84018: शेषे विभाषाऽकखादावषान्त उपदेशे

Padacheda: शेषे | S | 7 | 1 |

विभाषा | S | 1 | 1 |

अकखादौ | S | 7 | 1 |

अषान्ते | S | 7 | 1 |

उपदेशे | S | 7 | 1 |

Sutrartha

उपदेश-अवस्थायाम् यः धातुः अककारादिः /अखकारादिः/ अषकारान्तः तथा **नेर्गदनद.. (8.4.16) इत्यत्र च न निर्दिष्टः अस्ति, तेन सह प्रयुक्तस्य ‘नि’ उपसर्गस्य णत्वनिमित्तक-उपसर्गस्य उपस्थितौ वैकल्पिकं णत्वं भवति ।**

औपदेशिक-अवस्थायाम् यः धातुः (1) ककारादिः नास्ति, (2) खकारादिः नास्ति, (3) षकारान्तः नास्ति, तथा च (4) नेर्गदनद… (8.4.17) अस्मिन् सूत्रे निर्दिष्टः नास्ति, सः धातुः यदि रेफ/षकार/ऋकारयुक्तात् उपसर्गात् परः आगच्छति, तर्हि तस्मात् पूर्वस्य ‘नि’ उपसर्गस्य वैकल्पिकं णत्वं भवति । यथा - ‘प्र + नि + भवति’ - इत्यत्र भू धातुः ककारादिः खकारादिः, षकारान्तः च नास्ति, नेर्गदनद… (8.4.17) अस्मिन् सूत्रे अपि निर्दिष्टः नास्ति । अतः अत्र ‘नि’ उपसर्गस्य नकारस्य ‘प्र’ इत्यस्थेन रेफेण वैकल्पिकं णत्वं विधीयते । अतः अत्र ‘प्रणिभवति’ , ‘प्रनिभवति’ इति रूपद्वयं जायते । अन्यानि कानिचन उदाहरणानि - प्रणिपचति/प्रनिपचति , परिणिपचति/परिनिपचति, प्रणिभिनत्ति/प्रनिभिनत्ति, परिणिभिनत्ति/परिनिभिनत्ति, प्रणिजहाति/परिनिजहाति, परिणिजहाति,परिनिजहाति । ज्ञातव्यम् - 1. ककारादेः / खकारादेः / षकारान्तस्य धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - प्रनिकरोति, प्रनिखादति, (‘प्र + नि + पिष्’ इत्यस्य प्रथमपुरुषैकवचनम् -) प्रनिपिनष्टि । 2. अस्मिन् सूत्रे ‘उपदेशे’ इति उक्तमस्ति । अतः अत्र धातोः औपदेशिकरूपस्य (मूलरूपस्य) ग्रहणं भवति । औपदेशिक-अवस्थायाम् यदि धातौ इत्संज्ञकवर्णः अस्ति तर्हि तस्य लोपं कृत्वा एव आदिवर्णस्य / अन्त्यवर्णस्य निश्चयः करणीयः । यथा, डुकृञ् (करणे) इत्यस्य आदिवर्णः ककारः अस्ति, अन्तिमवर्णः ऋकारः अस्ति । 3. अस्य सूत्रस्य प्रयोगे एतत् आवश्यकम् यत् औपदेशिक-अवस्थायाम् धातुः ककारादिः / खकारादिः / षकारान्तः भवेत् । ‘धातुरूप’स्य आदिवर्णः / अन्त्यवर्णः कः अस्ति तस्य चिन्तनमत्र न आवश्यकम् । यथा - (अ) प्रनिचकार । अत्र धातुः ‘कृ’ इति ककारान्तः अस्ति, अतः यद्यपि धातुरूपम् (चकार) इति ककारान्तम् नास्ति, तथाप्यत्र णत्वं न दृश्यते । (आ) प्रणिवेष्टा। अत्र यद्यपि धातुरूपम् (वेष्) षकारान्तं दृश्यते, तथाप्यत्र मूलधातुः ‘विश्’ इति शकारान्तः अस्ति, अतः अत्रापि णत्वं भवति । 4. अस्मिन् सूत्रे ‘शेषे’ इति निर्दिष्टमस्ति । अत्र ‘शेष’ इत्यनेन तेषां धातूनाम् ग्रहणं भवति येषां नेर्गदनद… (8.4.17) इत्यत्र ग्रहणम् न क्रियते । विशेषः - नेर्गदनद… (8.4.17) इति पूर्वसूत्रेण तथा शेषे विभाषा… (8.4.18) इति वर्तमानसूत्रेण मिलित्वा अयमर्थः जायते - णत्वनिमित्तकात् उपसर्गात् परः ‘नि’ इति उपसर्गः अस्ति, तस्मात् परः च धातुः अस्ति, तर्हि - 1) यदि सः धातुः नेर्गदनद… (8.4.17) अस्मिन् सूत्रे निर्दिष्टः अस्ति तर्हि ‘नि’ उपसर्गस्य नित्यं णकारादेशः भवति ।

यथा - प्रणिगदति ।

  1. अन्यथा, यदि सः धातुः औपदेशिक-अवस्थायाम् ककारादिः अस्ति / खकारादिः अस्ति / षकारान्तः अस्ति, तर्हि ‘नि’ उपसर्गस्य णकारादेशः न भवति । यथा - प्रनिखादति ।

  2. अन्यथा, ‘नि’ उपसर्गस्य विकल्पेन णकारादेशः भवति । यथा - प्रनिभवति, प्रणिभवति ।

Sutrartha (English)

A णत्वनिमित्तक उपसर्ग causes an optional णत्व of the उपसर्ग ‘नि’ attached to the verbs that are not ककारादि, not खकारादि, not षकारान्त and not mentioned in नेर्गदनद.. (8.4.16) sutra.

Vasu English Summary

In the remaining verbs, optionally the न of नि is replaced by ण , when it is preceded by an उपसर्ग competent to cause the change; provided that, in the original enunciation, the verb has not an initial क or ख , nor ends with ष।

Vasu English Translation

In the remaining verbs, optionally the न of नि is replaced by ण , when it is preceded by an उपसर्ग competent to cause the change; provided that, in the original enunciation, the verb has not an initial क or ख , nor ends with ष। The words नेः and उपसर्गात् are understood in the sutra. The word शेषे means verbs other than those mentioned last. Thus प्रणिपचति or प्रनिपचति, प्रणिभिनत्ति or प्रनिभिनत्ति ॥

Why do we say अकखादौ “not beginning with क or ख”? Observe प्रनिकरोति, प्रनिखादति ॥ Here there is no change.

Why do we say अषान्तः “not ending in ष”? Observe प्रनिपिनष्टि ॥

Why do we say उपदेशे “in original enunciation”? So that the prohibition may apply to forms like प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति (8.2.41). Here चकार &c, do not begin with क or ख nor does पिष् end with ष् but with क् (8.2.41) but in the Dhatupatha the verb कृ and खद् begin with क and ख and पिष् ends with ष्, and hence the rule will not apply. So also in प्रणिवेष्टा and प्रणिवेक्ष्यति from the root विश् ॥ Here though the verb now ends with ष by (8.2.36), yet in the original enunciation or Dhatupatha, it ends with श ॥

Kashika

नेरिति वर्तते, उपसर्गादिति च। अककारादिरखकारादिरषान्त उपदेशे यो धातुः शेषस्तस्मिन् परत उपसर्गस्थाद् निमित्तादुत्तरस्य नेर्नकारस्य विभाषा णकार आदेशो भवति। प्रणिपचति, प्रनिपचति। प्रणिभिनत्ति, प्रनिभिनत्ति। अकखादाविति किम्? प्रनिकरोति। प्रनिखादति। अषान्त इति किम् ? प्रनिपिनष्टि। उपदेशग्रहणं किम्? इह च प्रतिषेधो यथा स्यात् — प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यतीति। इह च मा भूत् — विशेः — प्रणिवेष्टा॥

Siddhanta Kaumudi

उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ 1 ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च - उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ 1 ॥ इति ।{$ {!2 एध!} वृद्धौ $}। कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥

Balamanorama

शेषे विभाषाऽकखादावषान्त उपदेशे - शेषे विभाषा । अकखादाविति च्छेदः ।नेर्गदनदे॑ति पूर्वसूत्रोक्कतधातुभ्योऽन्यः शेषः । तदाह — गदनदादेरन्यस्मिन्निति । ननु णत्वप्रकरणं संहिताधिकारस्थं, ततश्चाऽविवक्षितायां संहितायामुपसर्गात्परत्वाऽभावाण्णत्वाऽभावः, विवक्षितायां तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह — इहोपसर्गाणामिति । उक्तमिति ।हरिणे॑ति शेषः । अत्र ‘एकपदे’ इत्येन अखण्डं पदं विवक्षितं, ‘नित्यासमासे’ इति लिङ्गात् । अखण्डत्वं च पदभिन्नोत्तरखण्डकत्वम् । अन्यथाराजीयती॑त्यादौ ‘अतो गुणे’ इति शपा पररूपमेकादेशः पक्षे न स्यात् । अर्थनिर्देशश्चेति । धातुपाठेभू सत्ताया॑मित्याद्यर्थनिर्देश इत्यर्थः । उपलक्षणमिति । प्रदर्सनमात्रमित्यर्थः । नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह — यागादिति । न चयागात्स्वर्गो भवती॑त्यादावुत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यं, प्रयोगप्राचुर्यसत्त्वात् । पाणिनिर्हि धातुपाठे धातुन् कांश्चिदर्थसहितान्कांश्चिदर्थरितान्पठतीति ‘चुटू’ इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गः शङ्क्यः,अनेकार्था अपि धातवो भवन्ती॑ति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः । सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः । एवं च ‘सेधतेर्गता’ विति सूत्रे गतावित्युपादानात्षिध गत्यामित्यर्थनिर्देशोऽपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवीत्यादौ उपसर्गा व्यर्था इत्यत आह — उपसर्गास्त्विति । उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेःउद्भवती॑त्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः । द्योतकत्वं वा तेषां किमर्थं स्वीकार्यमित्यत आह — प्रभवतीत्यादि । प्रभवतीत्यादि । प्रभवः — प्रकाशः उत्पत्तिः शक्तिर्वा । पराभवः — पराजयः । सम्भवः-सम्भावना । अनुभवः — उपभोगः । अभिभवः — हिंसा । उद्भवः — उत्पत्तिः । परिभवः — तिरस्कारः । उक्तं चेति ।हरिणे॑ति शेषः । प्रहारः — कशाद्याद्यातः । आहारो — भक्षणम् । संहारः — वधः । विहारः- क्रीडा । परिहारः- परित्यागः । इति भूधातुप्रक्रिया । एध वृद्धाविति । जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति षह्भावविकाराः । तत्र चतुर्थावस्था वृद्धिरुपचयः । कत्थ्यन्ता इति ।कत्थ श्लाघाया॑मित्यन्ता इत्यर्थः । अनुदात्तेत इति । ततस्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते —

Tattvabodhini

शेषे विभाषाऽकखादावषान्त उपदेशे - ॒नेर्गदनदे॑ति सूत्रोक्तापेक्षया शेष इत्याह — गदनदादेरन्यस्मिन्निति । उपदेशे किम् । प्रनिचकार प्रनिचखादेत्यत्रापि निषेधो यथा स्यात् । अषान्तेति किम् । प्रनिपिनष्टि । उपदेशग्रहणात् — प्रनिपेक्ष्यते ।चक्षिङः क्शाञ् ।प्रनिचक्शे॑इत्यत्रापि निषेधः । शेषग्रहणं स्पष्टार्थम् । णत्वशास्त्रे संहितायामित्यधिकारात्संहितायामववक्षितायां णत्वाऽभावः, संहितायां तु णत्वमिति विकल्पसिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह — इहोपसर्गाणामित्यादि । एकपद इत्येनैव सिद्धे समासग्रहणं गोबलीवर्दन्यायेनेति बोध्यम् । वाक्ये त्विति । सा संहिता विवक्षाधीना न त्वत्र नित्येत्यर्थः । उपलक्षममिति । एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्रकुर्द खुर्द गुर्द गुद क्रीडायामेवे॑त्येवकारो ज्ञापकः ।सेधतेर्गतौ॑ इति सूत्रे गतावित्येतदपिषिध गत्या॑मित्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते नान्थेति दिक् । उत्पद्यत इत्याद्यर्थादिति । एवं च उपसर्ग विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः । उपसर्गेण धात्वर्थ इति । अत एवाऽमरेणाप्युक्तं — स्दाभाषणमालापः, प्रलापोऽनर्थकं वचः । अनुलापो मुहुर्भाषा, विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः, संलापो भाषणं मिथः । सुप्रलापः सुवचनमपलापस्तु निह्नवः॑इति ।

Padamanjari

ठकखादावषान्तेऽ इति चोपसर्गसन्निधापितस्य धातोर्विशेषणमित्याह - अकखादिरषान्त उपदेशे यो धातुरिति । आदिग्रहणं शक्यमकर्तुम्, ठकखे इति वक्तव्यम्,’यस्मिन्विधिस्तदादावल्ग्रहणे’ । अन्तग्रहणं तु कर्तव्यम्, असति हि तस्मिन्न ज्ञायते - केन तदादिविधिः, केन वा तदन्तविधिरिति । शेषग्रहणं किम् ? गदादिषु मा भूत् । यदि तेष्वपि स्यात्, पूर्वयोगो निर्विषयः स्यात्;तस्माच्छेष इति शक्यमवक्तुम् । प्रनिपेक्ष्यतीति ।’षढो कः सि’ इति कत्वे कृते सम्प्रत्यषान्तो भवति । प्रनिचकारेति ।’कुहोश्चुः’ इत्यभ्यासस्य चुत्वे कृते सम्प्रत्ययं न ककारादिर्भवति । प्रणिवेष्टेति ।’व्रश्च’ इत्यादिषत्वे कृते सम्प्रति षान्तो भवति, उपदेशे त्वषान्तत्वाण्णत्वं भवति ॥

Nyaas

उपसर्गात् (8.4.14) इति वर्तते। उपसर्गत्वं च यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति भवति। धातुरेव क्रियावची, तमेव प्रति प्रादीनामुपसरग्त्वम्। ततश्चोपसर्गग्रहणेन धातौ सन्निधापिते तस्यैवाकखादित्वमषान्तत्वं च विशेषणं विज्ञायते, इत्यत आह -अककारादिरखकारादिरषान्त उपदेशे यो धातुः इति। आद्यन्तग्रहणे उभे अपि विस्पष्टार्थे; अकखे अषे इत्येषं सिद्धत्वात्। यदि सर्वैरेवाककारादिभिस्तदादिधिधिस्तदन्तविधिर्वा स्यात्, तदा सर्वेषां द्वन्द्वं कृत्वा अकखषे इत्येवं ब्राऊयात्। अकखे अषे इति वचनात्? केनचित्? तदादिविधिः, केनचित्? तदन्तविधिरिति विज्ञायते। अत्र त्वेतावान्? सन्देहः स्यात् -केन तदादिविधिः, केन वा तदन्तविधिरिति, स चापि व्यास्यानान्निवर्त्तिष्यत इति। शेषग्रहणमिति स्पष्टार्थम्। यदि च गदादिषु विभाषा स्यात्, पूर्वयोगो निरर्थकः स्यात्। उपदेशग्रहणमपि स्पष्टार्थमेव। शक्यते तद्धि उपसर्गादसमासेऽपि णोपदेशस्य (8.4.14) इत्यतोऽनुवर्तयितुमुपदेशग्रहणं मण्डूकप्लुतिन्यायेन।प्रनिपिनष्टि इति। पिष्लृ सञ्चूर्णने (धातुपाठः-1452), रुधादिभ्यः श्नम् (3.1.78) । इह च प्रतिषेधः इत्यादि। प्रतिपेक्ष्यति इति। पिणेः षकारस्य षढोः कः सि (8.2.41) इति कत्वेऽकखादित्वादवान्तत्वाच्चासत्युपदेशग्रहणे प्रतिषेधो न स्यात्। अस्मस्तु सति न भवति, उपदेशे षकारान्तत्वादिति। इह च मा भूत् इति। प्रतिषेध इत्यपेक्ष्यते। प्रणिदेष्टा इति। अत्र विश प्रवेशने (धातुपाठः-1424) इत्येतस्य व्रश्चादिसूत्रेण (8.2.36) षत्वे कृते षकारान्तत्वादुपदेशग्रहणेऽसति प्रतिषेधः स्यात्। अस्मस्तु सति न भवति। अपि चोपदेशग्रहणेऽसति प्रणिचकार, प्रचिचखादेत्यभ्यासस्य कुहोश्चुः (7.4.62) इति चुत्वे प्रतिषेधो न स्यात्; अकखादित्वात्। अस्मस्तु सति भवति॥

Prakriyasarvasvam

उपदेशे कादिखादिषान्तवर्जितेषु गदनदादेरन्येषु धातुषु परेषु उपसर्गस्था- न्निमित्तात् परस्य नेर्णत्वं वा स्यात् । प्रणिभवति, प्रनिभवति । इत्यादि ज्ञेयम् । प्रतिकरोति, प्रनिखादति, प्रनिपिनष्टीत्येतेषु न । इति ॥ इहाभिभवति शत्रुमित्यत्र परावर्तनात्मकः कर्मस्थव्यापारोऽस्तीति तत्र कर्मकर्तोच्यते । <karika>फलोन्मुखैर्हि कर्मादिव्यापारैरभिसंवृतः । कर्तृव्यापार एवार्थः प्राधान्यात् सर्वधातुषु ।। ६७७ ।। कर्मादेरानुगुण्यात्तु सौकर्यप्रतिपादने । तत्तद्व्यापारमात्रार्थे धातुरेष प्रवर्तते ।। ६७८ ।। स्वव्यापारे च कर्तृत्वं भजन्ते करणादयः । एधः पचति च स्थाली पचत्यन्नं तु पच्यते ।। ६७९ ।। सम्यग् ज्वलत्युद्वहतीत्यर्थो विक्लिद्यतीति च । एवं हि कर्म कर्तुश्च कर्तृत्वात् कर्त्तरीह लः ।। ६८० ।।</karika> ततश्च लस्य कर्तृकार्ये प्राप्ते—

Sutra Prayogas

  • प्रणियातुम् (भट्टिकाव्यम्): शेषे विभाषा इत्यादिना णत्वम्।