84018: शेषे विभाषाऽकखादावषान्त उपदेशे ===================================== **Padacheda:** शेषे | S | 7 | 1 | विभाषा | S | 1 | 1 | अकखादौ | S | 7 | 1 | अषान्ते | S | 7 | 1 | उपदेशे | S | 7 | 1 | Sutrartha --------- **उपदेश-अवस्थायाम् यः धातुः अककारादिः /अखकारादिः/ अषकारान्तः तथा **नेर्गदनद..** (8.4.16) इत्यत्र च न निर्दिष्टः अस्ति, तेन सह प्रयुक्तस्य 'नि' उपसर्गस्य णत्वनिमित्तक-उपसर्गस्य उपस्थितौ वैकल्पिकं णत्वं भवति ।** औपदेशिक-अवस्थायाम् यः धातुः (1) ककारादिः नास्ति, (2) खकारादिः नास्ति, (3) षकारान्तः नास्ति, तथा च (4) **नेर्गदनद...** (8.4.17) अस्मिन् सूत्रे निर्दिष्टः नास्ति, सः धातुः यदि रेफ/षकार/ऋकारयुक्तात् उपसर्गात् परः आगच्छति, तर्हि तस्मात् पूर्वस्य 'नि' उपसर्गस्य वैकल्पिकं णत्वं भवति । यथा - 'प्र + नि + भवति' - इत्यत्र भू धातुः ककारादिः खकारादिः, षकारान्तः च नास्ति, **नेर्गदनद...** (8.4.17) अस्मिन् सूत्रे अपि निर्दिष्टः नास्ति । अतः अत्र 'नि' उपसर्गस्य नकारस्य 'प्र' इत्यस्थेन रेफेण वैकल्पिकं णत्वं विधीयते । अतः अत्र 'प्रणिभवति' , 'प्रनिभवति' इति रूपद्वयं जायते । अन्यानि कानिचन उदाहरणानि - प्रणिपचति/प्रनिपचति , परिणिपचति/परिनिपचति, प्रणिभिनत्ति/प्रनिभिनत्ति, परिणिभिनत्ति/परिनिभिनत्ति, प्रणिजहाति/परिनिजहाति, परिणिजहाति,परिनिजहाति । ज्ञातव्यम् - 1. ककारादेः / खकारादेः / षकारान्तस्य धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - प्रनिकरोति, प्रनिखादति, ('प्र + नि + पिष्' इत्यस्य प्रथमपुरुषैकवचनम् -) प्रनिपिनष्टि । 2. अस्मिन् सूत्रे 'उपदेशे' इति उक्तमस्ति । अतः अत्र धातोः औपदेशिकरूपस्य (मूलरूपस्य) ग्रहणं भवति । औपदेशिक-अवस्थायाम् यदि धातौ इत्संज्ञकवर्णः अस्ति तर्हि तस्य लोपं कृत्वा एव आदिवर्णस्य / अन्त्यवर्णस्य निश्चयः करणीयः । यथा, डुकृञ् (करणे) इत्यस्य आदिवर्णः ककारः अस्ति, अन्तिमवर्णः ऋकारः अस्ति । 3. अस्य सूत्रस्य प्रयोगे एतत् आवश्यकम् यत् औपदेशिक-अवस्थायाम् धातुः ककारादिः / खकारादिः / षकारान्तः भवेत् । 'धातुरूप'स्य आदिवर्णः / अन्त्यवर्णः कः अस्ति तस्य चिन्तनमत्र न आवश्यकम् । यथा - (अ) प्रनिचकार । अत्र धातुः 'कृ' इति ककारान्तः अस्ति, अतः यद्यपि धातुरूपम् (चकार) इति ककारान्तम् नास्ति, तथाप्यत्र णत्वं न दृश्यते । (आ) प्रणिवेष्टा। अत्र यद्यपि धातुरूपम् (वेष्) षकारान्तं दृश्यते, तथाप्यत्र मूलधातुः 'विश्' इति शकारान्तः अस्ति, अतः अत्रापि णत्वं भवति । 4. अस्मिन् सूत्रे 'शेषे' इति निर्दिष्टमस्ति । अत्र 'शेष' इत्यनेन तेषां धातूनाम् ग्रहणं भवति येषां **नेर्गदनद...** (8.4.17) इत्यत्र ग्रहणम् न क्रियते । विशेषः - **नेर्गदनद...** (8.4.17) इति पूर्वसूत्रेण तथा **शेषे विभाषा...** (8.4.18) इति वर्तमानसूत्रेण मिलित्वा अयमर्थः जायते - णत्वनिमित्तकात् उपसर्गात् परः 'नि' इति उपसर्गः अस्ति, तस्मात् परः च धातुः अस्ति, तर्हि - 1) यदि सः धातुः **नेर्गदनद...** (8.4.17) अस्मिन् सूत्रे निर्दिष्टः अस्ति तर्हि 'नि' उपसर्गस्य नित्यं णकारादेशः भवति । यथा - प्रणिगदति । 2) अन्यथा, यदि सः धातुः औपदेशिक-अवस्थायाम् ककारादिः अस्ति / खकारादिः अस्ति / षकारान्तः अस्ति, तर्हि 'नि' उपसर्गस्य णकारादेशः न भवति । यथा - प्रनिखादति । 3) अन्यथा, 'नि' उपसर्गस्य विकल्पेन णकारादेशः भवति । यथा - प्रनिभवति, प्रणिभवति । Sutrartha (English) ------------------- A णत्वनिमित्तक उपसर्ग causes an optional णत्व of the उपसर्ग 'नि' attached to the verbs that are not ककारादि, not खकारादि, not षकारान्त and not mentioned in **नेर्गदनद..** (8.4.16) sutra. Vasu English Summary -------------------- In the remaining verbs, optionally the न of नि is replaced by ण , when it is preceded by an उपसर्ग competent to cause the change; provided that, in the original enunciation, the verb has not an initial क or ख , nor ends with ष। Vasu English Translation ------------------------ In the remaining verbs, optionally the न of नि is replaced by ण , when it is preceded by an उपसर्ग competent to cause the change; provided that, in the original enunciation, the verb has not an initial क or ख , nor ends with ष। The words नेः and उपसर्गात् are understood in the *sutra*. The word शेषे means verbs other than those mentioned last. Thus प्रणिपचति or प्रनिपचति, प्रणिभिनत्ति or प्रनिभिनत्ति ॥ Why do we say अकखादौ "not beginning with क or ख"? Observe प्रनिकरोति, प्रनिखादति ॥ Here there is no change. Why do we say अषान्तः "not ending in ष"? Observe प्रनिपिनष्टि ॥ Why do we say उपदेशे "in original enunciation"? So that the prohibition may apply to forms like प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति (8.2.41). Here चकार &c, do not begin with क or ख nor does पिष् end with ष् but with क् (8.2.41) but in the *Dhatupatha* the verb कृ and खद् begin with क and ख and पिष् ends with ष्, and hence the rule will not apply. So also in प्रणिवेष्टा and प्रणिवेक्ष्यति from the root विश् ॥ Here though the verb now ends with ष by (8.2.36), yet in the original enunciation or *Dhatupatha*, it ends with श ॥ Kashika ------- नेरिति वर्तते, उपसर्गादिति च। अककारादिरखकारादिरषान्त उपदेशे यो धातुः शेषस्तस्मिन् परत उपसर्गस्थाद् निमित्तादुत्तरस्य नेर्नकारस्य विभाषा णकार आदेशो भवति। प्रणिपचति, प्रनिपचति। प्रणिभिनत्ति, प्रनिभिनत्ति। अकखादाविति किम्? प्रनिकरोति। प्रनिखादति। अषान्त इति किम् ? प्रनिपिनष्टि। उपदेशग्रहणं किम्? इह च प्रतिषेधो यथा स्यात् — प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यतीति। इह च मा भूत् — विशेः — प्रणिवेष्टा॥ Siddhanta Kaumudi ----------------- उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ 1 ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च - उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ 1 ॥ इति ।{$ {!2 एध!} वृद्धौ $}। कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥ Balamanorama ------------ **शेषे विभाषाऽकखादावषान्त उपदेशे** - शेषे विभाषा । अकखादाविति च्छेदः ।नेर्गदनदे॑ति पूर्वसूत्रोक्कतधातुभ्योऽन्यः शेषः । तदाह — गदनदादेरन्यस्मिन्निति । ननु णत्वप्रकरणं संहिताधिकारस्थं, ततश्चाऽविवक्षितायां संहितायामुपसर्गात्परत्वाऽभावाण्णत्वाऽभावः, विवक्षितायां तु णत्वमिति विकल्पसिद्धेः किमिह विभाषाग्रहणेनेत्यत आह — इहोपसर्गाणामिति । उक्तमिति ।हरिणे॑ति शेषः । अत्र 'एकपदे' इत्येन अखण्डं पदं विवक्षितं, 'नित्यासमासे' इति लिङ्गात् । अखण्डत्वं च पदभिन्नोत्तरखण्डकत्वम् । अन्यथाराजीयती॑त्यादौ 'अतो गुणे' इति शपा पररूपमेकादेशः पक्षे न स्यात् । अर्थनिर्देशश्चेति । धातुपाठेभू सत्ताया॑मित्याद्यर्थनिर्देश इत्यर्थः । उपलक्षणमिति । प्रदर्सनमात्रमित्यर्थः । नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह — यागादिति । न चयागात्स्वर्गो भवती॑त्यादावुत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यं, प्रयोगप्राचुर्यसत्त्वात् । पाणिनिर्हि धातुपाठे धातुन् कांश्चिदर्थसहितान्कांश्चिदर्थरितान्पठतीति 'चुटू' इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गः शङ्क्यः,अनेकार्था अपि धातवो भवन्ती॑ति भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतेः । सर्वेषु धातुष्वर्थनिर्देशस्त्वाधुनिकः । एवं च 'सेधतेर्गता' विति सूत्रे गतावित्युपादानात्षिध गत्यामित्यर्थनिर्देशोऽपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवीत्यादौ उपसर्गा व्यर्था इत्यत आह — उपसर्गास्त्विति । उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेःउद्भवती॑त्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः । द्योतकत्वं वा तेषां किमर्थं स्वीकार्यमित्यत आह — प्रभवतीत्यादि । प्रभवतीत्यादि । प्रभवः — प्रकाशः उत्पत्तिः शक्तिर्वा । पराभवः — पराजयः । सम्भवः-सम्भावना । अनुभवः — उपभोगः । अभिभवः — हिंसा । उद्भवः — उत्पत्तिः । परिभवः — तिरस्कारः । उक्तं चेति ।हरिणे॑ति शेषः । प्रहारः — कशाद्याद्यातः । आहारो — भक्षणम् । संहारः — वधः । विहारः- क्रीडा । परिहारः- परित्यागः । इति भूधातुप्रक्रिया । एध वृद्धाविति । जायते, अस्ति, विपरिणमते, वद्र्धते, अपक्षीयते, विनश्यतीति षह्भावविकाराः । तत्र चतुर्थावस्था वृद्धिरुपचयः । कत्थ्यन्ता इति ।कत्थ श्लाघाया॑मित्यन्ता इत्यर्थः । अनुदात्तेत इति । ततस्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपदप्रथमपुरुषैकवचने तादेशे शपि एधत इति स्थिते — Tattvabodhini ------------- **शेषे विभाषाऽकखादावषान्त उपदेशे** - ॒नेर्गदनदे॑ति सूत्रोक्तापेक्षया शेष इत्याह — गदनदादेरन्यस्मिन्निति । उपदेशे किम् । प्रनिचकार प्रनिचखादेत्यत्रापि निषेधो यथा स्यात् । अषान्तेति किम् । प्रनिपिनष्टि । उपदेशग्रहणात् — प्रनिपेक्ष्यते ।चक्षिङः क्शाञ् ।प्रनिचक्शे॑इत्यत्रापि निषेधः । शेषग्रहणं स्पष्टार्थम् । णत्वशास्त्रे संहितायामित्यधिकारात्संहितायामववक्षितायां णत्वाऽभावः, संहितायां तु णत्वमिति विकल्पसिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह — इहोपसर्गाणामित्यादि । एकपद इत्येनैव सिद्धे समासग्रहणं गोबलीवर्दन्यायेनेति बोध्यम् । वाक्ये त्विति । सा संहिता विवक्षाधीना न त्वत्र नित्येत्यर्थः । उपलक्षममिति । एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्रकुर्द खुर्द गुर्द गुद क्रीडायामेवे॑त्येवकारो ज्ञापकः ।सेधतेर्गतौ॑ इति सूत्रे गतावित्येतदपिषिध गत्या॑मित्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते नान्थेति दिक् । उत्पद्यत इत्याद्यर्थादिति । एवं च उपसर्ग विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः । उपसर्गेण धात्वर्थ इति । अत एवाऽमरेणाप्युक्तं — स्दाभाषणमालापः, प्रलापोऽनर्थकं वचः । अनुलापो मुहुर्भाषा, विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः, संलापो भाषणं मिथः । सुप्रलापः सुवचनमपलापस्तु निह्नवः॑इति । Padamanjari ----------- ठकखादावषान्तेऽ इति चोपसर्गसन्निधापितस्य धातोर्विशेषणमित्याह - अकखादिरषान्त उपदेशे यो धातुरिति । आदिग्रहणं शक्यमकर्तुम्, ठकखे इति वक्तव्यम्,'यस्मिन्विधिस्तदादावल्ग्रहणे' । अन्तग्रहणं तु कर्तव्यम्, असति हि तस्मिन्न ज्ञायते - केन तदादिविधिः, केन वा तदन्तविधिरिति । शेषग्रहणं किम् ? गदादिषु मा भूत् । यदि तेष्वपि स्यात्, पूर्वयोगो निर्विषयः स्यात्;तस्माच्छेष इति शक्यमवक्तुम् । प्रनिपेक्ष्यतीति ।'षढो कः सि' इति कत्वे कृते सम्प्रत्यषान्तो भवति । प्रनिचकारेति ।'कुहोश्चुः' इत्यभ्यासस्य चुत्वे कृते सम्प्रत्ययं न ककारादिर्भवति । प्रणिवेष्टेति ।'व्रश्च' इत्यादिषत्वे कृते सम्प्रति षान्तो भवति, उपदेशे त्वषान्तत्वाण्णत्वं भवति ॥ Nyaas ----- `उपसर्गात्` (8.4.14) इति वर्तते। उपसर्गत्वं च यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति भवति। धातुरेव क्रियावची, तमेव प्रति प्रादीनामुपसरग्त्वम्। ततश्चोपसर्गग्रहणेन धातौ सन्निधापिते तस्यैवाकखादित्वमषान्तत्वं च विशेषणं विज्ञायते, इत्यत आह -`अककारादिरखकारादिरषान्त उपदेशे यो धातुः` इति। आद्यन्तग्रहणे उभे अपि विस्पष्टार्थे; `अकखे अषे` इत्येषं सिद्धत्वात्। यदि सर्वैरेवाककारादिभिस्तदादिधिधिस्तदन्तविधिर्वा स्यात्, तदा सर्वेषां द्वन्द्वं कृत्वा `अकखषे` इत्येवं ब्राऊयात्। `अकखे अषे` इति वचनात्? केनचित्? तदादिविधिः, केनचित्? तदन्तविधिरिति विज्ञायते। अत्र त्वेतावान्? सन्देहः स्यात् -केन तदादिविधिः, केन वा तदन्तविधिरिति, स चापि व्यास्यानान्निवर्त्तिष्यत इति। शेषग्रहणमिति स्पष्टार्थम्। यदि च गदादिषु विभाषा स्यात्, पूर्वयोगो निरर्थकः स्यात्। उपदेशग्रहणमपि स्पष्टार्थमेव। शक्यते तद्धि **उपसर्गादसमासेऽपि णोपदेशस्य** (8.4.14) इत्यतोऽनुवर्तयितुमुपदेशग्रहणं मण्डूकप्लुतिन्यायेन।`प्रनिपिनष्टि` इति। `पिष्लृ सञ्चूर्णने` (धातुपाठः-1452), **रुधादिभ्यः श्नम्** (3.1.78) । `इह च प्रतिषेधः` इत्यादि। `प्रतिपेक्ष्यति` इति। पिणेः षकारस्य **षढोः कः सि** (8.2.41) इति कत्वेऽकखादित्वादवान्तत्वाच्चासत्युपदेशग्रहणे प्रतिषेधो न स्यात्। अस्मस्तु सति न भवति, उपदेशे षकारान्तत्वादिति। `इह च मा भूत्` इति। प्रतिषेध इत्यपेक्ष्यते। `प्रणिदेष्टा` इति। अत्र `विश प्रवेशने` (धातुपाठः-1424) इत्येतस्य व्रश्चादिसूत्रेण (8.2.36) षत्वे कृते षकारान्तत्वादुपदेशग्रहणेऽसति प्रतिषेधः स्यात्। अस्मस्तु सति न भवति। अपि चोपदेशग्रहणेऽसति प्रणिचकार, प्रचिचखादेत्यभ्यासस्य **कुहोश्चुः** (7.4.62) इति चुत्वे प्रतिषेधो न स्यात्; अकखादित्वात्। अस्मस्तु सति भवति॥ Prakriyasarvasvam ----------------- उपदेशे कादिखादिषान्तवर्जितेषु गदनदादेरन्येषु धातुषु परेषु उपसर्गस्था- न्निमित्तात् परस्य नेर्णत्वं वा स्यात् । प्रणिभवति, प्रनिभवति । इत्यादि ज्ञेयम् । प्रतिकरोति, प्रनिखादति, प्रनिपिनष्टीत्येतेषु न । इति ॥ इहाभिभवति शत्रुमित्यत्र परावर्तनात्मकः कर्मस्थव्यापारोऽस्तीति तत्र कर्मकर्तोच्यते । फलोन्मुखैर्हि कर्मादिव्यापारैरभिसंवृतः । कर्तृव्यापार एवार्थः प्राधान्यात् सर्वधातुषु ।। ६७७ ।। कर्मादेरानुगुण्यात्तु सौकर्यप्रतिपादने । तत्तद्व्यापारमात्रार्थे धातुरेष प्रवर्तते ।। ६७८ ।। स्वव्यापारे च कर्तृत्वं भजन्ते करणादयः । एधः पचति च स्थाली पचत्यन्नं तु पच्यते ।। ६७९ ।। सम्यग् ज्वलत्युद्वहतीत्यर्थो विक्लिद्यतीति च । एवं हि कर्म कर्तुश्च कर्तृत्वात् कर्त्तरीह लः ।। ६८० ।। ततश्च लस्य कर्तृकार्ये प्राप्ते— Sutra Prayogas -------------- * **प्रणियातुम्** (भट्टिकाव्यम्): `शेषे विभाषा` इत्यादिना णत्वम्।