84015: हिनुमीना =============== **Padacheda:** हिनु | S | | | 6 मीना | S | | | 6 Sutrartha --------- **णत्वनिमित्तकात् उपसर्गात् परस्य हि-धातोः मी-धातोः च नकारस्य णत्वं भवति ।** 'हि गतौ वृद्धौ च' अयं स्वादिगणस्य धातुः । तथा 'मीञ् हिंसायाम्' अयं क्र्यादिगणस्य धातुः । एतयोः परयोः गणविकरणनिमित्तकः यः नकारः आगच्छति, तस्य रेफयुक्तस्य उपसर्गस्य उपस्थितौ णत्वं भवति । यथा - 1. 'प्र + हि' इत्यस्य लट्-लकारस्य रूपाणि - प्रहिणोति, प्रहिणुतः, प्रहिण्वन्ति ... । 2. 'प्र + मी'इत्यस्य परस्मैपदस्य लट्-लकारस्य रूपाणि - प्रमीणाति , प्रमीणीतः, प्रमीणन्ति ... । ज्ञातव्यम् - सूत्रे प्रयुक्तौ 'हिनु' तथा 'मीना' एतौ शब्दौ धात्वोः गणविकरणाभ्यां सह कृतौ निर्देशौ स्तः । Sutrartha (English) ------------------- The नकार associated with the forms of the verbs हि and मी is converted to णकार in presence of a रेफयुक्त उपसर्ग. Vasu English Summary -------------------- The न of हिनु and मीना is changed to ण , when coming after an उपसर्ग containing in it a cause of change. Vasu English Translation ------------------------ The न of हिनु and मीना is changed to ण , when coming after an उपसर्ग containing in it a cause of change. Thus प्रहिणोति, प्रहिणुतः, प्रमीणाति, प्रमीणीतः ॥ The root हि belongs to *Svadi* class of verbs and takes the *vikarana* नु technically श्नु; and the root मी belongs to *Kryadi* class which takes the *vikarana* श्ना ॥ In the *sutra* the verbs are shown with the *vikaranas* affixed. Under certain circumstances the forms of the *vikarana* is changed from नु to नो and ना to नी, but the rule still applies, because the substitute of an अच् or vowel is like the principal. See (l. I.57). Bhashya ------- हिनुमीना ॥ हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानम्॥ हिनुमीनाग्रहणे विकृतस्योपसङ्ख्यानं कर्त्तव्यम्। प्रहिणोति प्रमीणीते॥ वचनाद्भविष्यति॥ अस्ति वचने प्रयोजनम्॥ किम्?॥ प्रहिणुतः प्रमीणाति॥ सिद्धमचः स्थानिवत्त्वात्॥ सिद्धमेतत्॥ कथम्?॥ अचः स्थानिवत्त्वात्। स्थानिवद्भावादत्र णत्वं भविष्यति॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति॥ दोषा एवैते तस्याः परिभाषायाः-तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति॥ (हिनुमीना)। Kashika ------- हिनु मीना इत्येतयोरुपसर्गस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रहिणोति, प्रहिणुतः। प्रमीणाति, प्रमीणीतः। हिनुमीनाग्रहणे विकृतस्यापि भवति, अजादेशस्य स्थानिवत्त्वात्॥ Siddhanta Kaumudi ----------------- उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥ Laghu Siddhanta Kaumudi ----------------------- उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ {$ {! 5 षिञ् !} बन्धने $} (धातुपाठे (09.0005)) ॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ {$ {! 6 स्कुञ् !} आप्लवने $} (धातुपाठे (09.0006)) ॥ Balamanorama ------------ **हिनुमीना** - हिनुमीना । हिनु मीना अनयोद्र्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक् । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च । तदाह — उपसर्गस्थादिति । Tattvabodhini ------------- **हिनुमीना** - हिनु मीना । प्रमीणति । Nyaas ----- `प्रणिणोति` इति। `हि गतौ` [गतौ वृद्धौ च -धातुपाठः-] (धातुपाठः-1257), **स्वादिभ्यः श्नुः** (3.1.73) , गुणः। `प्रमीणाति` इति। `मी हिंसायाम्` [`मीञ्` -धातुपाठः-] (धातुपाठः-1476), क्र्यादित्वात्? शना। `प्रमीणीतः` इति। **ई हल्यघोः** (6.4.113) इतीत्वम्। अथ कथं प्रहिणोति, प्रमीणीत इत्यत्र णत्वम्, यावता `हिनुमीना` इति स्वरूपयोग्र्रहणम्, न चात्र गुणादौ विकारे कृते ते रूपे स्तः; तस्माच्चात्रैव भवितव्यम् -प्रहिणुतः, प्रमीणातीति? अजादेशस्य स्थानिवद्भावात्, एकदेशविकृतस्यानन्यत्वाद्वा भविष्यतीत्यदोषः। ननु प्रतिषिध्यते स्थानिवद्भावः -`पूर्वत्रासिद्धीये न स्थानिवत्` (जै।प।वृ।48) इति? दोव एवायमत्याः परिभाषायाः; तथा चोक्तम् -`अस्या दोषः संयोगादिलोपत्वणत्वेषु` [`तस्य` -इति वार्तिके पाठः] (1.1.59 वा।9।) इति। अथ `हिमीभ्याम्` इत्येवं कस्मान्नोक्तम्? अशक्यमेवं वक्तुम्, अविकरणनकारस्यापि स्यात् -प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, `अन्येभ्योऽपि दृश्यन्ते` अविकरणनकारस्यापि स्यात् -प्रहेनर्दनमिति, प्रमीनर्दनमिति। प्रहिणोतीति प्रहेः, **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति विच्। गुणः। प्रमीणातीत#इ प्रमीः, क्विप्। प्रहेर्नर्दनम्, प्रम्यो नर्दनमिति षष्ठीसमासः॥ Prakriyasarvasvam ----------------- उपसर्गस्थात् परस्य हिनुमीनेत्यनयोः नस्य णः स्यात् । प्रहिणोति । एवं मीङ् हिंसायाम् । प्रमीणाति । लुङि अहैषीत् । अहेष्टाम् । लिटि, Sutra Prayogas -------------- * **प्रहिणु** (भट्टिकाव्यम्): `हिनु मीना` इति णत्वम् ॥ * **प्रहिण्वन्तो** (भट्टिकाव्यम्): `हिनु मीना` इति णत्वम्।