84005: प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि¶
Padacheda: प्र-निर्-अन्तः-शर-इक्षु-प्लक्ष-आम्र-कार्ष्य-खदिर-पीयूक्षाभ्यः | S | 5 | 3 |
असंज्ञायाम् | S | 7 | 1 |
अपि | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The न of वन , is replaced by ण , even when the compound is not a Name, when it is preceded by the words प्र , निर् , अन्तर , शर , इक्षु , प्लक्ष , आम्र , कार्ष्य , खदिर and पीयूक्षा।
Vasu English Translation¶
The न of वन , is replaced by ण , even when the compound is not a Name, when it is preceded by the words प्र , निर् , अन्तर , शर , इक्षु , प्लक्ष , आम्र , कार्ष्य , खदिर and पीयूक्षा। Thus प्रवणे यष्टम्; निर्वणे प्रतिधीयते, अन्तर्वणे, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणम्, कार्ष्यवणम्, खदिरवणम् and पीयुक्षावणम् ॥
The words प्रवणं and निर्वणं are प्रादिः compounds. अन्तर्वणं is an Avyayibhava in the sense of a case-affix. The rest are Genitive compounds.
Kashika¶
प्र निर् अन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्य उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि णकारादेशो भवति। प्र — प्रवणे यष्टव्यम्। निर् — निर्वणे प्रतिधीयते। अन्तर् — अन्तर्वणे। शर — शरवणम्। इक्षु — इक्षुवणम्। प्लक्ष — प्लक्षवणम्। आम्र — आम्रवणम्। कार्ष्य — कार्ष्यवणम्। खदिर — खदिरवणम्। पीयूक्षा — पीयूक्षावणम्॥
Siddhanta Kaumudi¶
एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥
Balamanorama¶
प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिर- पियूक्षाभ्योऽसंज्ञायामपि - प्रनिरन्तः । एभ्य इति । प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, काष्र्य, खदिर, पीयूक्षा-इत्येतेभ्य इत्यर्थः । वनस्येति ।वनं पुरगे॑त्यतस्तदनुवृत्तेरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमासः । इहेति ।काष्र्यवण॑मित्यत्र षकारात्परत्वेन णत्वं, नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन कार्श्येति तालव्यशकारमध्यपाठोऽप्रामाणिक इति सूचितम् । तथा सति निमित्ताऽभावाण्णत्वाऽसंभवात्, अटकुप्वाङ्भिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वाऽसंभवात् । निर्वणम्, अन्तर्वणं, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणं, काष्र्यवणं, खदिरवणं, पीयूक्षावणम् ।
Padamanjari¶
अत्रादितस्त्रिषु संज्ञायामसज्ञायामप्राप्तं णत्वं विधीयते, कथम् ? संज्ञायां तावत्’पूर्वपदात्संज्ञायाम्’ इत्येतद्यद्यपि नियमार्थम्, अथापि विध्यर्थम् - उभयथापि अवश्यम्’वनं पुरगा’ इत्यादिसूत्रं नियमार्थम् - पुरगादिष्वेव वननकारस्येति, ततश्च प्रादिष्वप्राप्तिः । असंज्ञायामपि नियमे तावदप्राप्तिः; संज्ञायामेवेति नियमात् । विधावपि संज्ञायां विधानादन्यत्राप्राप्तिरेव । शरादिषु त्वोषधिवनस्पतिवाचिषु संज्ञायामसंज्ञायां चोतरसूत्रेण प्राप्तस्य विकल्पस्यापवादः । ठसंज्ञायामपिऽ इत्यनुच्यमाने’संज्ञायाम्’ इत्यधिकारातत्रैव स्यात् । निवर्तिष्यते संज्ञायामिति ? यदि निवर्तते, संज्ञायां न प्राप्नोति; पुरगादिभ्य एव वननकारस्येति नियमात् । अयं तु विधिरसंज्ञायां सावकाशः, संज्ञायामपि परत्वादयमेव विधिर्भविष्यति,’पूर्वत्रासिद्धे नास्ति विप्रतिषेधः’ , तस्मादसंज्ञायामपीति वक्तव्यम् । प्रवणम्, निर्वणमिति । प्रादिसमासौ । अन्तर्वणमिति । विभक्त्यर्थेऽव्ययीभावः, शरवणादयः षष्ठीससासाः ॥
Nyaas¶
येऽत्रौषधिवनस्पतिशब्दा न भवन्ति प्रादयस्तेभ्यः संज्ञायाम् -यदि पूर्वसूत्रं नियमार्थम्, अथापि विध्यर्थम् -उभयथाप्यप्राप्तणत्वमनेन विधीयते। एवमसंज्ञायामपि विधिपक्षे। नियमपक्षे त्वसंज्ञायां निष्प्रयोजनोऽस्यारम्भः; असंज्ञायां नियमाभावात्, आद्याभ्यामेव सूत्राभ्यां यथायोगं णत्वस्य सिद्धत्वात्। इतरेषु शरादिष्विक्षुशरशपब्दावोषधिवचनौ। शेषाः प्लक्षादयो वनस्पतिवचनाः। तेभ्यः संज्ञायां विधिपक्षे नियमपक्षे चाप्राप्तं णत्वमनेन विधीयते। असंज्ञायां तु विभाषौषधिवनस्पतिभ्यः (8.4.6) इति विभाषा णत्वं प्राप्तं नित्यमनेन विधीयते। असंज्ञायामपि इत्यपिशब्दस्य व्यापारं दर्शयति -असत्यपिशब्दे संज्ञाधिकारादसंज्ञायां न स्यात्। अथ तु संज्ञाधिकारं निवर्त्त्यं समामान्येन विधीरुच्यते सदा शक्यते संज्ञाग्रहणमकर्त्तुम्? तत्? क्रियते विस्पष्टार्थम्। प्रवणम्, निर्वणम् इति। विभक्त्वर्थेऽयं अव्ययम् (2.1.6) इत्यादिनाऽण्ययीभावः। वनस्य मध्य इत्यर्थः। शरवणम् इत्यादयश्च षष्ठीसमासाः॥
Prakriyasarvasvam¶
एभ्यः परस्य वनस्यानाम्न्यपि नस्य णः स्यात् । प्रवणम् । निर्वणम् । अन्तर्वणमित्यादि । कार्ष्यपीयूक्षे वृक्षभेदौ ॥
Sutra Prayogas¶
फलसम्पत्प्रवणः (किरातार्जुनीयम्): प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्श्यखदिरपीयूक्षाभ्योऽसंज्ञायां णः इति णत्वम्।
निर्वणं (भट्टिकाव्यम्): उभयत्रापि प्रनिरन्तः इति णत्वम्।