84035: षात् पदान्तात्
=====================
**Padacheda:** षात् | S | 5 | 1 |
पदान्तात् | S | 5 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
After a ष् final in a पद , the न् is not changed to ण।
Vasu English Translation
------------------------
After a ष् final in a पद , the न् is not changed to ण।
Thus निष्पानम्, दुष्पानम्; the *visarga* is changed to ष् here by (8.3.41). The rule (8.4.29) is debarred. सर्पिष्पानम् (is a genitive compound contra (2.2.14)). So also यजुष्पानम् (2.1.32). The ष is in these two by (8.3.45), and (8.4.10) is debarred.
Why do we say "षात् after a ष्?" Observe निर्णयः ॥
Why do we say पदान्तात् 'final in a *Pada*'? Observe कुष्णाति, पुष्णाति ॥ The word पदान्त is equivalent to पदे अन्त or Locative *Tatpurusha*; and does not mean final of a *Pada*. Therefore the rule does not apply here. सुसर्पिष्केण (instrumental singular) सुयजुष्केण ॥ Here the क is added by (5.4.154). शोभनं सर्पिरस्य = सुसर्पिष्क (a *Bahuvrihi*). The ष is by (8.3.39). Before the affix क, the word सुसर्पिस् is a *Pada* (1.4. 17), and thus स् (ष्) is final of a *Pada*: but it is not final of a preceding member followed by another *Pada*. The rule, in fact, applies to compounds, the ष् being final in the first term.
Bhashya
-------
षात्पदान्तात् ॥ षात्पदादिपरवचनम्॥ षात्पदादिपरग्रहणं कर्त्तव्यम्। इहैव यथा स्यात्-निष्पानं दुष्पानम्। इह मा भूत्-सुसर्पिष्केण(2) सयजुष्केण(3)॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। नैवं विज्ञायते-पदस्यान्तः पदान्तः, पदान्तादिति॥ कथं तर्हि?॥ पदे अन्तः पदान्तः, पदान्तादिति॥
Kashika
-------
षकारात् पदान्तादुत्तरस्य नकारस्य णकारादेशो न भवति। निष्पानम्। दुष्पानम्। सर्पिष्पानम्। यजुष्पानम्। षादिति किम्? निर्णयः। पदान्तादिति किम्? कुष्णाति। पुष्णाति। पदे अन्तः पदान्त इति सप्तमीसमासोऽयम्, तेनेह न भवति — सुसर्पिष्केण। सुयजुष्केण। **शेषाद् विभाषा** (५.४.१५४) इति कप्॥
Siddhanta Kaumudi
-----------------
नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥
Padamanjari
-----------
निष्पानम्, दुष्पानमिति । ठिदुदुपधस्य चऽ इति विसर्जनीयस्य षत्वम्, अत्र'कृत्यचः' इति प्रसङ्गः । सर्पिष्पानमिति । कर्मणि षष्ठयाः समासः । यजुष्पानमिति ।'कर्तृकरणे कृता बहुलम्' इति समासः । उभयत्रापि'नित्यं समासे' नुतरपदस्थस्यऽ इति षत्वम्, अत्र'पानं देशे' 'वा भावकरणयोः' इति प्राप्तिः । पदे अन्त इति ।'सप्तमी' इति योगविभागात्समासः । सुसर्पिष्केणेति । शोभनं सर्पिरस्येति बहुव्रीहिः, कप्, ठिणः षःऽ इति षत्वम् । नायं पदे परतः पूर्वमवस्थितस्यान्तो भवति । पदस्य त्वन्तो भवति;'स्वादिषु' इति पदसंज्ञाया विधानात्, ततश्च षष्ठीसमासेऽत्रापि प्राप्नोति । कथं पुनर्ज्ञायते - सप्तमीसमासोऽयमिति ? अन्तग्रहणात्; अन्यथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव षकारन्तात् पदादिति लभ्यते ॥
Nyaas
-----
`निष्पानम्, दुष्पानम्` इति। `इदुदुपधसय` (8.3.41) इति विसर्जनीयस्य षत्वम्। इह **कृत्यचः** (8.4.29) इत्यनेन प्राप्तिः। `सर्पिष्पानम्, यजुष्पानम्` इति। षष्ठीसमासः। **इसुसोः सामर्थ्ये** (8.3.44) इत्यनुवर्तमाने `नित्यं समासे` (8.3.45) इत्यादिना विसर्जनीयस्य षत्वम्। अत्र **वा भावकरणयोः** (8.4.10) इति प्राप्तिः। `पदान्तात्` इति षष्ठीसमासोऽयमिति मन्यमानो यो देशयेत् -अथेह णत्वप्रतिषेधः कस्मान्न भवति -सुसर्पिष्केणेति, अत्र पदस्यान्तः षकार इति? तं प्रत्याह -`पदे अन्तः` इत्यादि। षष्ठीसमासे हि सति णत्वस्य प्रतिषेधः स्यात्, न चायं षष्ठीसमासः, किं तर्हि/ `सप्तमी` (2.1.40) इति योगविभागात्? समासः -पदे परभूतेऽन्तः पदान्त इति। न चात्र पदे परभूते षकारोऽन्तः; कशब्दस्यापदसंज्ञकप्वात्। तेनेह न भवति णत्वप्रतिषेधः। शोभनं सर्पिरस्येति बहुव्रीहिः, **शेषाद्विभाषा** (5.4.154) इति कप्॥
Prakriyasarvasvam
-----------------
पदान्तात् षात् परस्य णत्वं न । सर्पिष्पानम् । दुष्पानः कषायः । ‘वा भावकरणयोः’ (८-४-१०) इति ‘कृत्यच’ (८-४-२९) इति च प्राप्तिः । षकारस्य पदात् पूर्वत्व एव निषेधः । तेन सर्पिष्केणेत्यत्र प्रत्ययात् पूर्वत्वान्न । इत्थं समासखण्डोऽयं मिळत्परिकरो गतः । सिद्धं च प्रातिपदिकं कृत्तद्धितसमासजम् ॥ ४४४ ॥ राज्ञो भार्या राजभार्येत्यर्थभेदोऽस्ति किञ्चन । वाक्ये व्यपेक्षा सामर्थ्यं वृत्तौ त्वैकार्थ्यमेव तत् ॥ ४४५ ॥ ऋद्धस्य राजपुरुषोऽपि च राजपुत्रो भार्या च राजतनयः सचिवस्य चेति । नास्त्येव वृत्तिषु मिथोऽपि हि लक्षकत्वा- दैकार्थ्यमेव पदयोर्जलपांसुरीत्या ॥ ४४६ ॥ नन्दस्य पुत्रप्रणयी जनोऽयमित्यादिसंबन्धिपदे सुतादौ । स्वार्थाभिपूर्तिः प्रतियोगिनैवेत्यात्मार्थवत् तद्युतताप्यदोषः ॥ ४४७ ॥ स्यात् सर्वनाम्नानुसन्धिर्वृत्तिच्छन्नस्य खल्वपि । आदिराजयशो नैव तेषां नाशे विनश्यति ॥ ४४८ ॥ पूर्णश्चन्द्र इवेति तु विशेषणासत्तिरिवसमासे या । सा खलु सुब्लोपाद्यैस्तद्वृत्तेर्वाक्यतुल्यतावगमात् ॥ ४४९ ॥ सामर्थ्यादुपमानेनैवास्य नित्यसमासगीः । न तद्विशेषणैः शब्दैर्नवीनमिव पङ्कजम् ॥ ४५० ॥ नवीनं पङ्कजमिवेत्यर्थो वाच्यो हि सर्वथा । पूर्वैंकपद्ये तन्न स्यात् पृथगेव पदं ततः ॥ ४५१ ॥ महिमा त्वीदृशस्थानेष्विवशब्दं निनिन्द, तत् । युक्तं नित्यसमासत्वात् प्रयोगाः किन्तु दुस्त्यजाः ॥ ४५२ ॥ इवशब्दो लोक एवं यजुषि व्यस्त एव सः । समस्त एवर्क्षु चेति प्रातिशाख्यैर्विविच्यताम् ॥ इति ॥ ४५३ ॥ कृत्सुपपदगतयोस्तु समासक्रम उच्यते । विग्रहे चात्रोपपदं धातौ स्वस्वसुपा वदेत् ॥ ४५४ ॥ प्रादियोगे स च स्वन्तो मध्ये वाच्योऽथ कृद्विधिः । ततो गतेः समासः स्यात् पश्चादुपपदस्य च ॥ ४५५ ॥ तयोः सुपेत्यसम्बन्धात् समासौ प्राक् तु कृत्सुपः । सप्तम्योपपदे प्रादौ समासौ द्विः स एव तु ॥ ४५६ ॥ अथान्नाभ्यवहार्यादौ गत्योः सह समर्थयोः । स्वन्तयोः सुकृदेवार्थात् समासः स्याद् द्विरन्यथा ॥ ४५७ ॥ इति । महासंज्ञा इहान्वर्थाः सर्वनामपदं यथा । सर्वान्ययत्तदाद्या हि सर्वार्थस्यापि वाचकाः ॥ ४५८ ॥ सर्वनामस्थानसंज्ञा कृत्स्नशब्दस्थितेरिह । शिसुटोः खल्वलोपादिर्न दाम्ना पपुषेतिवत् ॥ ४५९ ॥ पूर्वाचार्योपहासार्थां तां वैफल्याद्वरोऽब्रवीत् । कर्तरि क्विपि कृच्छब्दो येषां मध्ये हि दृश्यते ॥ ४६० ॥ छत्रिन््यायात् कृतस्ते स्युरेवं कृत्यसदाख्ययोः । निष्ठा परिसमाप्तिः स्यात् सा च भूतार्थयोर्द्वयोः ॥ ४६१ ॥ अर्थः स्यादित्यभेदेन निष्ठाख्यौ प्रत्ययावपि । तस्मै हितमिति ह्यर्थो यन्मध्ये ते च तद्धिताः ॥ ४६२ ॥ तस्य राजन्यपत्यार्थतुल्यप्रत्ययशासनात् । तदर्थवन्तस्तद्राजा अपत्यप्रत्यया अपि ॥ ४६३ ॥ अव्ययीभाव इत्यत्र भवतेः कर्तरीह णः । स्यात् तस्य पुरुषस्तत्पुरुषः षष्ठीसमासतः ॥ ४६४ ॥ तेन तज्जातिजाः सर्वे कृद्वत् तत्पुरुषा मताः । द्वयोर्गवोर्भवार्दिर्हि द्विगुर्यत्रैष स द्विगुः ॥ ४६५ ॥ बहवो व्रीहयोऽस्येति यत्र स्यात् स तथोच्यते । द्वयोर्हि पदयोरेकद्रव्यवृत्याखिलं पदम् ॥ क्रियासम्बन्धि यत्र स्यात् स शान्तः कर्मधारयः ॥ ४६६ ॥ वृत्तौ नानाप्रमादा विवृतिषु कथिता माधवाद्यैश्च सर्व- व्याख्यास्वाख्यायि दोषो बहुलमवटितं प्रक्रियाकाव्यपङ्क्तौ । नामव्याख्यास्वनन्तं किल तदिह महाकोविदैर्प्यवर्ज्या विभ्रान्तिश्चेत् कृशाभ्यासिनि कृशधिषणे मादृशे किं नु वाच्यम् ॥ अथ स्त्रीप्रत्ययान्तानामपि विभक्तिप्रकृतित्वात् तेऽपि कथ्यन्ते ॥
Sutra Prayogas
--------------
* **दुष्पानः** (भट्टिकाव्यम्): `षात्पदान्तात्` इति णत्वस्य प्रतिषेधः ।