84015: हिनुमीना¶
Padacheda: हिनु | S | | | 6
मीना | S | | | 6
Sutrartha¶
णत्वनिमित्तकात् उपसर्गात् परस्य हि-धातोः मी-धातोः च नकारस्य णत्वं भवति ।
‘हि गतौ वृद्धौ च’ अयं स्वादिगणस्य धातुः । तथा ‘मीञ् हिंसायाम्’ अयं क्र्यादिगणस्य धातुः । एतयोः परयोः गणविकरणनिमित्तकः यः नकारः आगच्छति, तस्य रेफयुक्तस्य उपसर्गस्य उपस्थितौ णत्वं भवति । यथा - 1. ‘प्र + हि’ इत्यस्य लट्-लकारस्य रूपाणि - प्रहिणोति, प्रहिणुतः, प्रहिण्वन्ति … । 2. ‘प्र + मी’इत्यस्य परस्मैपदस्य लट्-लकारस्य रूपाणि - प्रमीणाति , प्रमीणीतः, प्रमीणन्ति … । ज्ञातव्यम् - सूत्रे प्रयुक्तौ ‘हिनु’ तथा ‘मीना’ एतौ शब्दौ धात्वोः गणविकरणाभ्यां सह कृतौ निर्देशौ स्तः ।
Sutrartha (English)¶
The नकार associated with the forms of the verbs हि and मी is converted to णकार in presence of a रेफयुक्त उपसर्ग.
Vasu English Summary¶
The न of हिनु and मीना is changed to ण , when coming after an उपसर्ग containing in it a cause of change.
Vasu English Translation¶
The न of हिनु and मीना is changed to ण , when coming after an उपसर्ग containing in it a cause of change. Thus प्रहिणोति, प्रहिणुतः, प्रमीणाति, प्रमीणीतः ॥ The root हि belongs to Svadi class of verbs and takes the vikarana नु technically श्नु; and the root मी belongs to Kryadi class which takes the vikarana श्ना ॥ In the sutra the verbs are shown with the vikaranas affixed. Under certain circumstances the forms of the vikarana is changed from नु to नो and ना to नी, but the rule still applies, because the substitute of an अच् or vowel is like the principal. See (l. I.57).
Bhashya¶
हिनुमीना ॥ हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानम्॥ हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानं कर्त्तव्यम्। प्रहिणोति प्रमीणीते॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्?॥ प्रहिणुतः प्रमीणाति॥ सिद्धमचः स्थानिवत्त्वात्॥ सिद्धमेतत्॥ कथम्?॥ अचः स्थानिवत्त्वात्। स्थानिवद्भावादत्र णत्वं भविष्यति॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति॥ दोषा एवैते तस्याः परिभाषायाः-तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥ (हिनुमीना)।
Kashika¶
हिनु मीना इत्येतयोरुपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रहिणोति, प्रहिणुतः। प्रमीणाति, प्रमीणीतः। हिनुमीनाग्रहणे विकृतस्यापि भवति, अजादेशस्य स्थानिवत्त्वात्॥
Siddhanta Kaumudi¶
उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥
Laghu Siddhanta Kaumudi¶
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ {$ {! 5 षिञ् !} बन्धने $} (धातुपाठे (09.0005)) ॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ {$ {! 6 स्कुञ् !} आप्लवने $} (धातुपाठे (09.0006)) ॥
Balamanorama¶
हिनुमीना - हिनुमीना । हिनु मीना अनयोद्र्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक् । ‘रषाभ्यां नो णः’ इत्यनुवर्तते । ‘उपसर्गादसमासेऽपि’ इत्यत उपसर्गादिति च । तदाह — उपसर्गस्थादिति ।
Tattvabodhini¶
हिनुमीना - हिनु मीना । प्रमीणति ।
Nyaas¶
प्रणिणोति इति। हि गतौ [गतौ वृद्धौ च -धातुपाठः-] (धातुपाठः-1257), स्वादिभ्यः श्नुः (3.1.73) , गुणः। प्रमीणाति इति। मी हिंसायाम् [मीञ् -धातुपाठः-] (धातुपाठः-1476), क्र्यादित्वात्? शना। प्रमीणीतः इति। ई हल्यघोः (6.4.113) इतीत्वम्। अथ कथं प्रहिणोति, प्रमीणीत इत्यत्र णत्वम्, यावता हिनुमीना इति स्वरूपयोग्र्रहणम्, न चात्र गुणादौ विकारे कृते ते रूपे स्तः; तस्माच्चात्रैव भवितव्यम् -प्रहिणुतः, प्रमीणातीति? अजादेशस्य स्थानिवद्भावात्, एकदेशविकृतस्यानन्यत्वाद्वा भविष्यतीत्यदोषः। ननु प्रतिषिध्यते स्थानिवद्भावः -पूर्वत्रासिद्धीये न स्थानिवत् (जै।प।वृ।48) इति? दोव एवायमत्याः परिभाषायाः; तथा चोक्तम् -अस्या दोषः संयोगादिलोपत्वणत्वेषु [तस्य -इति वार्तिके पाठः] (1.1.59 वा।9।) इति। अथ हिमीभ्याम् इत्येवं कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्, अविकरणनकारस्यापि स्यात् -प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, अन्येभ्योऽपि दृश्यन्ते अविकरणनकारस्यापि स्यात् -प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, अन्येभ्योऽपि दृश्यन्ते (3.2.75) इति विच्। गुणः। प्रमीणातीत#इ प्रमीः, क्विप्। प्रहेर्नर्दनम्, प्रम्यो नर्दनमिति षष्ठीसमासः॥
Prakriyasarvasvam¶
उपसर्गस्थात् परस्य हिनुमीनेत्यनयोः नस्य णः स्यात् । प्रहिणोति । एवं मीङ् हिंसायाम् । प्रमीणाति । लुङि अहैषीत् । अहेष्टाम् । लिटि,
Sutra Prayogas¶
प्रहिणु (भट्टिकाव्यम्): हिनु मीना इति णत्वम् ॥
प्रहिण्वन्तो (भट्टिकाव्यम्): हिनु मीना इति णत्वम्।