84033: वा निंसनिक्षनिन्दाम्

Padacheda: वा | S | 0 | 0 |

निंस-निक्ष-निन्दाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The न् of निस् , निक्ष and निन्द is changed to a ण optionally, when preceded by an उपसर्ग having in it a cause of change.

Vasu English Translation

The न् of निस् , निक्ष and निन्द is changed to a ण optionally, when preceded by an उपसर्ग having in it a cause of change. Thus प्रणिंसनम् or प्रनिंसनम्, प्रणिक्षणम् or प्रनिक्षणम्, प्रणिन्दनम् or प्रनिन्दनम् ॥

These verbs are written with ण in the Dhatupatha, and therefore by rule (8.4.14) ante, the change of न into ण would have been obligatory. The present sutra makes it optional. The root णिसि means ‘to kiss’, णिक्षि रोषणे, and णिदि कुत्सायाम् ॥

Kashika

उपसर्गादिति वर्तते। निंस निक्ष निन्द इत्येतेषां नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रणिंसनम्, प्रनिंसनम्। प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम्। णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः॥

Siddhanta Kaumudi

एषां नस्य णो वा स्यात् कृति परे । प्रणिंसितव्यम् । प्रनिंसितव्यम् ॥

Balamanorama

वा निंसनिक्षनिन्दाम् - वा निंस ।कृत्यचः इत्यतः कृतीत्यनुवृत्तम् । अचेति च निवृत्तम् । तदाह — एषां नस्येति ।

Tattvabodhini

वा निंसनिक्षनिन्दाम् - कृति पर इति ।

Padamanjari

‘णिसि चुम्बने’ ‘णिक्ष रोपणे’ , णिदि कुत्सायाम्ऽ णोपदेशत्वादेतेषां नित्ये णत्वे प्राप्ते विकल्पः ॥

Nyaas

णिसि चुम्बन (धातुपाठः-1025), णिक्षि रोषे [नख -प्रांउ।पाठः] (धातुपाठः-659), णिदि कुतसायाम्` (धातुपाठः-66)। णोपदेशत्वादेषाम्? उपसर्ग (8.4.14) इत्यादिना नित्ये प्राप्ते विकल्पार्थमिदमारभ्यते। यद्येवम्, न कर्तव्यं वाग्रहणम्, पृथग्योगकरणादेव विकल्पो भविष्यति? नैतदस्ति; विपर्ययोऽपि विज्ञायेत -अयं विधिर्नित्यः, स विभाषेति। उपसरगादसमासे (8.4.14) इत्यस्यानन्तरमस्मिन्? कर्तव्य इहास्य करणं पूर्वविधेर्नित्यत्वज्ञापनर्थम् -द्वयोर्विभाषयोर्मध्ये ये वै विधयस्ते नित्या भवन्तीति॥

Prakriyasarvasvam

प्रादिस्थात् परेषामेषां णत्वं वा स्यात् । प्रणिन्दति, प्रनिन्दति । एवं चुम्बनार्थयोर्निक्षिनिस्योः । प्रणिक्षति प्रनिक्षति । प्रणिस्ते प्रनिस्ते । लुग्गतोऽयम् । <karika>प्रनिन्दकादौ कृत्स्वेव ह्येषां णत्वविकल्पनम् । माधवः प्राह, तत्पक्षे तिङि नित्यं प्रनिन्दति ॥ ६९२ ॥</karika> फल निष्पत्तौ । ञिफला विशरणे । विशरणं विशीर्णता । फलति कामो घटो वा । भावे फल्यते । कामान् फलतीत्याद्यन्तर्गतण्यर्थत्वे कर्मण्यपि । सिचि ‘नेटि’ इत्यवृद्धिप्राप्तौ ।