84021: उभौ साभ्यासस्य¶
Padacheda: उभौ | S | 1 | 2 |
साभ्यासस्य | S | 6 | 1 |
Sutrartha¶
रेफयुक्तात् उपसर्गात् परस्य ‘अन् (प्राणने)’ धातोः द्वित्वं कृतमस्ति चेत् उभयोः नकारयोः णकारादेशः भवति ।
रेफयुक्तात् उपसर्गात् परस्य ‘अन् (प्राणने)’ धातोः नकारस्य अनितेः (8.4.19) इत्यनेन णकारादेशः उच्यते । यदि अस्य धातोः द्वित्वं कृतमस्ति, तर्हि उभयोः नकारयोः णकारादेशः भवेत् इति वर्तमानसूत्रस्य आशयः । उदाहरणद्वयं पश्यामः - (1) ‘प्राणितुम् इच्छति’ (wants to breathe / live) अस्मिन् अर्थे धातोः कर्मणः समानकर्तृकादिच्छायां वा (3.1.7) इत्यनेन सन्-प्रत्यये कृते एतादृशी प्रक्रिया जायते - प्र + अन् + सन् [धातोः कर्मणः समानकर्तृकादिच्छायां वा (3.1.7) इति सन्] → प्र + अन् + इट् + स [आर्धधातुकस्येड् वलादेः (7.2.35) इति इडागमः । वार्णादङ्गं बलीयः इति न्यायेन अङ्गकार्यम् द्वित्वकार्यात् पूर्वं भवति ।] → प्र + अनि + स [टकारस्य इत्संज्ञा , लोपः] → प्र + अनि + नि + स [सन्यङोः (6.1.9) इति द्वित्वम् । अजादेर्द्वितीयस्य (6.1.2) इति द्वितीय-एकाच्-अंशस्य (इत्युक्ते ‘नि’ इत्यस्य) द्वित्वम् भवति । ] → प्रानिनिस [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → प्रानिनिष [आदेशप्रत्यययोः (8.3.59) इति षत्वम् । ] → प्राणिणिष [उभौ साभ्यासस्य (8.4.21) इति द्वयोः नकारयोः णकारादेशः । सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा ।] अस्य अग्रे प्राणिणिषति / प्राणिणिषतु / प्राणिणिषत् - एतादृशाणि रूपाणि भवन्ति । एवमेव परा + अन् + सन् = पराणिणिष इत्यपि आतिदेशिकधातुः सिद्ध्यति । (2) ‘प्र + अन्’ धातोः णिच्-प्रत्ययं कृत्वा ततः लुङ्लकारस्य प्रथमैकवचनम् एतादृशं सिद्ध्यति - प्र + अन् + णिच् + लुङ् → प्र + आट् + अन् + णिच् + लुङ् [आडजादीनाम् (6.4.72) इति आडागमः] → प्र + आ + अन् + णिच् + तिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → प्र + आ + अन् + इ + च्लि + ति [च्लि लुङि (3.1.43) इति ‘च्लि’ विकरणप्रत्ययः] → प्र + आ + अनि + चङ् + ति [‘च्लि’ इत्यस्य च्लेः सिच् (3.1.44) इति सिच्-आदेशे प्राप्ते अपवादस्वरूपेण णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3.1.48) इति चङ्-आदेशः ] → प्र + आ + अनि + अ + ति [चकारङकारयोः इत्संज्ञा, लोपः] → प्र + आ + अनि + नि + अ + ति [चङि (6.1.11) इति द्वित्वविधानम् । अजादेर्द्वितीयस्य (6.1.2) इति द्वितीय-एकाच्-अंशस्य (इत्युक्ते ‘नि’ इत्यस्य) द्वित्वम् भवति । ] → प्र + आ + अनि + न् + अ + ति [‘अ’ इति आर्धधातुकः प्रत्ययः अस्ति अतः णेरनिटि (6.4.51) इति णिच्-प्रत्ययस्य (इत्युक्ते इकारस्य) लोपः] → प्र + आ + अनि + न् + अ + त् [इतश्च (3.4.100) इति प्रत्ययस्थस्य इकारस्य लोपः] → प्रानिनत् [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → प्राणिणत् [उभौ साभ्यासस्य (8.4.21) इति द्वयोः नकारयोः णकारादेशः] एवमेव ‘परा + अन् + णिच् + लुङ् (तिप्)’ इत्यस्य ‘पराणिणत्’ इत्यपि रूपम् एतादृशमेव सिद्ध्यति । स्मर्तव्यम् - अस्य सूत्रस्य अनुपस्थितौ अनितेः (8.4.21) इत्यनेन केवलं प्रथमस्यैव नकारस्य णत्वं स्यात् । यद्यपि द्वितीयः नकारः अपि ‘अन्’ इत्यस्यैव अस्ति, तथापि प्रथमनकारस्य णत्वे कृत्वे तस्य व्यवधानेन द्वितीयनकारस्य णत्वं नैव सम्भवेत् । उभयोः नकारयोः णत्वं स्यात् इति प्रतिपादयितुमस्य सूत्रस्य निर्माणं कृतमस्ति । शास्त्रविशेषः - वस्तुतः परिभाषेन्दुशेखरे पूर्वत्रासिद्धीयमद्वित्वे (परिभाषा 126) इति काचन परिभाषा विद्यते । अस्याः परिभाषायाः अर्थः अयम् - ‘यत्र द्वित्वकार्यम् कर्तव्यमस्ति तत्र पूर्वत्रासिद्धम् (8.2.1) इत्यनेन उक्तमसिद्धत्वम् न ग्रहीतव्यम्’ । इत्युक्ते - द्वित्वकार्यात् पूर्वमेव (सूत्रपाठे विद्यमानात् परत्वात्) त्रिपादीकार्यम् भवितुमर्हति, ततश्च त्रिपादीकार्यात् अनन्तरम् द्वित्वविधानम् सिद्धमस्ति - इति आशयः । इदानीम् , एतां परिभाषामनुसृत्य अत्र निर्दिष्टायां प्रक्रियायाम् द्वित्वकार्यात् पूर्वमेव अनितेः (8.4.21) इत्यनेन सूत्रेण ‘अनि’ इत्यस्य नकारस्य णत्वं कृत्वा ततः ‘णि’ इत्यस्यैव द्वित्वं क्रियते चेत् णकारस्य द्वित्वे णकारः एव जायेत, अतः वर्तमानसूत्रं विना अपि द्वौ णकारौ सिद्ध्यतः । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोजनमेव विनश्यति । परन्तु तथापि वर्तमानसूत्रमाचार्येण पाठितमस्ति । एतत् अस्यैव ज्ञापकम् यत् पूर्वत्रासिद्धीयमद्वित्वे इति परिभाषा अनित्या अस्ति । अस्य विशेषः विस्तारः तु परिभाषेन्दुशेखरे द्रष्टव्यः ।
Sutrartha (English)¶
When the verb अन् (प्राणने) is used along with a रेफ/षकारयुक्त उपसर्ग (like प्र or परा), and when such a verb undergoes a द्वित्व, then both of the नकारs become णकार.
Vasu English Summary¶
Both the न-s are changed into ण in the reduplicated forms of the verb अन् , when preceded by an उपसर्ग competent to cause the change.
Vasu English Translation¶
Both the न-s are changed into ण in the reduplicated forms of the verb अन् , when preceded by an उपसर्ग competent to cause the change. Thus in the Desiderative प्राणिणिषति and Aorist of the Causative प्राणिणत्, and so also पराणिणिषति and पराणिणत् ॥
If the maxim पूर्वत्रासिद्धीयमद्विर्वचने be applied here; then we have the following dilemma in, प्रानि + स + ति ॥ Here the affix सन् requires reduplication, and the present sutra requires ण change of न ॥ The णत्व being asiddha, the reduplication being made first, we have प्राणिनि + स + ति, and then the reduplicate ण intervenes between the cause प्र and the root- न् of नि, and so this न would not be changed to ण ॥ If however the above maxim be applied, we first apply the णत्व rule, as प्राणि + स + ति, and then reduplicate णि; and we get the form प्राणिणिषति even without this sutra.
If we could get this form by the application of the above maxim, where is the necessity of the present sutra? The sutra is necessary in order to indicate that the above maxim is anitya or not of universal application. And because it is anitya, that the form औजढत् is evolved by reduplicating हत् (See (8.2.1)).
Bhashya¶
उभौ साभ्यासस्य ॥ साभ्यासस्य द्वयोरिष्टम्॥ साभ्यासस्य द्वयोर्णत्वमिष्यते, प्राणिणिषति॥ (उभौ साभ्यासस्य)॥
Kashika¶
साभ्यासस्यानितेरुपसर्गस्थाद् निमित्तादुत्तरस्योभयोर्नकारयोर्णकार आदेशो भवति। प्राणिणिषति। प्राणिणत्। पराणिणिषति। पराणिणत्। पूर्वत्रासिद्धीयमद्विर्वचने इत्येतस्मिन् सति पूर्वणैव कृतणत्वस्य द्विर्वचने कृते सिद्धमेतदन्तरेणापि वचनम्? एतत् तु नाश्रयितव्यमिति सूत्रमिदमारभ्यते। तेन औजढदिति सिद्धं भवति॥
Siddhanta Kaumudi¶
साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ॥
Balamanorama¶
उभौ साभ्यासस्य - उभौ साभ्यासस्य । अनितेरित्यनुवर्तते । ‘अन प्राणने’ इति धातोरित्यर्थः । ‘रषाभ्यां नो णः’ इत्यधिकृतम् ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तदाह — साभ्यासस्येत्यादिना । निमित्ते सतीति । उपसर्गस्थे रेफे सतीत्यर्थः । प्राणिणदिति । प्र अन् इ अ त् इति स्थिते ‘अनिते’ रिति णत्वस्याऽसिद्धत्वान्नीत्यस्य द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवदानाण्णत्वे अप्राप्ते उभयोर्नकारयोरनेन णत्वमित्यर्थः । न चपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इति निषेधाद्द्वित्वे कर्तव्ये णत्वस्याऽसिद्धत्वविरहेण परत्वात्कृते णत्वे ततः पश्चाद्द्वित्वेप्राणिण॑दिति सिद्धमिति वाच्यम्, अत एवपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इत्यस्याऽनित्यत्वविज्ञानात् ।तेनऊर्णुनावे॑त्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृतेऽभ्यासोत्तरखण्डे णत्वाऽबावसिद्धिरित्यन्यत्र विस्तरः ।
Tattvabodhini¶
उभौ साभ्यासस्य - उभौ सा ।रषाभ्याटमिति सूत्रेन॑इति षष्ठन्तं प्रथमाद्विवनान्ततया विपरिणम्यत इत्याह — उभौ नकाराविति । ननुसाऽभ्यास्ये॑ त्युक्त्या उभयोरपि भविष्यतीत्युभौग्रहणं व्यर्थमिति चेत्, अत्राहुः — साहित्यमात्रं विवक्षितं न तुल्ययोग इत्यभ्युपगमे द्वयोर्युगपन्न सिध्येदित्युभौग्रहणम् । न च तुल्ययोगविवक्षायांतेन सहेति तुल्योगे॑ इति समासोऽत्र न स्यादिति शङ्क्यं,तुल्ययोगग्रहणं प्रायिकं, सकर्मकः सलोमक॑ इत्युक्तत्वादिति । कैयटे तु — उभावित्यस्मिन्नसति साभ्यासस्याऽनितेर्णो भवतीत्युच्यमाने वचनसामर्थ्याच्चपूर्वत्रासिद्धीयमद्विर्वचने॑ इत्यनाश्रीयमामे कृतणत्वस्य द्विर्वचने कृते अनन्तरस्याऽनितेरिति पूर्वेणैव णत्वस्य सिद्धत्वाद्व्यवहितनकारार्थमिदं णत्वं स्यात्, अनन्तरस्य तु तक्रकौण्डिन्यन्यायेन न स्यादिति उभावित्युच्यते॑ इति स्थितम् । साभ्यासस्येति किम् । प्राण् नमति । असत्यस्मिन्अनिते॑रिति षष्ठी संबन्धसामान्ये स्यात् ।ततश्चानन्तर्यादिसंबन्धोऽपि गृह्रेत । सति त्वस्मिन्नवयवावयविभावसंबन्धो लभ्यते । अतोऽर्थवत्साभ्यासग्रहणम् । यदि त्विष्टानुरोधेनाऽनितेरिति षष्ठीजनम् । इह पूर्वं णत्वं कृत्वा द्वित्वे क#ऋते प्राणिणदित्यादिसिद्धावयमारम्भःपूर्वत्रासिद्धीयमद्विर्वचने॑इत्स्याऽनित्यत्वज्ञापनार्थः । तेन ऊर्णुनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाऽभावः सिद्धः ।
Padamanjari¶
प्राणिणिषतीति । सनि ठजादेर्द्वितीयस्यऽ इति निशब्दस्य द्विवर्चनम् । प्राणिणदिति । ण्यन्ताल्लुङ्, च्लेश्चङ्, णिंलोपः,’द्विर्वचने’ चिऽ इति स्थानिवद्भावान्निशब्दस्य द्विर्वचनम् । पूर्वत्रासिद्धीयमित्यादि ।’पूर्वत्रासिद्धीयमद्विर्वचने’ इत्यस्मिन्नसति प्रानिसतीतिस्थिते द्विर्वचनं च प्राप्नोति, णत्वं च, तत्र णत्वस्यासिद्धत्वात्पूर्व द्विर्वचने कृतेऽभ्यासणकारेण व्यवायाद्धातुनकारस्य णत्वं न स्यात् । अस्मिंस्तु सति परत्वाण्णत्वे कृते कृतणत्वस्यैव द्विर्वचने अन्तरेणाप्येतद्वचनं प्राणिणिषतीत्यादि सिद्धं भवति । यद्येवम्, किमर्थमिदमारभ्यते ? इत्याह - एतत्विति । शक्यार्थे कृत्याः, इतिकरणो हेतौ । तुशब्दोऽवधारणे । यस्मादेतदपवादवचनमेतदर्थं नैव शक्यमाश्रयितुम्, तस्मादेतदारभ्यते । अयमभिप्रायः - अस्य वचनस्यानित्यत्वज्ञापनार्थमिदमारभ्यत इति । तेन - ठौजढदित्यत्र ढत्वादीनामसिद्धत्वात् हत् इत्येतद् द्विरुच्यतेऽ - इत्युपपन्नं भवति । अथ ठुभौऽ इति किमर्थम्, यावताभ्यासनकारस्य पूर्वेणैव णत्वं सिध्यति, आरम्भसामर्थ्याद्धातुनकारस्य व्यवायेऽप्यनेन भविष्यति ? सत्यम्; व्यवहितस्य सिध्यति, अनन्तरस्य तु तक्रकौडिन्यन्यायान्न स्यादिति ठुभौऽ इत्युच्यते ॥
Nyaas¶
नकारोऽयमडादोनामेकोऽपि न भवतीति। ततो द्विवचने कृते सत्यभ्यासनकारेण व्यवहितत्वादितरस्य नकारस्य न स्यात्, इष्यते च। तस्मात्? तस्यापि यथा स्यादितीदमारम्यते। प्राणिणिषति इति। सम्, इट्, अजादेर्द्वितीयस्य (6.1.2) इति सम्यङोः (6.1.9) इत्यनेन निशब्दो द्विरुच्यते। प्राणिणत् इति। ण्यन्ताल्लुङ्, णिलोपः, तस्य द्विर्वचनेऽचि (1.1.59) इति स्थानिवद्भावान्निशब्दस्य द्विर्वचनम्। पूर्वत्रासिद्धीयम् इत्यादि। पूर्वात्रासिद्धीयमद्विरवचने (जै।प।वृ।70) इत्येतस्मिन्नसति द्विर्वचन कर्तव्ये णत्वस्यासिद्धत्वात्? प्राग्द्धिर्वचनेन भवितव्यम्। अत्रास्मिन्? सूत्रेऽसति प्रथमेन नकारेम व्यवाये द्वितीयस्य अनितेः (8.4.19) इत्यनेन णत्वं न स्यादिति प्राणिणिषतीत्यादि न सिध्यति। अस्मस्तु पूर्वत्रासिद्धम् (8.2.1) इत्यस्यापवादे सति अनितेः (8.4.19) इत्यनेन परत्वाण्णत्वमेव क्रियते। ततः कृतण्त्वस्य द्विर्वचने कृते सिद्धमेवैतदन्तरेणाप्येतत्? सूत्रम्। यद्येवम्, किमर्थमिदमारभ्यते? इत्यत आह -एतत्तु इत्यादि। शक्यार्थे कृत्यः। इतिकरणो हेतौ। तु शब्दोऽयभवधारणे। यस्मात्तदपवादवचनं नैव शक्याश्रयितुम्, तस्मात्? सूत्रमिदमारभ्यते। यदि हि तदेदाश्रीयेत,[तदेवाश्रीयते -प्रांउ।पाठः] तदेदं सूत्रं न कर्तव्यं स्यात्, ततश्चास्यापवादवचनस्यासर्वविषयता न विज्ञायते। एवमूढमाख्यदौजढदित्यत्र पूर्वत्रासिद्धस्याभावाड्ढत्वादीनमसिद्धत्वात्? हत् इत्र्येतस्य द्विर्वचनं न स्यात्। अस्मस्तु सूत्रे सति तस्यापवादवचनस्यासर्वविषयता विज्ञायते। तेनौजढवित्यत्र ढत्वादीनामसिद्धत्वात्? हत् इत्येतस्य द्विर्वचनं भवति। अतोभाविति किमर्थम्, यावता पूर्वस्य नकारस्य पूर्वसूत्रेणैव णत्वं सिद्धम्, इतरस्य त्वारम्भसामर्थ्यात्। अन्तरेणापि उभौ इति वचनं णकारस्य व्यवायेप्यनेन भविष्यति? एवं मन्यते -साभ्यासस्य इत्येतावत्युच्यमाने यथा अजादेर्द्वितीयस्य (6.1.2) इति द्विर्वचनमारभ्यमाणं प्रथमद्विर्वचनस्यापवादौ विज्ञायते तथेहाप्यनडादिव्यवाये द्वितीयस्य नकारस्य णत्वमारभ्यमाणं पूर्वस्यापवादो विज्ञायते। साभ्यासस्य इति वचनं विस्पष्टार्थम्; उभावित्यनेनैव सिद्धत्वात्। न ह्रनभ्यासस्यानितेरुभौ नकारौ सम्भवतः॥
Prakriyasarvasvam¶
उपसर्गात् परस्य साभ्यासस्याऽनितिधातोः उभौ नकारौ णत्वं प्राप्नुतः । प्राणिणिषति । ‘आशङ्कायां सन् वाच्यः’ । (वा०) । कूलं पिपतिषति । श्वा मुमूर्षति । ‘इच्छासनन्तान्न सनिष्यते’ । बुभूषितुमिच्छति ।
Sutra Prayogas¶
प्राणिणिषु (भट्टिकाव्यम्): उभौ साभ्यासस्य इति णत्वं द्वयोरपि।