84019: अनितेः¶
Padacheda: अनितेः | S | 6 | 1 |
Sutrartha¶
रेफयुक्तात् उपसर्गात् परस्य ‘अन् (प्राणने)’ धातोः नकारस्य णकारादेशः भवति ।
‘अन् प्राणने’ इति अदादिगणस्य धातुः । अयम् धातुः यदि रेफयुक्तेन उपसर्गेण सह प्रयुज्यते (यथा - प्र + अन्, परा + अन् आदयः) तर्हि अस्य धातोः नकारस्य वर्तमानसूत्रेण णकारादेशः भवति । यथा, ‘प्र + अन्’ धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - प्र + अन् + तिप् [प्रथमपुरुषैकवचनस्य प्रत्ययः ] → प्र + अन् + शप् + तिप् [कर्तरि शप् (3.1.68) इति विकरणप्रत्ययः] → प्र + अन् + तिप् [अदिप्रभृतिभ्यः शपः (2.4.72) इति विकरणलोपः] → प्र + अन् + इट् + तिप् [रुदादिभ्यः सार्वधातुके (7.2.76) इति इडागमः] → प्रानिति [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → प्राणिति [अनितेः (8.4.19) इति णत्वम्] एवमेव - परा + अन् इत्यस्य पराणिति इत्यस्मिन् रूपे अपि वर्तमानसूत्रेण णत्वं भवति ।
Sutrartha (English)¶
The नकार of the verb ‘अन् (प्राणने)’ becomes णकार when the verb is used along with an उपसर्ग that could cause the णत्व to happen (like प्र or परा).
Vasu English Summary¶
The न of the verb अन् ‘to breathe’, is changed to ण , when preceded by an उपसर्ग competent to produce the change.
Vasu English Translation¶
The न of the verb अन् ‘to breathe’, is changed to ण , when preceded by an उपसर्ग competent to produce the change. Thus प्र + अनिति = प्राणिति “he breathes’. पराणिति ॥ For इट् augment, see (7.2.76).
Kashika¶
अनितेर्नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य णकारादेशो भवति। प्राणिति। पराणिति॥
Siddhanta Kaumudi¶
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति ।{$ {!1071 जक्ष!} भक्षहसनयोः$} । जक्षिति । जक्षितः ॥
Balamanorama¶
अनितेरन्तः - अन्तः ।अनिते॑रिति सूत्रमनुवर्तते, ‘रषाभ्यां नो णः’ इति च । अन्त इति षष्ठर्थे प्रथमा.पदस्याऽन्तो विवक्षितः ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । हे प्राणिति । प्रपूर्वादनेः क्विबन्तात्संबोधनैकवचनस्य हल्ङ्यादिलोपः, नस्य णः । नलोपस्तु न, ‘न ङिसंबुद्ध्योः’ इति निषेधात् । मित्रशीरिति । मित्राणि शास्तीति विग्रहः । शासः क्विप् । ‘शास इदङ्हलोः’ नित्युपधाया इत्त्वम्, ‘र्वोरुपधायाः’ इति दीर्घः । मित्रशिषावित्यादौ अपदान्त्तवान्न दीर्घः । आशासः क्वाविति ।आङः शासु इच्छाया॑मित्यात्मनेपदी । तस्य ‘शास इदङ्हलोः’ इति इत्त्वं तु न भवति, तत्र परस्मैपदिन एव शासेग्र्रहणात् । अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः । अतआशासःर क्वा॑विति विधिः । इत्त्वोत्त्वे इति । गृ धातोः क्विपि, ऋत इत्त्वे,रपरत्वे, सोर्लोपे, ‘र्वोरुपधायाः’ इतिदीर्घे गीरिति रूपम् । पृधातोः क्विपि,उदोष्ठपूर्वस्ये॑ति ऋत उत्त्वे, रपरत्वे , सुलोपे, उपधादीर्घे पूरिति रूपमित्यर्थः ।
Tattvabodhini¶
अनितेरन्तः - अन्तः । अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्रते, नाऽनितेरपेक्षया, अव्यभिचारादत आह — पदान्तस्येति.हे प्राणिति । अन प्राणने । क्विप् ।अनुनासिकस्ये॑ति दीर्घः ।न ङिसंबुद्ध्यो॑रिति नलोपनिषेधः । अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम् । मित्रशीरिति । लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति,वर्णाश्रये नास्ति प्रत्ययलक्षण॑ मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः । * आशास इति । शासु अनुशिष्टौ । आङः शासु इच्छायाम्, आत्मनेपदी ।शास इ॑दित्यादिना सिद्धेक्वावेवु उपधाया इत्त्व॑ मिति नियमार्थमिदम् । तेन आशास्ते इति सिद्धमित्येके । अन्ये तु विध्यर्थमेवेदं, न नियमार्थं, प्राप्त्यभावात् । न चशास इदङ्हलो॑रिति इत्त्वस्य प्राप्तरस्तीति वाच्यं, तत्राङ्साहचर्यात्परस्मैपदिन एव सासेग्र्रहणात् । यद्यपिसर्तिशास्ती॑ति सूत्रे पृथग्योगकरणादर्तेर्लुङि आरत समारतेति पदद्वयेऽप्यङिति सिद्धान्तस्तथाप्युत्तरार्थतया परस्मैपदग्रहणानुवृत्तेरप्याकरे स्पष्टतया परस्मैपदे दृष्टो यः शासिस्तस्मात्परस्याऽङिति निष्कर्षः । तथा चाशास्ते इत्यत्र इत्त्वप्रसक्तिरेव नास्तीत्याहुः । वस्तुतस्तुआशिषि लिङ्लोटौ॑ ,क्षियाशीः प्रैषेषु॑ इत्यादिनिर्देशेनैव सिद्धमिति नेदमपूर्वं वार्तिकम् ।इत्त्वं वाच्यटमित्यस्य इत्त्वं व्याख्येयमित्यर्थः । आशिषीत्याद्युक्त निर्देशादिति दिक् । सुम्वाविति ।ओः सुपि॑ इति यण् ।
Padamanjari¶
प्राणितीति ।’श्वस प्राणने’ , ठन चऽ, रुदादिभ्यस्सार्वधातुकेऽ इतीट् ॥
Prakriyasarvasvam¶
उपसर्गस्थात् परस्य अन प्राणने इति धातोर्नस्य णः स्यात् । प्राणनम् । परेर्वक्ष्यते । पर्यणनं, पर्यननम् । पूर्वसूत्राद् विभाषानुवृत्तेः प्रादावपि विकल्पमाह कौमुदी । प्राणनं, प्राननम् ॥
Sutra Prayogas¶
प्राणिवस्तव (भट्टिकाव्यम्): अनितेः इति णत्वम् ।
प्राणिषि (भट्टिकाव्यम्): अनितेः इति णत्वम्।
प्राणयन्त (भट्टिकाव्यम्): अनितेः इति णत्वम्।
प्राणीद् (भट्टिकाव्यम्): अनितेः इति णत्वम्।