84034: न भाभूपूकमिगमिप्यायीवेपाम्¶
Padacheda: न | S | 0 | 0 |
भा-भू-पू-कमि-गमि-प्यायी-वेपाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The न of a कृत् affix is not changed to ण , though preceded by an उपसर्ग having in it a cause of change, when the affix is added to the following verbs - भा ‘to shine’, भू ‘to be’, पू ‘to purify’, कमि ‘to be brilliant’, गमि ‘to go’, प्यायि ‘to increase’, वेप ‘to shake’.
Vasu English Translation¶
The न of a कृत् affix is not changed to ण , though preceded by an उपसर्ग having in it a cause of change, when the affix is added to the following verbs - भा ‘to shine’, भू ‘to be’, पू ‘to purify’, कमि ‘to be brilliant’, गमि ‘to go’, प्यायि ‘to increase’, वेप ‘to shake’. This rule is an exception to (8.4.29). Thus :-
भा - प्रभानम्, - परिभानम्
भू - प्रभवनम्, - परिभवनम्
पू - प्रपवनम्, - परिपवनम् ॥
Ishti:-The verb पूञ् is to be taken and not the verb पूङ् ॥ In the case of the latter the change is obligatory, as, प्रपवणं सोमस्य ॥
कमि - प्रकमनम् - परिकमनम् ॥
प्यायि - प्रप्यायनम्, - परिप्यायनम् ॥
गमि - प्रगमनम् - परिगमनम् ॥
वेप् - प्रवेपनम् - परिवेपनम् ॥
Vart:- The above roots, even when in the Causative, do not change the न of their krit-affix. As प्रभापनम्, परिभापनम् ॥
Bhashya¶
न भाभूपूकमिगगमिप्यायीवेपाम् भादिषु पूञ्ञ्ग्रहणम् ॥ भादिषु पूञ्ञ्ग्रहणं कर्त्तव्यम्। इह माभूत् -प्रपवणं सोमस्येति॥ ण्यन्तस्य चोपसङ्ख्यानम्॥ ण्यन्तस्य चोपसङ्ख्यानं कर्त्तव्यम्॥ किं पूञ्ञ् एव ?॥ नेत्याह ॥ अविशेषेण ॥ प्रभापनं परिभापनम्॥
Kashika¶
भा भू पू कमि गमि प्यायी वेप इत्येतेषामुपसर्गस्थाद् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति। भा — प्रभानम्। परिभानम्। भू — प्रभवनम्। परिभवनम्। पू — प्रपवनम्। परिपवनम्। पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम्। पूङो हि भवत्येव णत्वम् — प्रपवणं सोमस्येति। कमि — प्रकमनम्। परिकमनम्। गमि — प्रगमनम्। परिगमनम्। प्यायी — प्रप्यायनम्। परिप्यायनम्। वेप — प्रवेपनम्। परिवेपनम्॥ ण्यन्तानां भादीनामुपसंख्यानं कर्तव्यम्॥ प्रभापनम्। परिभापनम्॥
Siddhanta Kaumudi¶
एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥<!पूञ एवेह ग्रहणमिष्यते !> (वार्तिकम्) ॥ पूङस्तु प्रपवणीयः सोमः ।<!ण्यन्ताभादीनामुपसंख्यानम् !> (वार्तिकम्) ॥ प्रभापनीयम् ॥<!ख्शाञः शस्य यो वेत्युक्तम् !> (वार्तिकम्) ॥ णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥
Balamanorama¶
न भाभूपूकमिगमिप्यायीवेपाम् - न भाभू । प्रभानीयमिति । इह ‘कृत्यचः’ इति प्राप्तं णत्वं नेति भावः । णत्वप्रकरमोपरीति । इदंचक्षिङः ख्या॑ञिति सूत्रे भाष्ये स्पष्टम् । प्रख्यानीयमिति । इह यत्वस्याऽसिद्धतया शकारेण व्यवधानात् ‘कृत्यचः’ इति णत्वं नेति भावः ।
Tattvabodhini¶
न भाभूपूकमिगमिप्यायीवेपाम् - * ण्यन्तभादीनामुपसङ्ख्यानम् । ण्यन्तभादीनामिति । ण्यन्तस्य प्रकृत्यन्तरत्वादप्राप्ते वचनम् ।हेरचङी॑ति सूत्रे अचङीति पर्युदासेनप्रकृतिग्रहणे ण्यधिकस्यापि ग्रहण॑मिति ज्ञापनादेतत्सिद्धमिति केचिदाहुस्ततद्रभसात् । ज्ञापनं तु कुत्वमात्रविषयकमिति भाष्यादौ सिद्धान्तितत्वात् ।
Padamanjari¶
पूग्रहणेन पूञोग्रहणमेष्टव्यमिति । इष्टिरेवेयम् । ण्यन्तानां चेति । ण्यन्तस्याधात्वन्तरत्वान्न प्राप्नोतीति वचनम्, किञ्च ण्यन्तेष्वस्य प्रवृतौ पक्षेऽनुवाददोषप्रसङ्गः;’णेविभाषा’ इत्येव पक्षे निवृतेः सिद्धत्वात् ॥
Nyaas¶
पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम् इति। पूड्? पवने (धातुपाठः-966) इति भ्वादौ यः पठते तस्य ग्रहणं नेष्यते। तेन क्रैयादिकस्य चेष्यते। कथं पू इत्युच्यमाने पूञ एव ग्रहणं लभ्यते? कृत्यचः (8.4.29) इति कृति इति योगविभागात्। योपविभागादिष्टसिद्धिः (व्या।प्र।87) इति पूङ एव योगविभागेन णत्वं भवतीति। एवं योगविभागेन पूङः परस्य कृत्स्थस्य नकारस्य णत्वेऽसाधिते पारिशेष्यात्? पूञ एव ग्रहणं विज्ञायते। ण्यन्तानां च इत्यादि। ण्यन्तानां ग्रहँ शब्दान्तरत्वान्न प्राप्नोति। तस्मादुपसंख्यानं कर्तव्यमेवेति। तस्य प्रतिपादन मित्यर्थः। तत्रेदं प्रतिपादनम् -नेति योगविभागः कर्तव्यः, तेन ण्यन्तानामपि न भविष्यतीति। न चवं सति भादीनां ग्रहणमनर्थकं स्यात्; पूर्वयोगस्यासर्वविषयत्वज्ञापनात्। एवं ह्रतिप्रसङ्गः परिह्मतो भवति॥
Prakriyasarvasvam¶
एषामुपसर्गात् कृन्नस्य णत्वं न स्यात् । प्रभानम् । प्रभवनम् । प्रपवनम् । पूञ एव निषेधः । पूङस्तु प्रपवणीयः सोमः । प्रकमनम् । प्रगमनम् । प्रप्यायनम् । प्रवेपनस् । भादीनां ण्यन्तत्वेऽपि णत्वं न । प्रभापनम् । प्रभावानम् । प्रपावनमित्यादि ॥
Vartika¶
पूञ एवेह ग्रहणमिष्यते ।