वप्रतिषेधः। शोभनं सर्पिरस्येति बहुव्रीहिः, शेषाद्विभाषा (5.4.154) इति कप्॥

Prakriyasarvasvam

पदान्तात् षात् परस्य णत्वं न । सर्पिष्पानम् । दुष्पानः कषायः । ‘वा भावकरणयोः’ (८-४-१०) इति ‘कृत्यच’ (८-४-२९) इति च प्राप्तिः । षकारस्य पदात् पूर्वत्व एव निषेधः । तेन सर्पिष्केणेत्यत्र प्रत्ययात् पूर्वत्वान्न । <karika>इत्थं समासखण्डोऽयं मिळत्परिकरो गतः । सिद्धं च प्रातिपदिकं कृत्तद्धितसमासजम् ॥ ४४४ ॥ राज्ञो भार्या राजभार्येत्यर्थभेदोऽस्ति किञ्चन । वाक्ये व्यपेक्षा सामर्थ्यं वृत्तौ त्वैकार्थ्यमेव तत् ॥ ४४५ ॥ ऋद्धस्य राजपुरुषोऽपि च राजपुत्रो भार्या च राजतनयः सचिवस्य चेति । नास्त्येव वृत्तिषु मिथोऽपि हि लक्षकत्वा- दैकार्थ्यमेव पदयोर्जलपांसुरीत्या ॥ ४४६ ॥ नन्दस्य पुत्रप्रणयी जनोऽयमित्यादिसंबन्धिपदे सुतादौ । स्वार्थाभिपूर्तिः प्रतियोगिनैवेत्यात्मार्थवत् तद्युतताप्यदोषः ॥ ४४७ ॥ स्यात् सर्वनाम्नानुसन्धिर्वृत्तिच्छन्नस्य खल्वपि । आदिराजयशो नैव तेषां नाशे विनश्यति ॥ ४४८ ॥ पूर्णश्चन्द्र इवेति तु विशेषणासत्तिरिवसमासे या । सा खलु सुब्लोपाद्यैस्तद्वृत्तेर्वाक्यतुल्यतावगमात् ॥ ४४९ ॥ सामर्थ्यादुपमानेनैवास्य नित्यसमासगीः । न तद्विशेषणैः शब्दैर्नवीनमिव पङ्कजम् ॥ ४५० ॥ नवीनं पङ्कजमिवेत्यर्थो वाच्यो हि सर्वथा । पूर्वैंकपद्ये तन्न स्यात् पृथगेव पदं ततः ॥ ४५१ ॥ महिमा त्वीदृशस्थानेष्विवशब्दं निनिन्द, तत् । युक्तं नित्यसमासत्वात् प्रयोगाः किन्तु दुस्त्यजाः ॥ ४५२ ॥</karika> <karika>इवशब्‍दो लोक एवं यजुषि व्‍यस्‍त एव सः । समस्‍त एवर्क्षु चेति प्रातिशाख्‍यैर्विविच्‍यताम् ॥ इति ॥ ४५३ ॥</karika> <karika>कृत्सुपपदगतयोस्तु समासक्रम उच्यते । विग्रहे चात्रोपपदं धातौ स्वस्वसुपा वदेत् ॥ ४५४ ॥</karika> <karika>प्रादियोगे स च स्वन्तो मध्ये वाच्योऽथ कृद्विधिः । ततो गतेः समासः स्यात् पश्चादुपपदस्य च ॥ ४५५ ॥</karika> <karika>तयोः सुपेत्यसम्बन्धात् समासौ प्राक् तु कृत्सुपः । सप्तम्योपपदे प्रादौ समासौ द्विः स एव तु ॥ ४५६ ॥</karika> <karika>अथान्नाभ्यवहार्यादौ गत्योः सह समर्थयोः । स्वन्तयोः सुकृदेवार्थात् समासः स्याद् द्विरन्यथा ॥ ४५७ ॥</karika> <karika>इति । महासंज्ञा इहान्वर्थाः सर्वनामपदं यथा । सर्वान्ययत्तदाद्या हि सर्वार्थस्यापि वाचकाः ॥ ४५८ ॥</karika> <karika>सर्वनामस्थानसंज्ञा कृत्स्नशब्दस्थितेरिह । शिसुटोः खल्वलोपादिर्न दाम्ना पपुषेतिवत् ॥ ४५९ ॥</karika> <karika>पूर्वाचार्योपहासार्थां तां वैफल्याद्वरोऽब्रवीत् । कर्तरि क्विपि कृच्छब्दो येषां मध्ये हि दृश्यते ॥ ४६० ॥</karika> <karika>छत्रिन््यायात् कृतस्ते स्युरेवं कृत्यसदाख्ययोः । निष्ठा परिसमाप्तिः स्यात् सा च भूतार्थयोर्द्वयोः ॥ ४६१ ॥</karika> <karika>अर्थः स्यादित्यभेदेन निष्ठाख्यौ प्रत्ययावपि । तस्मै हितमिति ह्यर्थो यन्मध्ये ते च तद्धिताः ॥ ४६२ ॥</karika> <karika>तस्य राजन्यपत्यार्थतुल्यप्रत्ययशासनात् । तदर्थवन्तस्तद्राजा अपत्यप्रत्यया अपि ॥ ४६३ ॥</karika> <karika>अव्ययीभाव इत्यत्र भवतेः कर्तरीह णः । स्यात् तस्य पुरुषस्तत्पुरुषः षष्ठीसमासतः ॥ ४६४ ॥</karika> <karika>तेन तज्जातिजाः सर्वे कृद्वत् तत्पुरुषा मताः । द्वयोर्गवोर्भवार्दिर्हि द्विगुर्यत्रैष स द्विगुः ॥ ४६५ ॥</karika> बहवो व्रीहयोऽस्येति यत्र स्यात् स तथोच्यते । द्वयोर्हि पदयोरेकद्रव्यवृत्याखिलं पदम् ॥ <karika>क्रियासम्बन्धि यत्र स्यात् स शान्तः कर्मधारयः ॥ ४६६ ॥</karika> वृत्तौ नानाप्रमादा विवृतिषु कथिता माधवाद्यैश्च सर्व- व्याख्यास्वाख्यायि दोषो बहुलमवटितं प्रक्रियाकाव्यपङ्क्तौ । नामव्याख्यास्वनन्तं किल तदिह महाकोविदैर्प्यवर्ज्या विभ्रान्तिश्चेत् कृशाभ्यासिनि कृशधिषणे मादृशे किं नु वाच्यम् ॥ अथ स्त्रीप्रत्ययान्तानामपि विभक्तिप्रकृतित्वात् तेऽपि कथ्यन्ते ॥

Sutra Prayogas

  • दुष्पानः (भट्टिकाव्यम्): षात्पदान्तात् इति णत्वस्य प्रतिषेधः ।