84020: अन्तः ============ **Padacheda:** अन्तः | S | 1 | 1 | Sutrartha --------- **रेफयुक्तात् उपसर्गात् परस्य 'अन् (प्राणने)' धातोः पदान्तनकारस्य णकारादेशः भवति ।** 'अन्' प्राणने इति अदादिगणस्य धातुः । यदि एतं धातु रेफयुक्तेन उपसर्गेण सह प्रयुज्य (यथा - प्र + अन्, परा + अन्) तस्मात् प्रातिपदिकस्य निर्माणं क्रियते, तर्हि तस्मात् निर्मितस्य पदस्य अन्ते विद्यमानस्य 'अन्' इत्यस्य नकारस्य **पदान्तस्य** (8.4.37) इत्यनेन णत्वनिषेधे प्राप्ते वर्तमानसूत्रेण अपवादस्वरूपेण णत्वं भवति । यथा - 'प्र + अन्' धातोः क्विप् प्रत्ययः क्रियते चेत् 'प्रान्' इति प्रातिपदिकं सिद्ध्यति - प्र + अन् + क्विप् [**क्विप् च** (3.2.76) इति क्विप् प्रत्ययः] → प्र + अन् + व् [ककारपकारयोः इत्संज्ञा, लोपः । इकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति । ] → प्र + अन् [**वेरपृक्तस्य** (6.1.67) इति वकारलोपः] → प्रान् [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] अस्य शब्दस्य सम्बोधनैकवचनस् रूपम् 'प्राण्' इति भवति । प्रकिया इत्थम् - प्रान् + सुँ → प्रान् [**हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्** (6.1.68) इति सुँलोपः] → प्रान् [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन अन्तिमनकारस्य लोपे प्राप्ते **न ङिसम्बुद्ध्योः** (8.2.8) इति निषेधः] → प्राण् [**अनितेः** (8.4.19) इत्यनेन नकारस्य णत्वे प्राप्ते ; तद्बाधित्वा **पदान्तस्य** (8.4.37) इत्यनेन तस्य निषेधे प्राप्ते ; तद्बाधित्वा **अन्तः** (8.4.20) इति णत्वम् ] एवमेव परा + अन् + क्विप् + सुँ (सम्बोधनैकवचनम्) → पराण् इत्यपि रूपं सिद्ध्यति । स्मर्तव्यम् - 1. अस्य सूत्रस्य प्रसक्तिः पदान्तनकारस्य विषये एव अस्ति । अतएव अस्मिन् सूत्रे 'अन्तः' इति उच्यते । यद्यप्यत्र 'पदस्य' इति नैव अनुवर्तते न च अधिक्रियते, तथापि 'अन्तः' इत्यनेन 'पदस्य अन्तः' इत्येव अर्थः स्वीक्रियते । 2. अस्य सूत्रस्य प्रसक्तिः सम्बोधनैकवचनस्य रूपार्थमेव विद्यते । प्रथमैकवचनस्य रूपे तु **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इत्यनेन अन्तिमनकारस्य लोपः भवति, ततश्च **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन उपधादीर्घं कृत्वा 'प्रा', 'परा' इति रूपे सिद्ध्यतः । Sutrartha (English) ------------------- When the verb अन् (प्राणने) is used along with a रेफ/षकारयुक्त उपसर्ग (like प्र or परा), its नकार becomes णकार when it appears at the end of a पद. Vasu English Summary -------------------- The न of the verb अन् 'to breathe', is changed to ण , when preceded by an उपसर्ग competent to produce the change, provided it occurs at the end of a पद। Vasu English Translation ------------------------ The न of the verb अन् 'to breathe', is changed to ण , when preceded by an उपसर्ग competent to produce the change, provided it occurs at the end of a पद। As हे प्राण् ! हे पराण् ! This rule is an exception to (8.4.37) sub, by which final न् in a *pada* is not changed into ण ॥ The word अन्तः in the *sutra* is to be understood to be equivalent to पदान्तः, and the rule applies when the word is in the vocative case. According to some अन्तः is taken to be a part of the last *sutra*, and has the meaning of 'proximity'. That is the न is changed to ण, if the र is not separated from the न् by more than one letter. Therefore there is no change in परि + अनिति = पर्यनिति ॥ In this view, another अन्त should be taken for the sake of final न्, in हे प्राण् ॥ According to others the form पर्यणिति is valid, and they do not connect अन्तः with the last *sutra*. The word प्राण् is a क्विप् formed word, and the न् final is not elided in the Vocative Singular because of the prohibition of (8.2.8); in every other place, when the न् is *padanta*, it would be dropped; and therefore the illustration is given with Vocative singular, which alone satisfies the requirements of this *sutra*. Bhashya ------- अन्तः अनितेः ॥ अन्तग्रहणं किमर्थम्?॥ अनितेरन्तग्रहणं संबुद्ध्यर्थम्॥ अनितेरन्तग्रहणं क्रियते॥ किं प्रयोजनम्?॥ संबुद्ध्यर्थम् । प्राण् । अपर आह - अनितेरन्तः पदान्तस्य ॥ अनितेरन्तग्रहणं क्रियते, पदान्तस्य नेति प्रतिषेधः प्राप्नोति तद्वाधनार्थम् ॥ यो वा तस्मादनन्तरः॥ अथ वा -अयमन्तशब्दोऽस्त्येवाऽवयववाची । तद्यथा -वस्रान्तो वसनान्त इति । अस्ति सामीप्ये वर्त्तते। तद्यथा -उदकान्तं गतः । उदकसमीपं गत इति गम्यते । तद्यः सामीप्ये वर्त्तते तस्य ग्रहणं विज्ञायते अनितेः समीपे यो रेफस्तस्मान्नस्य यथा स्यात् -प्राणितीति । इह मा भूत् -पर्यनितीति। Kashika ------- अनितेरिति वर्तते। उपसर्गस्थाद् निमित्तादुत्तरस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति। हे प्राण्। हे पराण्। **पदान्तस्य** (८.४.३७) इति प्रतिषेधस्यापवादोऽयम्। अन्तश्च पदापेक्षो गृह्यते। केचित् तु पूर्वसूत्र एवैतदन्तग्रहणं सामीप्यार्थमभिसंबध्नन्ति। निमित्तसमीपभूतस्य एकवर्णव्यवहितस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात्। इह मा भूत् — पर्यनितीति। तैर्द्वितीयमपि पदान्तस्य णत्वार्थमन्तग्रहणमाश्रयितव्यमेव। येषां तु पर्यणितीति भवितव्यमिति दर्शनम्, तेषां पूर्वसूत्रे नार्थोऽन्तग्रहणेन॥ Siddhanta Kaumudi ----------------- पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । शास इत् - (SK2486) इतीत्वम् । मित्राणि शास्ति मित्रशीः । (वार्तिकम्) ॥ आशीः इत्वोत्वे । गीः । पूः ॥ Tattvabodhini ------------- अन्तः। अनितेरिति वर्तते, अन्तोऽत्र पदापेक्षो गृह्यते, नाऽनितेरपेक्षया, अव्यभिचारादत आह - पदान्तस्येति।हे प्राणिति। अन प्राणने। क्विप्। `अनुनासिकस्ये`ति दीर्घः। `न ङिसंबुद्ध्यो`रिति नलोपनिषेधः। अन्यत्र तु नलोपेन भाव्यमिति संबुद्ध्यन्तमुदाहृतम्। मित्रशीरिति। लुप्तेऽपि क्विप्प्रत्यये प्रत्ययलक्षणन्यायेन हलादिकित्प्रत्ययपरत्वमस्ति, `वर्णाश्रये नास्ति प्रत्ययलक्षण` मित्येतद्वर्णप्राधान्य एवेत्युक्तत्वादिति भावः। Padamanjari ----------- अनितेरन्तस्येति । अनितेः सम्बन्धिनः पदान्तस्य नकारस्येत्यर्थः । हे प्राणिति । क्विबन्तात्सम्बुद्धिः,'न ङसिम्बुद्ध्योः' इति नलोपप्रतिषेधः । अन्यत्र तु पदान्तस्य नकारस्य लोपेन भवितव्यमिति सम्बुद्ध्यन्तमुदाहृतम् । अन्तश्च पदापेक्षो गृह्यत इति । नानित्यपेक्षः; व्यभिचाराभावात् । केचित्वित्यादि । ठनितेरन्तःऽ इत्येकमेव योगं पठन्ति, समीपवचनं चान्तशब्दमाश्रयन्तीत्यर्थः । किमर्थम् ? इत्याह - निमितसमीपस्येति । ननु च नास्त्येव स विषयो यत्र निमितस्य समीपभूतोऽनितेर्नकारः, प्राणितीत्यादावेकादेशे कृते आकारेण व्यवायः, निरणितीत्यत्राकारेण, तत्कथं निमितसमीपस्थस्येत्युच्यते ? अत आह - एकवर्णव्यवहितस्येति । सामर्थ्यादेकवर्णन व्यवधानमाश्रतमित्यर्थः । न च प्राणितीत्यत्रैकादेशस्य पूर्वस्माद्विधौ स्थानिवद्भावाद् वर्णद्वयव्यवायः शङ्कनीयः; पूर्वत्रासिद्धे स्थानिवत्वनिषेधात् । ननु चोक्तम् -'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' इति ? एवं तर्ह्यनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः;'निष्ठायां सेटि' इति सेड्ग्रहणात्, एतच्च स्थानिवत्प्रकरण एव व्याख्यातम् । तैरित्यादि । एकं ह्यन्तग्रहणम्, तच्च सामीप्यार्थं पर्यनितीत्यत्र णत्वव्यावृत्या चरितार्थम्, ततश्च हे प्राणित्यत्र पदान्तस्येति प्रतिषेधः प्राप्नोति; तस्मातैद्वितीयमप्यन्तग्रहणमावृत्या तन्त्रेण वाऽऽश्रयितव्यम् । ननु च येऽपि योगविभागं कुर्वन्ति, अवयववचनं चान्तशब्दमाश्रयन्ति, तेरपि पूर्वसूत्रे सामीप्यवाच्यन्तशब्दः पठितव्य एव; अन्यथा पर्यनितीत्यत्रापि स्यात् ? अत आह - येषां त्विति । ते नैकवर्णव्यहितस्यापि णत्वमिच्छन्त्येव, तस्मान्नार्थस्तेषां पूर्वसूत्रेऽन्तग्रहणेनेत्यर्थः ॥ Prakriyasarvasvam ----------------- अनेरुक्तणत्वं पदान्तेऽपि स्यात् । प्राण् । प्राणौ । हे प्राण । क्विबन्तोऽयम् ॥