84020: अन्तः

Padacheda: अन्तः | S | 1 | 1 |

Sutrartha

रेफयुक्तात् उपसर्गात् परस्य ‘अन् (प्राणने)’ धातोः पदान्तनकारस्य णकारादेशः भवति ।

‘अन्’ प्राणने इति अदादिगणस्य धातुः । यदि एतं धातु रेफयुक्तेन उपसर्गेण सह प्रयुज्य (यथा - प्र + अन्, परा + अन्) तस्मात् प्रातिपदिकस्य निर्माणं क्रियते, तर्हि तस्मात् निर्मितस्य पदस्य अन्ते विद्यमानस्य ‘अन्’ इत्यस्य नकारस्य पदान्तस्य (8.4.37) इत्यनेन णत्वनिषेधे प्राप्ते वर्तमानसूत्रेण अपवादस्वरूपेण णत्वं भवति । यथा - ‘प्र + अन्’ धातोः क्विप् प्रत्ययः क्रियते चेत् ‘प्रान्’ इति प्रातिपदिकं सिद्ध्यति - प्र + अन् + क्विप् [क्विप् च (3.2.76) इति क्विप् प्रत्ययः] → प्र + अन् + व् [ककारपकारयोः इत्संज्ञा, लोपः । इकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति । ] → प्र + अन् [वेरपृक्तस्य (6.1.67) इति वकारलोपः] → प्रान् [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] अस्य शब्दस्य सम्बोधनैकवचनस् रूपम् ‘प्राण्’ इति भवति । प्रकिया इत्थम् - प्रान् + सुँ → प्रान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (6.1.68) इति सुँलोपः] → प्रान् [नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन अन्तिमनकारस्य लोपे प्राप्ते न ङिसम्बुद्ध्योः (8.2.8) इति निषेधः] → प्राण् [अनितेः (8.4.19) इत्यनेन नकारस्य णत्वे प्राप्ते ; तद्बाधित्वा पदान्तस्य (8.4.37) इत्यनेन तस्य निषेधे प्राप्ते ; तद्बाधित्वा अन्तः (8.4.20) इति णत्वम् ] एवमेव परा + अन् + क्विप् + सुँ (सम्बोधनैकवचनम्) → पराण् इत्यपि रूपं सिद्ध्यति । स्मर्तव्यम् - 1. अस्य सूत्रस्य प्रसक्तिः पदान्तनकारस्य विषये एव अस्ति । अतएव अस्मिन् सूत्रे ‘अन्तः’ इति उच्यते । यद्यप्यत्र ‘पदस्य’ इति नैव अनुवर्तते न च अधिक्रियते, तथापि ‘अन्तः’ इत्यनेन ‘पदस्य अन्तः’ इत्येव अर्थः स्वीक्रियते । 2. अस्य सूत्रस्य प्रसक्तिः सम्बोधनैकवचनस्य रूपार्थमेव विद्यते । प्रथमैकवचनस्य रूपे तु नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन अन्तिमनकारस्य लोपः भवति, ततश्च सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इत्यनेन उपधादीर्घं कृत्वा ‘प्रा’, ‘परा’ इति रूपे सिद्ध्यतः ।

Sutrartha (English)

When the verb अन् (प्राणने) is used along with a रेफ/षकारयुक्त उपसर्ग (like प्र or परा), its नकार becomes णकार when it appears at the end of a पद.

Vasu English Summary

The न of the verb अन् ‘to breathe’, is changed to ण , when preceded by an उपसर्ग competent to produce the change, provided it occurs at the end of a पद।

Vasu English Translation

The न of the verb अन् ‘to breathe’, is changed to ण , when preceded by an उपसर्ग competent to produce the change, provided it occurs at the end of a पद। As हे प्राण् ! हे पराण् ! This rule is an exception to (8.4.37) sub, by which final न् in a pada is not changed into ण ॥ The word अन्तः in the sutra is to be understood to be equivalent to पदान्तः, and the rule applies when the word is in the vocative case.

According to some अन्तः is taken to be a part of the last sutra, and has the meaning of ‘proximity’. That is the न is changed to ण, if the र is not separated from the न् by more than one letter. Therefore there is no change in परि + अनिति = पर्यनिति ॥ In this view, another अन्त should be taken for the sake of final न्, in हे प्राण् ॥

According to others the form पर्यणिति is valid, and they do not connect अन्तः with the last sutra.

The word प्राण् is a क्विप् formed word, and the न् final is not elided in the Vocative Singular because of the prohibition of (8.2.8); in every other place, when the न् is padanta, it would be dropped; and therefore the illustration is given with Vocative singular, which alone satisfies the requirements of this sutra.

Bhashya

अन्तः अनितेः ॥ अन्तग्रहणं किमर्थम्?॥ अनितेरन्तग्रहणं संबुद्ध्यर्थम्॥ अनितेरन्तग्रहणं क्रियते॥ किं प्रयोजनम्?॥ संबुद्ध्यर्थम् । प्राण् । अपर आह - अनितेरन्तः पदान्तस्य ॥ अनितेरन्तग्रहणं क्रियते, पदान्तस्य नेति प्रतिषेधः प्राप्नोति तद्वाधनार्थम् ॥ यो वा तस्मादनन्तरः॥ अथ वा -अयमन्तशब्दोऽस्त्येवाऽवयववाची । तद्यथा -वस्रान्तो वसनान्त इति । अस्ति सामीप्ये वर्त्तते। तद्यथा -उदकान्तं गतः । उदकसमीपं गत इति गम्यते । तद्यः सामीप्ये वर्त्तते तस्य ग्रहणं विज्ञायते अनितेः समीपे यो रेफस्तस्मान्नस्य यथा स्यात् -प्राणितीति । इह मा भूत् -पर्यनितीति।

Kashika

अनितेरिति वर्तते। उपसर्गस्थाद् निमित्तादुत्तरस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति। हे प्राण्। हे पराण्। पदान्तस्य (८.४.३७) इति प्रतिषेधस्यापवादोऽयम्। अन्तश्च पदापेक्षो गृह्यते। केचित् तु पूर्वसूत्र एवैतदन्तग्रहणं सामीप्यार्थमभिसंबध्नन्ति। निमित्तसमीपभूतस्य एकवर्णव्यवहितस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात्। इह मा भूत् — पर्यनितीति। तैर्द्वितीयमपि पदान्तस्य णत्वार्थमन्तग्रहणमाश्रयितव्यमेव। येषां तु पर्यणितीति भवितव्यमिति दर्शनम्, तेषां पूर्वसूत्रे नार्थोऽन्तग्रहणेन॥

Siddhanta Kaumudi

पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । शास इत् - (SK2486) इतीत्वम् । मित्राणि शास्ति मित्रशीः ।<!आशासः क्वावुपाधाया इत्वं वाच्यम् !> (वार्तिकम्) ॥ आशीः इत्वोत्वे । गीः । पूः ॥

Tattvabodhini

अन्तः। अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्यते, नाऽनितेरपेक्षया, अव्यभिचारादत आह - पदान्तस्येति।हे प्राणिति। अन प्राणने। क्विप्। अनुनासिकस्ये`ति दीर्घः। `न ङिसंबुद्ध्यो`रिति नलोपनिषेधः। अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम्। मित्रशीरिति। लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, `वर्णाश्रये नास्ति प्रत्ययलक्षण मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः।

Padamanjari

अनितेरन्तस्येति । अनितेः सम्बन्धिनः पदान्तस्य नकारस्येत्यर्थः । हे प्राणिति । क्विबन्तात्सम्बुद्धिः,’न ङसिम्बुद्ध्योः’ इति नलोपप्रतिषेधः । अन्यत्र तु पदान्तस्य नकारस्य लोपेन भवितव्यमिति सम्बुद्ध्यन्तमुदाहृतम् । अन्तश्च पदापेक्षो गृह्यत इति । नानित्यपेक्षः; व्यभिचाराभावात् । केचित्वित्यादि । ठनितेरन्तःऽ इत्येकमेव योगं पठन्ति, समीपवचनं चान्तशब्दमाश्रयन्तीत्यर्थः । किमर्थम् ? इत्याह - निमितसमीपस्येति । ननु च नास्त्येव स विषयो यत्र निमितस्य समीपभूतोऽनितेर्नकारः, प्राणितीत्यादावेकादेशे कृते आकारेण व्यवायः, निरणितीत्यत्राकारेण, तत्कथं निमितसमीपस्थस्येत्युच्यते ? अत आह - एकवर्णव्यवहितस्येति । सामर्थ्यादेकवर्णन व्यवधानमाश्रतमित्यर्थः । न च प्राणितीत्यत्रैकादेशस्य पूर्वस्माद्विधौ स्थानिवद्भावाद् वर्णद्वयव्यवायः शङ्कनीयः; पूर्वत्रासिद्धे स्थानिवत्वनिषेधात् । ननु चोक्तम् -‘तस्य दोषः संयोगादिलोपलत्वणत्वेषु’ इति ? एवं तर्ह्यनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः;’निष्ठायां सेटि’ इति सेड्ग्रहणात्, एतच्च स्थानिवत्प्रकरण एव व्याख्यातम् । तैरित्यादि । एकं ह्यन्तग्रहणम्, तच्च सामीप्यार्थं पर्यनितीत्यत्र णत्वव्यावृत्या चरितार्थम्, ततश्च हे प्राणित्यत्र पदान्तस्येति प्रतिषेधः प्राप्नोति; तस्मातैद्वितीयमप्यन्तग्रहणमावृत्या तन्त्रेण वाऽऽश्रयितव्यम् । ननु च येऽपि योगविभागं कुर्वन्ति, अवयववचनं चान्तशब्दमाश्रयन्ति, तेरपि पूर्वसूत्रे सामीप्यवाच्यन्तशब्दः पठितव्य एव; अन्यथा पर्यनितीत्यत्रापि स्यात् ? अत आह - येषां त्विति । ते नैकवर्णव्यहितस्यापि णत्वमिच्छन्त्येव, तस्मान्नार्थस्तेषां पूर्वसूत्रेऽन्तग्रहणेनेत्यर्थः ॥

Prakriyasarvasvam

अनेरुक्तणत्वं पदान्तेऽपि स्यात् । प्राण् । प्राणौ । हे प्राण । क्विबन्तोऽयम् ॥