84016: आनि लोट् =============== **Padacheda:** आनि | S | | | 6 लोट् | S | | | 6 Sutrartha --------- **लोट्-लकारस्य 'आनि' इत्यस्य नकारस्य उपसर्गस्थ-रेफ/षकार-ऋवर्णेन णत्वं भवति ।** रेफ/षकार/ऋवर्णेन युक्तस्य उपसर्गस्य उपस्थितौ धातोः विहितस्य लोट्-लकारस्य उत्तमपुरुषैकवचनस्य 'आनि' प्रत्ययस्य नकारस्य णत्वं विधीयते । यथा - 1. 'प्र + वप्' धातोः लोट्लकारस्य उत्तमपुरुषैकवचनम् 'प्रवपाणि' इति । 2. 'प्र + या' इत्यस्य रूपम् 'प्रयाणि' इति । 3. 'प्र + भू' इत्यस्य रूपम् प्रभवाणि । ज्ञातव्यम् - 1. 'प्रवप' इति कश्चन नपुंसकलिङ्गशब्दः अपि अस्ति । एतस्य प्रथमाद्वितीयाबहुवचनं तु 'प्रवपानि' इत्येव भवति । अत्र 'प्र' तथा 'वप' एते द्वे पदे स्तः, अतः पूर्वपदस्थ-नकारेण नुमागमस्य णत्वं न जायते । 2. कौमुद्यामत्र वार्त्तिकद्वयम् पाठ्यते - (अ) । इत्युक्ते, षत्वे णत्वे च कर्तव्ये दुस्-इत्यस्य, दुर्-इत्यस्य च उपसर्गसंज्ञायाः प्रतिषेधः भवति । यथा - - 'दुर् + भू' इत्यस्य लोट्लकारस्य प्रथमपुरुषैकवचनम् 'दुर्भवानि' इति भवति । अत्र दुर्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि **आनि लोट्** (8.4.16) इत्यनेन नकारस्य णत्वमभविष्यत् । परन्तु णत्वे कर्तव्ये दुर्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र णत्वं न भवति । - 'दुस् + स्था' इत्यस्य लृट्लकारस्य प्रथमपुरुषैकवचनम् 'दुःस्थास्यति' इति भवति । अत्र दुस्-इत्यस्य यदि उपसर्गसंज्ञा अभविष्यत्, तर्हि **उपसर्गात् सुनोतिसुवति...** (8.3.65) इत्यनेन स्था-इत्यस्य सकारस्य षत्वमभविष्यत् । परन्तु षत्वे कर्तव्ये दुस्-इत्यस्य उपसर्गसंज्ञायाः प्रतिषेधः भवति, अतः अत्र षत्वं न भवति । (आ) । इत्युक्ते, 'अन्तर्' शब्दस्य अङ्विधिकर्तव्ये, 'कि'विधिकर्तव्ये, तथा णत्वे कर्तव्ये उपसर्गसंज्ञा भवति । यथा - - अन्तर् + धा (= अन्तर्धा) इत्यत्र **आतश्चोपसर्गे** (3.3.106) इत्यनेन अङ्-प्रत्ययः भवितुमर्हति, यतः अङ्विधिकर्तव्ये अन्तर्-शब्दस्य उपसर्गसंज्ञा भवति । - अन्तर् + धिः (= अन्तर्धिः) इत्यत्र **उपसर्गे घोः किः** (3.3.92) इत्यनेन कि (=इ) प्रत्ययः भवति । - 'अन्तर् + भू' अस्य लोट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ **आनि लोट्** (8.4.16) इत्यनेन णत्वम् भवितुमर्हति । एते द्वे अपि वार्त्तिके **उपसर्गाः क्रियायोगे** (1.4.59) इत्यत्रापि दत्ते स्तः । Sutrartha (English) ------------------- A रेफ present in an उपसर्ग causes the णत्व of नकार of the 'आनि' प्रत्यय of लोट्-लकार. Vasu English Summary -------------------- The न of आनि , the affix of the Imperative, First Person, is changed into ण when it follows a letter competent to cause such a change standing in an उपसर्ग। Vasu English Translation ------------------------ The न of आनि , the affix of the Imperative, First Person, is changed into ण when it follows a letter competent to cause such a change standing in an उपसर्ग। The word आनि is the termination of the Imperative. Thus प्रवपाणि, परिवपाणि, प्रयाणि, परियाणि ॥ Why do we say 'the Imperative'? Observe प्रवपानि मासानि ॥ Here आनि is the neuter plural termination, and the word means प्रकृष्टा वपा येषु, तानि ॥ According to *Padamanjari*, the employment of the word लोट् in the *sutra* is redundant. For without it also आनि would have meant the Imperative affix, and not the Neuter termination, on the maxim of अर्थवद् ग्रहणे &c. Moreover in the noun प्रवपानि, प्र is not an *upasarga* at all, on the maxim यत् क्रियायुक्ताः प्रादयस्तं प्रति गति-उपसर्ग-संज्ञे भवतः ॥ Bhashya ------- आनि लोट् लोडिति किमर्थम्?॥ प्रहिमानि कुलानि, प्रवपानि मांसानि॥ आनिलोड्ग्रहणानर्थक्यमर्थवद्ग्रहणात्॥ आनिलोड्ग्रहणमनर्थकम्॥ किं कारणम्?॥ अर्थवद्ग्रहणात्। अर्थवत आनिशब्दस्य ग्रहणं, नैषोऽर्थवान्। ॥ अनुपसर्गाद्वा॥ अथ वा यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो, न चैत मानिशब्दं प्रति क्रियायोगः॥ इहापि तर्हि न प्राप्नोति-प्रयाणि, परियाणीति, अत्रापि नाऽऽनिशब्दं प्रति क्रियायोगः॥ इहापि तर्हि न प्राप्नोति-प्रयाणि, परियाणीति, अत्रापि नाऽऽनिशब्दं प्रति क्रियायोगः॥ आनिशब्दं प्रत्यत्र क्रियायोगः॥ कथम्?॥ यत्क्रियायुक्ता(1) इति-नैवं विज्ञायते यस्य क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति॥ कथं तर्हि?॥ या क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति॥ Kashika ------- आनीत्येतस्य लोडादेशस्योपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रवपाणि। परिवपाणि। प्रयाणि। परियाणि। लोडिति किम्? प्रवपानि मांसानि॥ Siddhanta Kaumudi ----------------- उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । (वार्तिकम्) ॥ दुःस्थितिः । दुर्भवानि । (वार्तिकम्) ॥ अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥ Laghu Siddhanta Kaumudi ----------------------- उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि। **दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः** (वार्त्तिकम्)। दुःस्थितिः। दुर्भवानि। **अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम्** (वार्त्तिकम्)। अन्तर्भवाणि॥ Balamanorama ------------ **आनि लोट्** - आनि लोट् । लोडिति आनीति च लुप्तषष्ठीकं पदम् । 'रषाभ्यां नो ण' इत्यनुवर्तते,उपसर्गादसमासेऽपी॑त्यत उपसर्गादिति च । तदाह — उपसर्गस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः ।अट्कुप्वाङ्नुम्व्यवायेऽपी॑ति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः षत्वेति । षत्वणत्वयोः कर्तव्योर्दुर उपसर्गत्वप्रतिषेध इत्यर्थः । दुःस्थितिरिति । अत्रोपसर्गात्सुनोतीति षत्वं न भवति । दुर्भवानीति । अत्राऽऽनि लोडिति णत्वं न भवति । अन्तःशब्दस्येति । अङ्विधौ किविधौ णत्वे च कर्तव्ये अन्तरित्यस्य उपसर्गत्वमित्यर्थ- । प्रादित्वाऽभावादप्राप्ते वचनम् । अन्तर्धेति ।स्त्रिया॑मित्यधकारे धाधातोः 'आतश्चोपसर्गे' इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । अन्तर्भवाणीति ।आनि लो॑डिति णत्वम् । Tattvabodhini ------------- **आनि लोट्** - ॒नि लो॑ डित्येव वक्तव्ये आनिग्रहणमागमशास्त्रस्याऽनित्यतां ज्ञापयितुम् । तेनसागरं तर्तुकामस्य॑जप्त्वा स्तोत्र॑मित्यादि सिध्यति । लोड्ग्रहणं स्पष्टप्रतिपत्त्यर्थम् । न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम्, उपसर्गग्रहणादर्थवद्ग्रहणाऽच्चास्याऽप्रवृत्तेः ।प्रातिपदिकान्ते॑ति वैकल्पिकणत्वं त्विष्वत एव ।दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः । दुरः षत्वेति ।दुरः परस्य णत्वं नेति केचि॑दिति प्राचोक्तं त्वयुक्तम् । एवं हि सिद्धान्ते णत्वं स्यात्, तच्चाकारविरुद्धमिति भावः ।अन्तः शब्दस्याऽङ्किविधिणत्वेषूपसर्गत्वं वाच्यम् । अन्तर्द्धेति ।आतश्चोपसर्गे॑ इत्यङ् । टाप् । अन्तर्धिरिति ।उपसर्गे घोः किः॑ । श्रच्छब्दस्याङ्विधावुपसर्गत्वमुपसङ्ख्यायते तत्तु प्रकृतानुपयोगादुपेक्षितम् । भिदादिपाठेन,प्रज्ञाश्रद्धे॑ति निपातनेन वा गतार्थत्वाच्च । Padamanjari ----------- प्रवपाणीति । वपेर्लोट्,'मेर्निः' । ठाडुतमस्य पिच्चऽ, प्रयाणीति याते रूपम् । प्रवपानीति । प्रकृष्टा वपा येषु तानि प्रवपानि । आनिलोड्ग्रहणमनर्थकम्; अर्थवद्ग्रहणात्, अर्थवत आनिशब्दस्य ग्रहणम्, न चैषोऽर्थवान् । अनुपसर्गाद्वा, यत् क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञे भवतः, न चैतमानिशब्द प्रति क्रियायोगः, तदन्तं तु प्रति भवति । कथं नैवं विज्ञायते - यस्य क्रिया यत्क्रिया, यत्क्रियायुक्ता इति ? कथं तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ता इति, प्रयोगविषया च क्रिया न क्वचिदसंसृष्टास्तीति समुदायस्याश्रीयत इति आनिशब्दान्तं समुदायं प्रति क्रियायोगः । तत्रायं च सूत्रार्थः - उपसर्गात् परस्यावयवो य आनिशब्दस्तन्नकारस्य णत्वमिति । तदेवं प्रत्याख्यातं लोड्ग्रहणम् ॥ Nyaas ----- `प्रवपाणि` इति। वपेर्लोट्। मिप्। **मेर्निः** (3.4.89) । आडुत्तमस्य पिच्च` (3.4.92) इत्याट्। `प्रयाणि` इति। `या प्रापणे` (धातुपाठः-1049)। `प्रवपानि मांसानि` इति। प्रकृष्टा वपा येषामिति बहुव्रीहिः, `जश्शसोः शि` (7.1.20) इति शिरादेशः, **नपुंसकस्य झलचः** (7.1.72) इति नुम्, **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति दीर्घः -प्रवपानीति। अत्र लोड्ग्रहणान्न भवति। `प्रातिपदिकान्तनुम्विभक्तकिषु च` (8.4.11) इत्यनेन तर्हि कस्मान्न भवतीति? भवत्येव पक्षे। ननु चोपसर्गादिति वर्तते, न चानिं प्रति प्रशब्दस्योपसर्गत्वम्। किं तर्हि? अपिं [`कृषिं` इति प्रांउ।पाठः] प्रति, तस्मादुपसर्गत्वाभावादेव न भविष्यतीति किं लोङ्ग्रहणेन? नैतदस्ति; मूलोदाहरणेष्वपि तर्हि न स्यात्। अत्र हि धातुं प्रत्युपसर्गत्वम्, नानिं प्रति। तस्मात्? सामर्थ्यादिहोपसर्गग्रहणमनुवर्तमानं प्राद्युपलक्षणार्थं विज्ञायते, -यथा -`अञ्नासिकायाः संज्ञायां नसञ्चास्थूलात्` (5.4.118) । **उपसर्गाच्च** (5.4.119) इत्यत्रोपसर्गग्रहणं प्राद्युपलक्षणार्थम्। ततश्चासति लोज्ग्रहणे स्यादेव णत्वमिति तन्निवृत्त्यर्थं लोडित्युच्यते। नन्वेवयपि न कर्तव्यं लोड्ग्रहणम्, `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यर्थवतो ह्रानिशब्दस्येदं ग्रहणम्, न हि प्रवपानि मांसानीत्यत्रानिशब्दोऽर्थवान्, किं तर्हि? इकारः? एवं तह्र्रतज्ज्ञापयति -अनित्यैषा परिभाषेति। तेन **इन्हन्पूषार्यम्णां शौ** (6.4.12) इत्यत्रानर्थकस्यापीनो ग्रहणे सति बहुवाग्मीनि ब्राआहृणकुलानीत्यत्रापि दीर्घत्वं सिद्धं भवति।आनीत्याकारोच्चारणं किमर्थम्? यदाऽडागमो न भवति तदा शुद्धस्य निशब्दस्य स्यादित्येवमर्थम्। [`भूदित्येवमर्थम् -प्रांउ।पाठः]ननु च नित्यमेवाडागमेव भवितव्यम्, न हि तद्विधौ विकल्पोऽस्ति? एवं तह्र्रेतज्ज्ञापयति -अनित्यमागमशासनमिति। तेनापि `शाकं पचानस्य सुखा वै मधवन्? गृहाः` इत्यादयः प्रयोगाः सिद्धा भवन्तीति॥ Prakriyasarvasvam ----------------- उपसर्गस्थान्निमित्तात् परस्य लोडादेशस्यानीत्यस्य णत्वं स्यात् । प्रभवाणि । अन्तरो णत्व उपसर्गत्वात् । अन्तर्भवाणि । ‘लङ्वदि’ति सलोपः । आट् । भवाव, भवाम । तङां तु टेरेत्वे लङ्वत् कृते— Sutra Prayogas -------------- * **प्रवपाणि** (भट्टिकाव्यम्): `आनि लोट्` इति णत्वम्। * **प्रवपाणि** (भट्टिकाव्यम्): `आनि लोट्` इति णत्वम्।