84016: आनि लोट्¶
Padacheda: आनि | S | | | 6
लोट् | S | | | 6
Sutrartha¶
लोट्-लकारस्य ‘आनि’ इत्यस्य नकारस्य उपसर्गस्थ-रेफ/षकार-ऋवर्णेन णत्वं भवति ।
रेफ/षकार/ऋवर्णेन युक्तस्य उपसर्गस्य उपस्थितौ धातोः विहितस्य लोट्-लकारस्य उत्तमपुरुषैकवचनस्य ‘आनि’ प्रत्ययस्य नकारस्य णत्वं विधीयते । यथा - 1. ‘प्र + वप्’ धातोः लोट्लकारस्य उत्तमपुरुषैकवचनम् ‘प्रवपाणि’ इति । 2. ‘प्र + या’ इत्यस्य रूपम् ‘प्रयाणि’ इति । 3. ‘प्र + भू’ इत्यस्य रूपम् प्रभवाणि । ज्ञातव्यम् - 1. ‘प्रवप’ इति कश्चन नपुंसकलिङ्गशब्दः अपि अस्ति । एतस्य प्रथमाद्वितीयाबहुवचनं तु ‘प्रवपानि’ इत्येव भवति । अत्र ‘प्र’ तथा ‘वप’ एते द्वे पदे स्तः, अतः पूर्वपदस्थ-नकारेण नुमागमस्य णत्वं न जायते । 2. कौमुद्यामत्र वार्त्तिकद्वयम् पाठ्यते - (अ) <!दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः!> । इत्युक्ते, षत्वे णत्वे च कर्तव्ये दुस्-इत्यस्य, दुर्-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति । यथा - - ‘दुर् + भू’ इत्यस्य लोट्लकारस्य प्रथमपुरुषैकवचनम् ‘दुर्भवानि’ इति भवति । अत्र दुर्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि आनि लोट् (8.4.16) इत्यनेन नकारस्य णत्वमभविष्यत् । परन्तु णत्वे कर्तव्ये दुर्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र णत्वं न भवति । - ‘दुस् + स्था’ इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् ‘दुःस्थास्यति’ इति भवति । अत्र दुस्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि उपसर्गात् सुनोतिसुवति… (8.3.65) इत्यनेन स्था-इत्यस्य सकारस्य षत्वमभविष्यत् । परन्तु षत्वे कर्तव्ये दुस्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न भवति । (आ) <!अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वाच्यम्!> । इत्युक्ते, ‘अन्तर्’ शब्दस्य अङ्विधिकर्तव्ये, ‘कि’विधिकर्तव्ये, तथा णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । यथा - - अन्तर् + धा (= अन्तर्धा) इत्यत्र आतश्चोपसर्गे (3.3.106) इत्यनेन अङ्-प्रत्ययः भवितुमर्हति, यतः अङ्विधिकर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । - अन्तर् + धिः (= अन्तर्धिः) इत्यत्र उपसर्गे घोः किः (3.3.92) इत्यनेन कि (=इ) प्रत्ययः भवति । - ‘अन्तर् + भू’ अस्य लोट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ आनि लोट् (8.4.16) इत्यनेन णत्वम् भवितुमर्हति । एते द्वे अपि वार्त्तिके उपसर्गाः क्रियायोगे (1.4.59) इत्यत्रापि दत्ते स्तः ।
Sutrartha (English)¶
A रेफ present in an उपसर्ग causes the णत्व of नकार of the ‘आनि’ प्रत्यय of लोट्-लकार.
Vasu English Summary¶
The न of आनि , the affix of the Imperative, First Person, is changed into ण when it follows a letter competent to cause such a change standing in an उपसर्ग।
Vasu English Translation¶
The न of आनि , the affix of the Imperative, First Person, is changed into ण when it follows a letter competent to cause such a change standing in an उपसर्ग। The word आनि is the termination of the Imperative. Thus प्रवपाणि, परिवपाणि, प्रयाणि, परियाणि ॥
Why do we say ‘the Imperative’? Observe प्रवपानि मासानि ॥ Here आनि is the neuter plural termination, and the word means प्रकृष्टा वपा येषु, तानि ॥
According to Padamanjari, the employment of the word लोट् in the sutra is redundant. For without it also आनि would have meant the Imperative affix, and not the Neuter termination, on the maxim of अर्थवद् ग्रहणे &c. Moreover in the noun प्रवपानि, प्र is not an upasarga at all, on the maxim यत् क्रियायुक्ताः प्रादयस्तं प्रति गति-उपसर्ग-संज्ञे भवतः ॥
Bhashya¶
आनि लोट् लोडिति किमर्थम्?॥ प्रहिमानि कुलानि, प्रवपानि मांसानि॥ आनिलोड्ग्रहणानर्थक्यमर्थवद्ग्रहणात्॥ आनिलोड्ग्रहणमनर्थकम्॥ किं कारणम्?॥ अर्थवद्ग्रहणात्। अर्थवत आनिशब्दस्य ग्रहणं, नैषोऽर्थवान्। ॥ अनुपसर्गाद्वा॥ अथ वा यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो, न चैत मानिशब्दं प्रति क्रियायोगः॥ इहापि तर्हि न प्राप्नोति-प्रयाणि, परियाणीति, अत्रापि नाऽऽनिशब्दं प्रति क्रियायोगः॥ इहापि तर्हि न प्राप्नोति-प्रयाणि, परियाणीति, अत्रापि नाऽऽनिशब्दं प्रति क्रियायोगः॥ आनिशब्दं प्रत्यत्र क्रियायोगः॥ कथम्?॥ यत्क्रियायुक्ता(1) इति-नैवं विज्ञायते यस्य क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति॥ कथं तर्हि?॥ या क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति॥
Kashika¶
आनीत्येतस्य लोडादेशस्योपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रवपाणि। परिवपाणि। प्रयाणि। परियाणि। लोडिति किम्? प्रवपानि मांसानि॥
Siddhanta Kaumudi¶
उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि ।<!दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ दुःस्थितिः । दुर्भवानि ।<!अन्तः शब्दस्याङकिविधिणत्वेषूपसर्गत्वं वाच्यम् !> (वार्तिकम्) ॥ अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥
Laghu Siddhanta Kaumudi¶
उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि। दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः (वार्त्तिकम्)। दुःस्थितिः। दुर्भवानि। अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम् (वार्त्तिकम्)। अन्तर्भवाणि॥
Balamanorama¶
आनि लोट् - आनि लोट् । लोडिति आनीति च लुप्तषष्ठीकं पदम् । ‘रषाभ्यां नो ण’ इत्यनुवर्तते,उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तदाह — उपसर्गस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः ।अट्कुप्वाङ्नुम्व्यवायेऽपी॑ति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः षत्वेति । षत्वणत्वयोः कर्तव्योर्दुर उपसर्गत्वप्रतिषेध इत्यर्थः । दुःस्थितिरिति । अत्रोपसर्गात्सुनोतीति षत्वं न भवति । दुर्भवानीति । अत्राऽऽनि लोडिति णत्वं न भवति । अन्तःशब्दस्येति । अङ्विधौ किविधौ णत्वे च कर्तव्ये अन्तरित्यस्य उपसर्गत्वमित्यर्थ- । प्रादित्वाऽभावादप्राप्ते वचनम् । अन्तर्धेति ।स्त्रिया॑मित्यधकारे धाधातोः ‘आतश्चोपसर्गे’ इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । अन्तर्भवाणीति ।आनि लो॑डिति णत्वम् ।
Tattvabodhini¶
आनि लोट् - ॒नि लो॑ डित्येव वक्तव्ये आनिग्रहणमागमशास्त्रस्याऽनित्यतां ज्ञापयितुम् । तेनसागरं तर्तुकामस्य॑जप्त्वा स्तोत्र॑मित्यादि सिध्यति । लोड्ग्रहणं स्पष्टप्रतिपत्त्यर्थम् । न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम्, उपसर्गग्रहणादर्थवद्ग्रहणाऽच्चास्याऽप्रवृत्तेः ।प्रातिपदिकान्ते॑ति वैकल्पिकणत्वं त्विष्वत एव ।दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः । दुरः षत्वेति ।दुरः परस्य णत्वं नेति केचि॑दिति प्राचोक्तं त्वयुक्तम् । एवं हि सिद्धान्ते णत्वं स्यात्, तच्चाकारविरुद्धमिति भावः ।अन्तः शब्दस्याऽङ्किविधिणत्वेषूपसर्गत्वं वाच्यम् । अन्तर्द्धेति ।आतश्चोपसर्गे॑ इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । श्रच्छब्दस्याङ्विधावुपसर्गत्वमुपसङ्ख्यायते तत्तु प्रकृतानुपयोगादुपेक्षितम् । भिदादिपाठेन,प्रज्ञाश्रद्धे॑ति निपातनेन वा गतार्थत्वाच्च ।
Padamanjari¶
प्रवपाणीति । वपेर्लोट्,’मेर्निः’ । ठाडुतमस्य पिच्चऽ, प्रयाणीति याते रूपम् । प्रवपानीति । प्रकृष्टा वपा येषु तानि प्रवपानि । आनिलोड्ग्रहणमनर्थकम्; अर्थवद्ग्रहणात्, अर्थवत आनिशब्दस्य ग्रहणम्, न चैषोऽर्थवान् । अनुपसर्गाद्वा, यत् क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञे भवतः, न चैतमानिशब्द प्रति क्रियायोगः, तदन्तं तु प्रति भवति । कथं नैवं विज्ञायते - यस्य क्रिया यत्क्रिया, यत्क्रियायुक्ता इति ? कथं तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ता इति, प्रयोगविषया च क्रिया न क्वचिदसंसृष्टास्तीति समुदायस्याश्रीयत इति आनिशब्दान्तं समुदायं प्रति क्रियायोगः । तत्रायं च सूत्रार्थः - उपसर्गात् परस्यावयवो य आनिशब्दस्तन्नकारस्य णत्वमिति । तदेवं प्रत्याख्यातं लोड्ग्रहणम् ॥
Nyaas¶
प्रवपाणि इति। वपेर्लोट्। मिप्। मेर्निः (3.4.89) । आडुत्तमस्य पिच्च` (3.4.92) इत्याट्। प्रयाणि इति। या प्रापणे (धातुपाठः-1049)। प्रवपानि मांसानि इति। प्रकृष्टा वपा येषामिति बहुव्रीहिः, जश्शसोः शि (7.1.20) इति शिरादेशः, नपुंसकस्य झलचः (7.1.72) इति नुम्, सर्वनामस्थाने चासम्बुद्धौ (6.4.8) इति दीर्घः -प्रवपानीति। अत्र लोड्ग्रहणान्न भवति। प्रातिपदिकान्तनुम्विभक्तकिषु च (8.4.11) इत्यनेन तर्हि कस्मान्न भवतीति? भवत्येव पक्षे। ननु चोपसर्गादिति वर्तते, न चानिं प्रति प्रशब्दस्योपसर्गत्वम्। किं तर्हि? अपिं [कृषिं इति प्रांउ।पाठः] प्रति, तस्मादुपसर्गत्वाभावादेव न भविष्यतीति किं लोङ्ग्रहणेन? नैतदस्ति; मूलोदाहरणेष्वपि तर्हि न स्यात्। अत्र हि धातुं प्रत्युपसर्गत्वम्, नानिं प्रति। तस्मात्? सामर्थ्यादिहोपसर्गग्रहणमनुवर्तमानं प्राद्युपलक्षणार्थं विज्ञायते, -यथा -अञ्नासिकायाः संज्ञायां नसञ्चास्थूलात् (5.4.118) । उपसर्गाच्च (5.4.119) इत्यत्रोपसर्गग्रहणं प्राद्युपलक्षणार्थम्। ततश्चासति लोज्ग्रहणे स्यादेव णत्वमिति तन्निवृत्त्यर्थं लोडित्युच्यते। नन्वेवयपि न कर्तव्यं लोड्ग्रहणम्, अर्थवद्ग्रहणे नानर्थकस्य (व्या।प।1) इत्यर्थवतो ह्रानिशब्दस्येदं ग्रहणम्, न हि प्रवपानि मांसानीत्यत्रानिशब्दोऽर्थवान्, किं तर्हि? इकारः? एवं तह्र्रतज्ज्ञापयति -अनित्यैषा परिभाषेति। तेन इन्हन्पूषार्यम्णां शौ (6.4.12) इत्यत्रानर्थकस्यापीनो ग्रहणे सति बहुवाग्मीनि ब्राआहृणकुलानीत्यत्रापि दीर्घत्वं सिद्धं भवति।आनीत्याकारोच्चारणं किमर्थम्? यदाऽडागमो न भवति तदा शुद्धस्य निशब्दस्य स्यादित्येवमर्थम्। [भूदित्येवमर्थम् -प्रांउ।पाठः]ननु च नित्यमेवाडागमेव भवितव्यम्, न हि तद्विधौ विकल्पोऽस्ति? एवं तह्र्रेतज्ज्ञापयति -अनित्यमागमशासनमिति। तेनापि `शाकं पचानस्य सुखा वै मधवन्? गृहाः इत्यादयः प्रयोगाः सिद्धा भवन्तीति॥
Prakriyasarvasvam¶
उपसर्गस्थान्निमित्तात् परस्य लोडादेशस्यानीत्यस्य णत्वं स्यात् । प्रभवाणि । अन्तरो णत्व उपसर्गत्वात् । अन्तर्भवाणि । ‘लङ्वदि’ति सलोपः । आट् । भवाव, भवाम । तङां तु टेरेत्वे लङ्वत् कृते—
Sutra Prayogas¶
प्रवपाणि (भट्टिकाव्यम्): आनि लोट् इति णत्वम्।
प्रवपाणि (भट्टिकाव्यम्): आनि लोट् इति णत्वम्।