84013: कुमति च ============== **Padacheda:** कुमति | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **समस्तपदस्य अनेकाच्-उत्तरपदे कवर्गीयवर्णः अस्ति चेत् पूर्वपदस्थेन णत्वनिमित्तकवर्णेन उत्तरपदस्य प्रातिपदिकान्तस्य/नुमागमस्य/विभक्तेः नकारस्य णत्वं भवति, स च अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधानेऽपि भवति ।** अनेन सूत्रेण समस्तपदस्य पूर्वपदे स्थितेन रेफषकारेण उत्तरपदस्य नकारस्य णत्वं कदा भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । यदि उत्तरपदम् एकाच् विद्यते, तर्हि पूर्वसूत्रेण **एकाजुत्तरपदे णः** (8.4.12) इत्यनेनैव णत्वं भवितुमर्हति । परन्तु यदि उत्तरपदमनेकाच् विद्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । अस्मिन् अनेकाच्-उत्तरपदे यदि क-वर्गीयः वर्णः (क् / ख् / ग् / घ्/ ङ् एतेषु कश्चन) अस्ति, तर्हि - (1) समस्तपदस्य उत्तरपदे स्थितस्य प्रातिपदिकस्य अन्तिमनकारस्य णत्वं भवितुमर्हति । (2) समस्तपदस्य उत्तरपदस्य यः नुमागमः भवति, तस्य अपि णत्वं भवितुमर्हति । (3) समस्तपदस्य विभक्तिरूपे नकारः आगच्छति चेत् तस्य अपि णत्वं भवितुमर्हति । इति वर्तमानसूत्रस्य आशयः । क्रमेण उदाहरणानि एतानि - 1. हरिकामिन् (one who wishes the god) इति नकारान्तप्रातिपदिकम् । अयम् सामासिकशब्दः अस्ति - हरेः कामी सः हरिकामी । अत्र पूर्वपदम् 'हरि' इति, उत्तरपदम् 'कामी' इति । पूर्वपदे णत्वनिमित्तकः रेफः अस्ति, उत्तरपदे द्वौ अच्-वर्णौ तथा ककारः विद्यते । अतः वर्तमानसूत्रेण अस्य प्रातिपदिकस्य अन्तिमनकारस्य मकारस्य स्वरस्य च व्यवधाने अपि णत्वं भवितुमर्हति । यथा - हरिकामिन् + औ → हरिकामिणौ । एवमेव - वस्त्रयुगिणौ, स्वर्गगामिणौ - एतौ शब्दौ अपि सिद्ध्यतः । 2. 'खरयुग' इति अकारान्तनपुंसकलिङ्गशब्दः । तस्य प्रथमाबहुवचनस्य प्रक्रिया इयम् - खरयुग + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → खरयुग + शि [**जश्शसोः शिः** (7.1.20) इति शि-आदेशः] → खरयुग + नुम् + इ [**नपुंसकस्य झलचः** (7.1.72) इति नुमागमः] → खरयुगा + न् + इ [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → खरयुगाणि [**कुमति च** (8.4.13) इति णत्वम्] एवमेव - सर्वयुगाणि, सर्वकामाणि, सर्वकाकाणाम्, परखगाणाम् - एतादृशाः शब्दाः सिद्ध्यति । 3. 'खरयुग' शब्दस्य तृतीयैकवचने 'टा' प्रत्ययस्य 'इन' आदेशे कृते अस्य विभक्तिसंज्ञकस्य नकारस्यापि अनेनैव सूत्रेण णत्वं भवति । खरयुग + टा → खरयुगेण । एवमवे - सर्वकामेण, परखगेण, सर्वयुगेण - आदयः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'कुमति' इति शब्दः प्रयुज्यते । 'कु' इत्यमात् **तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इत्यनेन मतुप्-प्रत्यये कृते कुमत् इति शब्दः सिद्ध्यति, तस्य इदं सप्तम्येकवचनम् । 'कु' (इत्युक्ते, कवर्गीयवर्णः) विद्यते यस्मिन्, सः कुमान् - इति अस्य अर्थः । अतः 'कुमति' इत्यस्य अर्थः 'तादृशे शब्दे परे यस्मिन् कवर्गीयवर्णः विद्यते' - इति अस्ति । अतः अत्र उत्तरपदे कवर्गीयव्यञ्जनम् स्यात् इति आवश्यकम् । 2. उत्तरपदे कवर्गं विहाय अन्ये वर्णाः सन्ति चेत् ते अट्-पु-आङ्-नुम्-एतेषु केचन एव भवेयुः । अन्यः कश्चन वर्णः भवति चेत् णत्वं नैव सम्भवति । यथा - 'चन्द्रकलानाम्' अत्र पूर्वपदे यद्यपि रेफः विद्यते, तथा च उत्तरपदे यद्यपि ककारः विद्यते तथापि लकारः अपि अस्ति, यस्य व्यवधानम् णत्वं बाधते । अतः अत्र णत्वं न भवति । 3. प्रश्नः - अस्मिन् सूत्रे 'कुमति च' इत्यस्य स्थाने 'कौ च' इत्युच्यते चेत् कः दोषः ? उत्तरम् - यदि 'कौ च' इति स्यात्, तर्हि अनया परिभाषया केवलम् 'यस्य उत्तरपदस्य कवर्गीयवर्णेन प्रारम्भः भवति, तस्य विषये एव णत्वं स्यात्' इति अर्थः सिद्ध्येत् । अस्यां स्थितौ 'खरयुगिणौ, सर्वयोग्येण' - एतादृशेषु शब्देषु णत्वं न जायेत । अतः अत्र 'कुमति' इति मतुप्-प्रत्ययान्तप्रयोगः क्रियते । अनेन प्रयोगेण यस्मिन् उत्तरपदे कवर्गीय-वर्णः (कुत्रापि) विद्यते, तस्य विषये अस्य सूत्रस्य प्रयोगावसरः निश्चयेन विद्यते । विशेषः - कालिदासकृते मेघदूते प्रथमश्लोके 'वर्षभोग्येण' इति शब्दः विद्यते । अत्र विभक्तिस्थस्य नकारस्य णत्वमनेनैव सूत्रेण भवति । अत्र पूर्वपदे णत्वनिमित्तकः षकारः (रेफश्च) विद्यते, उत्तरपदे च गकारः, तथा च 'भ् , ओ, य् , ए' एतेषां व्यवधानं वर्तते । अतः अत्र वर्तमानसूत्रेण णत्वं भवति । Vasu English Summary -------------------- In a compound, the second member of which contains a guttural, there is ण in the room of न , that follows anything which standing in the prior member is qualified to cause the change, provided the न be at the end of a प्रातिपदिक , or be the augment नुम् , or occur in a विभक्ति। Vasu English Translation ------------------------ In a compound, the second member of which contains a guttural, there is ण in the room of न , that follows anything which standing in the prior member is qualified to cause the change, provided the न be at the end of a प्रातिपदिक , or be the augment नुम् , or occur in a विभक्ति। If the second part of a compound contains a letter of the class क्, the change is obligatory, even though the second part be not monosyllabic. As वस्त्रयुगिणौ, वस्त्रयुगिणः, स्वर्गकामिणौ, वृषगामिणौ ॥ नुम् :- वस्त्रयुगाणि, खरयुगाणि ॥ विभक्ति :- वस्त्रयुगेण, खरयुगेण ॥ The word वस्त्रयुगिणौ is a compound of वस्त्र with युगिन् (the affix इनिis added first to युग and then the word so formed is compounded with *vastra*). Thus the न् becomes प्रातिपदिकान्त i.e. it becomes the final of a Nominal-stem, which stands as a second member in a compound. Bhashya ------- कुमति च अथेह कथं भवितव्यं-माषकुम्भवापेण व्रीहिकुम्भवापेणेति, नित्यं णत्वेन भवितव्यमाहोस्विद्विभाषया(3)?॥ यदा तावदेतद्वाक्यं भवति - कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति, तदा नित्यं णत्वेन भवितव्यम्। यदा त्वेतद्वाक्यं भवति,-माषाणां कुम्भो माषकुम्भः, माषकुम्भस्य वापो माषकुम्भवाप इति,-तदा विभाषया भवितव्यम्॥ Kashika ------- कवर्गवति चोत्तरपदे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थाद् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। वस्त्रयुगिणौ, वस्त्रयुगिणः। स्वर्गकामिणौ। वृषगामिणौ। नुमि — वस्त्रयुगाणि। खरयुगाणि। विभक्तौ — वस्त्रयुगेण। खरयुगेण॥ Siddhanta Kaumudi ----------------- कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥ Balamanorama ------------ **कुमति च** - कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं मत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् । Tattvabodhini ------------- **कुमति च** - कुमति च । अनेकाजुत्तरपदार्थ आरम्भः ।कौ॑ इत्येव तु न सूत्रितम् ।यस्मिन्विधि॑रिति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यान्न तु वस्त्रयुगेणेत्यादौ, तथा च लमतुबन्तनिर्देश आवश्यक इत्याह — कवर्गवतीति । Padamanjari ----------- अनेकाजुतरपदार्थोऽयमारम्भः । वस्त्रयुगिणाविति । युगशब्दादिनि कृते पश्चादिन्नन्तेन समासः कर्तव्यः । एवं तर्हि उतरपदस्य प्रातिपदिकस्यान्तो नकारो भवति; अन्यथा मातृभोगीणवल्लक्षणान्तरेणैव णत्वं सिद्धं स्यात्,'कौ' इत्युच्यमानेऽपि कवर्गमात्रस्योतरपदस्यासम्भवान्मतुबर्थो लभ्यते, नार्थो मतुपा ? सत्यम्;'कौ' इत्युच्यमाने तदादिविधिविज्ञायेत - कवर्गादावुतरपद इति ॥ Nyaas ----- अनेकाजुत्तरपदार्थ आरम्भः। चकारः `प्रातिपदिकान्तनुम्विभक्षि च` (8.4.11) इत्यनुकर्षणार्थः। तेनोत्तरत्रानुवृत्तिर्न भवति चानुकृष्टपरिभाषया (व्या।प।76)। `वस्त्रयुगिणौ` इति। **अत इनिठनौ** (5.2.115) इतीनिः। `को` इति कर्तव्ये कुमतीति वजनमकवर्गादावपि यता स्यात्; इतरथा हि `यस्मिन्विधिस्तदावल्ग्रहणे` (व्या।प।127) इति कवर्गादेरेव स्यात्। दपन वापः, कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवापः -`अत इतिठनौ` (5.2.114) इतीनिः। माषकुम्भवापिणावित्यत्र स्यात्, वस्त्रयुगिणाअवित्यत्र न स्यादिति॥ Prakriyasarvasvam ----------------- कवर्गवत्युत्तरपदेऽप्युक्तं णत्वं नित्यं स्यात् । हरिकामिणौ । हरिकामीणि । श्रीयोगेण । जिह्वामूलीयोपध्मानीयविसर्गाणामट्त्वमिष्टमिति तैर्व्यवायेऽपि णत्वं स्यात् । उरकामेण । उरपाकेण । उरःपाकेण ॥ Sutra Prayogas -------------- * **संघर्ष-योगिणः** (भट्टिकाव्यम्): `कुमति च` इति णत्वम्।