84025: अयनं च¶
Padacheda: अयनम् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘अन्तर्’ शब्दात् परः विद्यमानस्य ‘अयन’ शब्दस्य नकारस्य णकारादेशः विधीयते । परन्तु निर्मितेन शब्देन देशस्य नाम्नः निर्देशः कर्तव्यः अस्ति चेत् एतादृशम् णत्वं न भवति ।
‘अन्तर्’ इति शब्दः अन्तरपरिग्रहे (1.4.65) इत्यनेन सूत्रेण गतिसंज्ञकः भवति । अस्य शब्दस्य उत्तरपदरूपेण ‘अयन’ इति शब्दः विद्यते चेत् वर्तमानसूत्रेण तस्य नकारस्य णकारादेशः भवति । परन्तु यदि निर्मितेन शब्देन देशस्य निर्देशः कर्तव्यः अस्ति, तर्हि एतादृशः णकारादेशः न विधीयते । यथा - 1. अन्तः अयनम् = अन्तरयणम् । The act of going inside. अत्र कुगतिप्रादयः (2.2.18) इति तत्पुरुषसमासः भवति । 2. अन्तः ईयते अस्मिन् देशे = अन्तरयनः देशः । अत्र देशस्य निर्देशः कृतः अस्ति अतः अत्र णत्वं न विधीयते । अत्र इण् धातोः करणाधिकरणयोश्च (3.3.117) इत्यनेन ल्युट्-प्रत्ययं कृत्वा अग्रे बहुव्रीहिसमासं कृत्वा ‘अन्तरयन’ शब्दः सिद्ध्यति । स्मर्तव्यम् - 1. ‘अयन’ इति शब्दः ‘इण् गतौ’ (अथवा ‘अय्’ गतौ) धातोः ल्युट्-प्रत्ययं कृत्वा सिद्ध्यति । 2. वस्तुतः अन्तरपरिग्रहे (1.4.65) इत्यत्र वार्त्तिककारः <!अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसंज्ञा वक्तव्या!> इति वार्त्तिकं पाठयति । अस्य वार्त्तिकस्य (वर्तमानसन्दर्भे) आशयः अयम् - यत्र णत्वविधिः कर्तव्यः अस्ति, तत्र अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । अस्यां स्थितौ ‘अन्तर् + अयन’ इत्यत्र वस्तुतः कृत्यचः (8.4.29) इत्यनेनैव णत्वं भवितुमर्हति । परन्तु तादृशं क्रियते चेत् देशस्य सन्दर्भे अपि णत्वं प्रसज्येत - यत् न इष्यते । अतएव वर्तमानसूत्रमाचार्येण पृथक् रूपेण निर्मितमस्ति । अतः ‘अन्तरयनो देशः’ इत्यत्र णत्वं न भवति ।
Sutrartha (English)¶
The नकार of अयन is converted to णकार when this word follows the word ‘अन्तर्’. But this णत्व does not happen if the resultant word indicates the name of a place.
Vasu English Summary¶
The न of अयन is changed to ण , when preceded by the word अन्तर् and the word does not denote a country.
Vasu English Translation¶
The न of अयन is changed to ण , when preceded by the word अन्तर् and the word does not denote a country. Thus अन्तरयणं शोभनम् ॥ Why do we say “not denoting a country”? Observe अन्तरयनो देशः ॥ This ण change would have taken place by (8.4.29), this special sutra is for आदेश purposes. The word अयन is formed by ल्युट् added to अय् or इण् ॥
Kashika¶
अन्तरदेश इति वर्तते। अयननकारस्य चान्तःशब्दादुत्तरस्य णकारादेशो भवत्यदेशाभिधाने। अन्तरयणं वर्तते। अन्तरयणं शोभनम्। अदेश इत्येव — अन्तरयनो देशः॥
Siddhanta Kaumudi¶
अयनस्य णोऽन्तः शब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥
Padamanjari¶
अन्तरयणमिति । अयेः, इणो वा ल्युटि रूपम् ।’कृत्यचः’ इति सिद्धे इदमपि देशप्रतिषेधार्थं वचनम् ॥
Nyaas¶
अयनम् इति। अयतेः, इणो वा ल्युटि रूपम्। कृत्यचः (8.4.29) इत्यनेनैव सिद्धेऽदेशप्रतिविधानार्थ वचनम्। चकारेणादेशग्रहणमुपसर्गग्रहणं चानुकृष्यते। तेषामुत्तरत्रानुवृत्तिनिरासार्थम्॥
Prakriyasarvasvam¶
अन्तःशब्दात् परस्यायनस्यादेशे णः स्यात् । अन्तरयणमन्तरायः । देशे तु अन्तरयनो देशः ॥
Sutra Prayogas¶
अन्तरयणं (भट्टिकाव्यम्): अयनं च इति णत्वम्।