84004: वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः¶
Padacheda: वनम् | S | 1 | 1 | 6
पुरगा-मिश्रका-सिध्रका-शारिका-कोटरा-अग्रेभ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
The न of वन , is changed into ण , when preceded by the words पुरगा , मिश्रका , सिध्रका , शारिका , कोटरा and अग्रे , as first members of the compound, and the whole compound is a name.
Vasu English Translation¶
The न of वन , is changed into ण , when preceded by the words पुरगा , मिश्रका , सिध्रका , शारिका , कोटरा and अग्रे , as first members of the compound, and the whole compound is a name. The words पूर्वपदात् and संज्ञायाम् of the last sutra, are to be read into this aphorism. Thus पुरगावणम्, मिश्रकावणम्, सिध्रकावणं, कोटरावणम्, अग्रेवणम् (2.2.31) शारिकावणम् ॥
The lengthening of the finals in the above is by (6.3.117). Though the word अग्रेवणं is not a Name, yet the rule (6.3.9), applies to it and the case-affix is not elided, because it is so read in Rajadantadi list (2.2.31).
The substitution of ण for न would have taken place by the preceding rule. The separate enunciation of the rule with regard to the word वन, shows that this is a restrictive or नियम rule. The न of वन is changed into ण, when preceded by these words only and no other. Thus कुबेरवनं, शतधारवनम्, असिपत्रवनम् ॥
Kashika¶
पूर्वपदात् संज्ञायामिति वर्तते। पुरगा मिश्रका सिध्रका शारिका कोटरा अग्र इत्येतेभ्यः पूर्वपदेभ्य उत्तरस्य वननकारस्य णकारादेशो भवति संज्ञायां विषये। पुरगावणम्। मिश्रकावणम्। सिध्रकावणम्। शारिकावणम्। कोटरावणम्। अग्रेवणम्। सिद्धे सत्यारम्भो नियमार्थः — एतेभ्य एव परस्य वननकारस्य णकारादेशो भवति, नान्येभ्य इति। कुबेरवनम्। शतधारवनम्। असिपत्रवनम्॥
Siddhanta Kaumudi¶
वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥
Balamanorama¶
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः - तत्र णत्वविधिं दर्शयति — वनं पुरगा । वनमिति । षष्ठर्थे प्रथमा । इत्यभिप्रेत्याह-वनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः । ‘रषाभ्याम्’ इत्यतो ‘णो नः’ इत्यनुवृत्तेः । सूत्रे ‘अग्रे’ इति सप्तम्यन्तस्यानुकरणम् । नन्विह भिन्नपदत्वात्अट्कुप्वा॑ङिति णत्वस्याऽप्राप्तेरपूर्वविध्यर्थकत्वावश्यकत्वादेभ्य एवेति कथं नियमलाभ इत्यत आह — इह कोटरान्ता इति । इह=णत्वविधावुपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, एव वनगिर्योरिति दीर्घाविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः । ततः किमित्यत आह — तेषामिति । णत्वविधौ तावत्पुरगादिशब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः । दीर्घस्तु तेषां संज्ञायामेववनगिर्योरिति॑विहितः । एवंच एतेषामसंज्ञायां दीर्घाऽभावात्संज्ञायामेववनं पुरगे॑ति णत्वविधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्यपूर्वपदात्संज्ञायामगः॑ इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्याऽसंज्ञायामगः॑ इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधावग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्याऽसंज्ञात्वादिति भावः । न च पुरगावणशब्दे गकारव्यवधानात्पूर्वपदात्संज्ञाया॑मित्यस्य प्राप्त्यसंभवादत्र अपूर्वणत्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम्, ‘अग’ इति हि पञ्चमी, गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते । पुरगाशब्दस्त्वयमाकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाऽप्राप्त्यापूर्वपदात्संज्ञाया॑मित्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः । पुरगावणमित्यादयो नकरविशेषाणां संज्ञाः । असिपत्रवनमिति । नरकविशेषोऽयम् । अत्र संज्ञात्वेऽपि पूर्वपदात्संज्ञाया॑मिति णत्वं न भवति, एभ्य एवेति नियमादिति भावः । अग्रेवणमिति । वनशब्दस्य षष्ठन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः । ननु तर्हिसुपो धात्वि॑ति सप्तम्या अपि सुक् स्यादित्यत आह — राजदन्तादिष्विति । अनेन वनशब्दस्य परनिपातोऽपिसूचितः । ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह — प्रातिपदिकेति । सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाह — किंशुलुकागिरिरिति ।अञ्जनागिरि॑रित्यप्युदाहार्यम् ।
Tattvabodhini¶
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः - वनं पुरगाष व्यत्ययेन षष्ठर्थे प्रथमा इत्याह -वनशब्दस्येति । एभ्य एवेति । कृतिदीर्घेभ्यः पुरगादिभ्य एव परस्य णत्वमित्यर्थः ।एभ्यो वनस्यैव णत्वं नान्येषा॑मिति विपरीतनियमशङ्का तु न भवति, वनादन्यस्मिन्नुत्तरपदे पुरगादीनां दीर्घान्तत्वाऽसंभवात् । नियमार्थ इति । अयं भावः -॒पुरगामिश्रके॑ति दीर्घनिर्देशादसंज्ञायां दीर्घाऽभावेन संज्ञायामेणत्वमिति फलितम् । एवं चपूर्वपदात्संज्ञाया॑मित्यनेनैव वनस्य णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थ एवेति । विध्यर्थ इति । असंज्ञात्वेनपूर्वपदात्संज्ञाया ॑मित्यस्याऽप्रवृत्तेरिति भावः । न च पुरगाग्रहणमपि विध्यर्थमेव, गकारव्ययधानेनपूर्वपदात्संज्ञाया॑मित्यस्य प्राप्त्यभावादिति वाच्यम्,अगः॑ इत्यस्य पञ्चम्यन्तत्वं स्वीकृत्यगान्तात्पूर्वपदात्परस्य णत्वं ने॑ति व्याख्यानात् । पुरगाशब्दस्य त्वकारान्तत्वात्अगः॑ इति निषेधस्याऽप्रवृत्तेः । अतएवअगः॑ इत्यस्यऋगयन॑मित्येकमेवोदाहरणमितिअणृगयनादिभ्यः॑इति निर्देशाश्रयेण तत्प्रत्याख्यातमाकरे । पुरगावणमित्यादि । नरकविशेषस्य संज्ञा । असिपत्रवनमिति ।एभ्यो वनस्यैवे॑ति विपरीतनियमे तु णत्वमत्र दुर्वारमिति भावः । सप्तम्यर्थस्य प्रातिपदिकार्थेऽन्तर्भावादह -प्रथमेति । किंशुलुकादीनामुदाहरणमाह — किंशुलुकागिरिरिति । आदिशब्दग्रह्रास्तुअञ्जनागिरिः॑ इत्यादयः । किंशुलुकेति किम् । कृष्णगिरिः । रामगिरिः ।
Padamanjari¶
‘वनम्’ इति षष्ठयाः स्थाने प्रथमा । उदाहरणे’वनगिर्योः संज्ञायाम्’ इति पूर्वपदस्य दीर्घत्वम् । अग्रेवणमिति । षष्ठीसमासे राजदन्तादित्वाद्वनशब्दस्य परनिपातः,’हलदन्तात्’ इति सप्तम्या अलुक्, अथ न संज्ञा ततो राजदन्तादिषु निपादनादलुक् । सिद्धे सतीत्यादि । पुरगादिष्वेतदुच्यते, अग्रेशब्दे त्वसंज्ञायां विध्यर्थमित्याहुः । एतेभ्य एव वननकारस्येति । ठेतेभ्यो वननकारस्यैवऽ इत्ययं तु नियमो न भवति; दीर्घीच्चारणात् । तद्धि दीर्घान्तेष्वयं नियगो भवेदिति । न च वनादन्यत्रोतरपदे दीर्घान्तत्वमेषां सम्भवति, यत्रास्य णत्वं दीर्घान्तेषु व्यावर्त्येत ॥
Nyaas¶
वनमिति षष्ठीस्थाने सुब्ब्यत्ययेन प्रथमा। पुरगावणम् इति षष्ठीसमासः। वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् (6.3.117) इति पूर्वपदस्य दीर्घः। अग्रेवणम् इति। षष्ठोसमासः। तस्मिन्? कृते राजदन्तादिवद्वनशब्दस्य परनिपातः। हलदन्तात् सप्तम्याः संज्ञायाम् (6.3.9) इति सप्तम्या अलुक्। ननु च पूर्वेणैव णत्वं सिद्धम्, तत्किमर्थोऽयम्? इत्यत आह -सिद्धे इत्यादि। पुरगादिभ्यो वननकारस्यैवेति विपरीतनियमो नाशङ्कनीयः, पुरगादीनं कृतदीर्घाणां निर्देशात्। सह्रेवमर्थः क्रियते -यत्रैषां दीर्घत्वं तत्र नियमो यथा स्यात्, अन्यत्र मा भूदिति। अन्यता वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् (6.3.117) इत्यनेनैव दीर्घत्वे सिद्धे दौर्घोच्चारणं गौरवफलमेव केवलं स्यात्। तस्माद्यत्रैषां दीर्घत्वं तत्रैव नियमः। अतो व्यवच्छेद्यामाभावान्न भवति विपरीतनियमाशङ्का; न हि वनादन्यस्मिन्नमीषां पूर्वपदभूतानां दीर्घत्वमस्ति॥
Prakriyasarvasvam¶
एभ्यो वने नस्य नाम्नि णः स्यात् । कोटरावणम् । पुरगावणमित्यादि । एत एव पञ्च कोटरादयः । अग्रेवणमित्यव्ययीभाव उक्तः ।।
Sutra Prayogas¶
अग्रे-वणं (भट्टिकाव्यम्): वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः इति णत्वम्।