84003: पूर्वपदात् संज्ञायामगः¶
Padacheda: पूर्वपदात् | S | 5 | 1 |
संज्ञायाम् | S | 7 | 1 |
अगः | S | 5 | 1 |
Sutrartha¶
समस्तपदस्य पूर्वपदे स्थिताभ्याम् रेफषकाराभ्यामुत्तरपदस्थस्य नकारस्य ‘संज्ञायाः विषये’ णकारादेशः भवति । परन्तु उभयोः पदयोः मध्ये गकारस्य व्यवधानमस्ति तत्र णत्वं न दृश्यते ।
‘संज्ञा’ इत्युक्ते नामकरणम् । येन शब्देन कस्यचित् व्यक्तेः पदार्थस्य वा नामकरणं भवति सः शब्दः संज्ञा उच्यते । यथा - राम, नारिकेल आदयः । यः शब्दः संज्ञावाची अस्ति, तस्य विषये अनेन सूत्रेण णत्वं विधीयते । यदि अयं संज्ञावाची शब्दः समस्तपदमस्ति, तर्हि तस्य समस्तपदस्य पूर्वपदे स्थितः रेफः षकारः वा उत्तरपदस्थस्य नकारस्यापि (अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधाने अपि) णत्वं कारयति इत्यर्थः । परन्तु, रेफात् / षकारात् परः गकारः अस्ति चेत् एतत् णत्वं निषिध्यते । यथा - शूर्पाणि इव नखानि यस्या सा = शूर्पणखा । अयं बहुव्रीहिसमासः । अत्र पूर्वपदम् = शूर्पम् (किञ्चन परिमाणम्) । उत्तरपदम् = नखम् । अस्मिन् समासे पूर्वपदे रेफः अस्ति, उत्तरपदे नकारः अस्ति । उभयोः मध्ये स्वरस्य पकारस्य च व्यवधानमस्ति (येन णत्वनिषेधः न भवति) । तथा च, समस्तपदम् संज्ञानिर्माणं करोति - शूर्पणखा इयम् रावणस्य भगिन्याः नाम । अतः अनेन सूत्रेण नकारस्य णकारं भवति । तथैव - राम + अयन = रामायण । अयं ग्रन्थस्य नाम, अतः अत्रापि सूत्रेणानेन णत्वं भवति । परन्तु यदि नकारात् पूर्वम् गकारः आगच्छति, तर्हि अयं णत्वं मा भूत् इति स्पष्टीकर्तुमस्मिन् सूत्रे ‘अगः’ इति उक्तमस्ति । यथा - ‘ऋगयनम्’ इति कस्यचन ग्रन्थस्य नाम । ऋक् + अयनम् = ऋगयनम् इत्यत्र जश्त्वेन ककारस्य गकारे कृते गकारस्य उपस्थितौ नकारस्य णकारः न भवति ।
Sutrartha (English)¶
For a समस्तपद which is defined as a संज्ञा, The र् and ष् present in the पूर्वपद causes the णत्वम् of नकार from the उत्तरपद, as long as there is no गकार in between.
Vasu English Summary¶
So also, न् is replaced by ण् , when the letter occasioning the substitution, occurs in the first member of a compound, and the whole compound is a Name, provided that the first member does not end with the letter ग।
Vasu English Translation¶
So also, न् is replaced by ण् , when the letter occasioning the substitution, occurs in the first member of a compound, and the whole compound is a Name, provided that the first member does not end with the letter ग। As द्रुणसः, वार्द्ध्रीणसः (a kind of antelope), खरणसः, शूर्पणखा ॥ See (5.4.118) and (4.1.58).
Why do we say “when a Name”? Observe, चर्मनासिकः ॥
Why do we say when ‘not ending in the letter ग’? Observe; ऋगयनम् ॥
Some say, that this sutra is a नियम or a restrictive rule, and not a विधि or original enunciation, so that the substitution takes place, only when the word is a Name, and not otherwise. A compound is one word or समानपद, though composed of two or more words or पद ॥ Therefore by (8.4.11) the न will always be changed into ण when preceded by र or ष. But the present sutra restricts its scope, to those cases only, when the compound denotes a Name, as not in चर्मनासिका ॥ The word पूर्वपद is a relative term and connotes an उत्तरपद ॥ The present sutra therefore applies to those cases where the र् or ष् is in the पूर्वपद, and न occurs in the उत्तरपद ॥ It therefore, does not apply to तद्धित words, nor when both the letters occur in the पूर्वपद ॥ In the case of a Taddhita, there is a पूर्वपद, but there is no properly speaking उत्तरपद ॥ Thus खरपस्यापत्यं = खारपायणः (4.1.99). Here the affix अयन is equivalent to अपत्यं, and खरप is the Purvapada. But the affix अयन not being a Pada, we cannot call it an uttara pada. Hence न will be changed into ण though खारपायण is not an Appellative but a generic term. So also मातृभोगाय हितः = मातृभोगीणः with ख affix. Similarly in करणप्रियः, the words र and न both occur in the Purvapada and are not affected by this rule, but by the general rule (8.4.1). So also the proviso relating to ग, only prohibits the change of न into ण, but does not prohibit the restrictive character of this sutra.
According to others, this sutra is an original enunciation or a Vidhi rule, and not a Niyama rule. They say that the word समानपद in (8.4.1) is equivalent to नित्यं पदं i. e. a word integral and indivisible into component words. In other words, समानपद means, a ‘simple-word’. The present sutra therefore enunciates a new rule for a “compound-word”. For in a compound or समास, there being a division of पूर्वपद and an उत्तरपद, we cannot say that a compound is a समानपद or indivisible word. Hence this sutra is a विधि ॥
The sutra should be thus divided :- पूर्वपदात् संज्ञायाम् one sutra, and अगः another. So that every rule relating to ण change would be debarred with regard to ग intervention.
Bhashya¶
पूर्वपदात्संज्ञायामगः ॥ पूर्वपदात्संज्ञायामुत्तरपदग्रहणम्॥ पूर्वपदात्संज्ञायामुत्तरपदग्रहणं कर्तव्यम्॥ किं प्रयोजनम्?॥ तद्धितपूर्वपदस्यथाऽप्रतिषेधार्थम्॥ तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधो मा भूत्। खारपायणः, करणप्रियः॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। पूर्वपदमुत्तरपदमिति संबन्धिशब्दावेतौ। सति पूर्वपदे उत्तरपदं भवति, सति चोत्तरपदे पूर्वपदं भवति। तत्र सम्बन्धादेतदवगन्तव्यं-यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति॥ किं च प्रत्येतद्भवति?॥ उत्तरपदं प्रति॥ संज्ञायां नियमवचनेऽगप्रतिषेधान्नियमप्रतिषेधः॥ संज्ञायां नियमवचनेऽगप्रतिषेधान्नियमस्याऽयं प्रतिषेधो विज्ञायते-अग इति॥ तत्र को दोषः?॥ तत्र नित्यं णत्वप्रसङ्गः॥ तत्र पूर्वेण संज्ञायां चाऽसंज्ञायां च नित्यं णत्वं प्राप्नोति॥ योगविभागात्सिद्धम्(1)॥ योगविभागः करिष्यते-पूर्वपदात्संज्ञायाम्। ततः अगः। गान्तात्पूर्वपदाद्या च यावती च(2) णत्वप्राप्तिस्तस्याः सर्वस्याः प्रतिषेधः॥ अप्रतिषेधो वा यथा सर्वनामसंज्ञायाम्॥ न वाऽर्थः प्रतिषेधेन॥ णत्वं कस्मान्न भवति?॥ यथा सर्वनामसंज्ञायाम्। उक्तं च सर्वनामसञ्ञ्ज्ञायां(1) सर्वनामसंज्ञायां निपातनाण्णत्वाभावः इति॥ यथा पुनस्तत्र निपातनं क्रियते-सर्वादीनि सर्वनामानि इति, इहेदानीं किं निपातनम्?॥ इहापि निपातनमस्ति॥ किम्?॥ अणृगयनादिभ्य इति॥ नैव वा पुनरत्र णत्वं प्राप्नोति॥ किं कारणम्?॥ समानपद इत्युच्यते, न चैतत्समानपदम्॥ समासे कृते समानपदम्॥ समानपदमेव(2) यन्नित्यम्। न चैतन्नित्यं समानपदमेव॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमनुच्यमानं गंस्यते?॥ समानग्रहणसार्मथ्यात्। यदि हि यत्समानं चाऽसमानं च तत्र स्यात्समानग्रहणमनर्थकं स्यात्॥ (पूर्वपदात्संज्ञायामगः)॥
Kashika¶
पूर्वपदस्थाद् निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुणसः। वार्ध्रीणसः। खरणसः। शूर्पणखा। संज्ञायामिति किम्? चर्मनासिकः। अग इति किम्? ऋगयनम्। केचिदेतद् नियमार्थं वर्णयन्ति — पूर्वपदात् संज्ञायामेव णत्वं नान्यत्रेति। समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिरिति। स च नियमः पूर्वपदसंबन्धादुत्तरपदस्थस्यैव णत्वं निवर्तयति चर्मनासिक इति, न तद्धितपूर्वपदस्थस्य — खारपायणः, मातृभोगीणः, करणप्रिय इति। अग इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेध इति। अपरे तु पूर्वसूत्रे समानमेव यद् नित्यं पदं तत् समानपदमित्याश्रयन्ति, समानग्रहणात्। तेषामप्राप्तमेव णत्वमनेन विधीयते। समासे हि पूर्वपदोत्तरपदविभागादसमानपदत्वमप्यस्तीति॥
Siddhanta Kaumudi¶
पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । अणृगयनादिभ्यः (SK1452)इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः ।<!खुरखराभ्यां वा नस् !> (वार्तिकम्) ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥
Laghu Siddhanta Kaumudi¶
पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने। शूर्पणखा। गौरमुखा। संज्ञायां किम्? ताम्रमुखी कन्या॥
Balamanorama¶
पूर्वपदात् संज्ञायामगः - पूर्वपदात् ।रषाभ्या॑मित्यनेन लभ्दो रेफः प्रत्येकमन्वेति । तदाह — पूर्वपदस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । ‘अग’ इति फञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः । गकारात्परस्य नेति यावत् । तदाह — नतु गकारव्यवधाने इति । अनेनअट्कुप्वाङ्नुम्व्यवायेऽपि॑इत्यनुवृत्तिः । सूचिता । अन्यथाअग; इत्यस्य वैयथ्र्यं स्यात् ।खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष इवेत्यर्थः । द्रुणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति ।ऋवर्णा॑दिति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेम व्यवधानान्न भवतीति भावः । अत्रऋचामयन॑मिति विग्रहप्रदर्शनं चिन्त्यं, वाक्येन संज्ञानवगमात् । नच ‘रघुनाथ’ इत्यादौ संज्ञायां णत्वं शङ्क्यम्, णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एवभृञोऽसंज्ञायां॑मिति सूत्रभाष्येय एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति । किंतर्हि । प्रत्ययान्तेन चेत्संज्ञा गम्यते॑ इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहगुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनमच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खररूपा नासिका यस्येति विग्रहः । पक्षे ‘खुरनासिक’ इति ‘खरनासिक’ इति च न भवतीत्याह — पक्षेऽजपीष्यते इति । अच्प्रत्ययसहितो नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते ।
Padamanjari¶
रषाभ्याम्ऽ इति वर्तते, न च तयोः पूर्वपदत्वं सम्भवतीति सामर्थ्यात्पूर्वपदस्थान्निमितादुतरस्येत्येषोऽर्थो विज्ञायत इत्याह - पूर्वपदस्थादिति । रेफषकारान्तापूर्वपदादित्ययं त्वर्थो न भवति; व्याख्यानात् । द्रणस इति । द्रुरिव नासिका यस्येति बहुव्रीहिः, ठञ्नासिकायाःऽ इत्यञ्प्रत्ययो नशादेशश्च । वार्ध्रीणस इति । वध्रर्था विकारो वार्ध्री रज्जुः, वार्ध्रीव नासिका यस्य स वार्ध्रीणसःउमृगविशेषः । तत्र पूर्वपदस्योपमाननिष्ठत्वाद्व्यधिकरणत्वात् पुंवद्भावाभावः, नस्शब्दः प्रियादिषु वा द्रष्टव्यः । शूर्पणखेति ।’नखमुखात्संज्ञायाम्’ इति प्रतिषेधः । यदा तु योगो विवक्ष्यते, न संज्ञा - शूर्पाकाराणि नखानि यस्या इति; तदा ङीष् भवति, णत्वं तु न भवति - शूर्पनखी । एवं च णत्वङीषौ न समवेतः -‘ततः शूर्पनखीवाक्यात्’ इति । ठगःऽ इति शक्यमवक्तुम् । कस्मान्न भवति - ऋचामयनमृगयनमिति ? निपातनादेतत्सिद्धम् - ठणृगयनादिभ्यःऽ इति । यथान्यत्रोक्तम् -सर्वनाम संज्ञायां निपातनाण्णत्वाभाव इति । पूर्वपदात्संज्ञायामेवेति । विपरीतस्तु नियमो न भवति - पूर्वपदादेव संज्ञायामिति, शिवादिषु सुषेणशब्दस्य पाठात् । सिद्धे सत्यारम्भो नियमाय भवति, कथमत्र सिद्धिः ? इत्याह - समानपदेऽपि हीति । यद्यपि पूर्वपदस्थं निमितमुतरपदस्थो निमितीति भिन्नपदस्थत्वमप्यस्ति, तथापि समासे कृते ततो वा विभक्तिरुत्पद्यते, तया समुदायस्य पदसंज्ञायां सत्यां तस्मिन्समानेऽपि पदे भावादस्त्येव पूर्वेण प्राप्तिः, समानपदत्वं हि तत्राश्रितम्, न भिन्नपदत्वं प्रतिषिद्धम् । तस्मादुपपन्नं नियमार्थत्वम् । यद्येवम्, यथोतरपदस्थस्य नकारस्य णत्वं नियमेन व्यावर्त्यते - चर्मनासिक इति; तथा तद्धितपूर्वपदस्थस्यापि व्यावर्त्येत - खरपस्यापत्यम्’नडादिभ्यः फक्’ - खारपायणः, मातृभोगाय हितः’भोगोतरपदात्खः’ - मातृभोगीणः, करणं प्रियमस्य करणप्रियः ? इत्याह - स चेति । सम्बन्धिशब्दो नियतमेव प्रतियोगिनमुपस्थापयति, तद्यथा - मातरि वर्तितव्यं पितरि शुश्रूषितव्यमिति, न चोच्यते - स्वस्यां मातरि स्वस्मिन्पितरीति, अथ च सम्बन्धादेतद् गम्यते - यस्य या माता तस्यामिति, यो यस्य पिता तस्मिन्निति । पूर्वपदम्, उतरपदमिति च सम्बन्धिशब्दावेतौ - पूर्वपदमपेक्ष्योतरपदं भवति, उतरपदं चापेक्ष्य पूर्वपदम् । तत्र सम्बन्धादेतदवगन्तव्यम् - यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति । किञ्च प्रत्येतद्भवति ? उतरपदम् । अयं तर्हि दोषः - ठगःऽ इति नियमस्यैव प्रतिषेधः प्राप्नोति, तेनैकवाक्यत्वात्, न णत्वस्य, ततश्च संज्ञायाञ्च गान्तरे णत्वं प्राप्नोति ? अत आह - अग इति । ठगःऽ इति योऽयं प्रतिषेधः स णत्वस्य, न नियमस्य । अत्र हेतुः -योगविभागेनेति ।’पूर्वपदात्संज्ञायाम्’ इत्येको योगः, ठगःऽ इति द्वितीयः; अनेन च या च यावती च णत्वप्राप्तिः सा सर्वा प्रतिषिध्यते, योगविभागसामर्थ्यात् । अपरे त्वित्यादि । कथ पुनः समानमेवेत्यवधारणं लभ्यते ? अत आह - समानग्रहणादिति ।’पदे’ इत्येव वक्तव्यम्, तत्रापदस्थयोर्निर्मितिनिमितनोर सम्भवात् पदग्रहणमेकत्वविवक्षार्थं विज्ञायते । एवं सिद्धे यत्समानग्रहणं क्रियते, तस्यैतत्प्रयोजनं यथैवं विज्ञायेत - समानमेव यत्पदमिति । तेषामेवं ब्रुवतां विध्यर्थमेतद्विज्ञायत इत्याह - तेषामिति । विध्यर्थत्वमेवोपपादयति - समासे हीति । अथास्मिन्पक्षे खारपायण इत्यत्र कथं णत्वम्, यावता खरपशब्दे खरशब्दस्यापि पदत्वमस्ति, तत्स्थत्वाद्रेफस्य समानपदस्थत्वमेव न भवति ? नैष दोषः; यत्र द्वावपि निमितनिमितिनौ समानपदस्थत्वं व्यभिचरतः, तत्र णत्वाभावः; इह रेफस्य व्यभिचारेऽपि नकारस्य समानपदस्थत्वाव्यभिचाराण्णत्वं प्रवर्तते ॥
Nyaas¶
रेफादिनिमित्तमिहानुवर्तते, तस्य केवलस्य पूर्वपदत्वं न सम्भवतीति सामर्थ्यात्? पूर्वपदस्थान्निमित्तादुत्तरस्येत्येषोऽर्थो विज्ञायत इत्याह -पूर्वपदस्थान्निमित्तात् इत्यादि। द्रूणसः इति। दुरिव नासिकास्येति बहुव्रीहिः। द्रुशब्दोऽत्र शाखावचनः। अञ्नासिकायाः सज्ञायां नसञ्चास्थूलात् (5.4.118) इत्यच्? समासान्तनासिकायाश्च नसादेशः। चर्मनासिकः इति। चर्मविकारो नासिकास्येति समुदायविकारषष्ठआश्च बहुव्रीहिरुत्तरपदलोपश्च (दा।100) इति समासः। उपसर्जनह्रस्वत्वम्। ऋगयन्म् इति। ऋचोऽयनमिति षष्ठीसमासः। अगः इति शक्यमकर्तुम्, अणृगयनादिभ्यः (4.3.73) इति निपातनादेव ऋगयनमित्यत्र णत्वाभावः सिद्धः? नैतदस्ति; अबाधकान्यपि निपातनानि भवन्ति (पृ।प।वृ।00) इत्युक्तम्, तत्र यद्यग इति नोच्येत, तदा पक्ष ऋगयणमित्यपि विज्ञायेत। तस्यादग इति वक्तव्यम्। अथ किं पुनरिदं नियमार्थम्? उत्त विध्यर्थम्? इत्यत आह -केचित् इत्यादि। अपरे विध्यर्थमेतदिति वर्णयन्ति। अतः केचिदित्युक्तम्। ननु पूर्वसूत्रेण निमित्तनिमित्तिनोः समानपदस्थत्वे सति णत्वं विहितम्, न च द्रुणस इत्यादौ समासे कृते निमित्तनिमित्तिनोः समानपदस्थत्वमस्ति, निमित्तस्य पूर्वपदस्थत्वात्, निमित्तन उत्तरपदस्थात्वाच्च। एवञ्च पूर्वसूत्रेणाप्राप्तिरेव णत्वस्य, तत्? कथमस्य नियमार्थतोपपद्यते? इत्यत आह -समासेऽपि इत्यादि। यद्यति समासार्थाभ्यां पदाभ्यां या विभक्तिरुत्पन्ना तस्यां लुप्तायामपि तयोः प्रत्येकं प्रत्ययलक्षणेन पदसंज्ञायां सत्यां समासावयवापेक्षयाऽसमानपदताऽस्ति, तथापि समासाद्या विभक्तिरुत्पन्ना तया समुदायस्य पदसंज्ञायां सत्यां समुदायापेक्षया समानपदताऽस्त्येव। तस्मात्? सञासेऽपि समानपदे निमित्तनिमित्तनोर्बावादसति पूर्वेण प्राप्तिः; ततश्च नियमार्थमेतदिति स्थितम्। यद्येवम्, तर्हि यथा चर्मनासिक, इत्यत्रोत्तरपदस्थस्य नकारस्य णत्वं न भवति नियमेन व्यावर्त्तितत्वात्, तथा खरपस्यापत्यं खारपयणः -नडादिभ्यः फक (4.1.99) मातृभोगाय हितो मातृभोगीणः -आत्मन्विआजनभोगोत्तरपदात्? खः (5.1.9) इत्यत्र च तद्धितस्थस्यापि न स्यात्, तथा करणं प्रियमस्य करणप्रिय इत्यत्र पूर्वपदस्थस्यापि न स्यात्? अत आह -स च इत्यादि। सध्बन्धिशब्दो हि नियतमेव प्रतियोगिनं सन्निधापयति, [सन्निधापयन्ति -कांउ।पाठः, प्रांउ।पाठश्च] यथा हि भातरि भक्त्या प्रवर्त्तितव्यम् इत्युक्ते यद्यपि स्वस्यामिति नोच्यते, तथापि स्वस्यां मातरीति गम्यते; तथेहापि पूर्वपदमुत्तरपदमिति सम्बन्धिशब्दावेतौ -सति पूर्वपदत्वे उत्तरपदत्वं सम्भवति, सति चोत्तरपदत्वे पूर्वपदत्वं सम्भवति। पूर्वपदसन्निधानादुत्तरपदे सथिधापिते तस्यैवोत्तरपदस्थस्य नकारस्य नियमो णत्वं निवर्तयति - चर्मनासिक इत्यादौ, न सद्धितपूर्वपदस्यस्यापि। खारपायणो मातृभोगीण इत्यादौ यतायोगं तद्धितपूर्वपदस्थोनकारः, न तूत्तरपदस्थः। अयं तह्र्रस्मिन्नियमार्थे दोषः -अगः इति। प्रतिषेदो नियमस्यैव स्यात्, न तु णत्वस्य; नियमवाक्यैकदेशभूतत्वात्? प्रतिषेधस्य। ततः संज्ञायामसंज्ञायाञ्च गकाराण्णत्वं स्यात्। अत एवाह -अगः इत्यादि। अग इति योऽयं प्रतिषेधः स णत्वस्यैव, न नियमस्य। तल्मान्न भवत्येव दोषप्रसङ्गः। कथं पुनर्नियमवाक्यैकदेशभूतः सन्नेव प्रतिषेधो णत्वस्य विज्ञातुं शक्यः? इति प्रश्नावसर इदमुत्तरमाह -योगविभागेन इत्यादि। पूर्वपदात्संज्ञायाम् इत्येको योगः, अगः इति द्वितीयः; अनेन यावती काचिण्णत्वस्य प्राप्तिः सा सर्वा प्रतिषिध्यते, न त्वनन्तरमेव कार्यम्। अन्यथा योगविभागस्य वैयथ्र्य स्यात्। अपरे तु इत्यादि। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। अपरे त्वाचार्याः पूर्वसूत्रे समानमेव यन्नित्वं पदं तत्? समानपदमित्याश्रयन्ति। तदेतदुक्तं भवतदि -यदाऽवयवापेक्षा क्रियते तदापि यत्? समानपदम्; यदापि समुदायापेक्षा क्रियते, तदापि यत्? समानपदं तत्? समानपदमित्येवं परिगृह्लान्ति। कस्मात्? इत्यत आह -समानग्रहणात् इत्यादि। समानग्रहणं ह्रेवमर्थं क्रियते। एकपदाधिकरणत्वे सति निमित्तनिमित्तिनोर्णत्वं यथा स्यात्, भिन्नपदत्वे मा भूदिति। एतच्चाप्रयोजनम्; पदग्रहणादेवाल्यार्थस्य लब्धत्वात्। यदि भिन्नपदाधारत्वे सति णत्वं स्यात्, तदा पदग्रहणमनर्थकं स्यात्, व्यवच्छेद्याभावात्, न ह्रपदस्थौ तौ स्तः। तस्मात्? पदग्रहणसामर्थ्यादेवाभिन्नपदयोर्निमित्तनिमित्तनोर्णत्वं लभ्यते। तत्? पदग्रहणादेव समानपदे लब्धे समानग्रहणं क्रियमाणं नियमार्थं भवति -नित्यं यत्? समानपदम् इत्यभिप्रायः। तेषाम् इत्यादिना समानमेव यन्नित्यं पदं तत्? पूर्वसूत्रे य आश्रयन्ति, तन्मतेन विध्यर्थतामस्य दर्शयति। स्यादेतत् -समासेऽपि नित्यं समानपदमेवाश्रयो निमित्तनिमित्तिनोः, अत्रो नियमार्थमेतदुक्तम्, न विध्यर्थम्? इत्यत आह -समासे हि [समासेऽपि -प्रांउ।पाठः] इत्यादि। समासे ह्रवयवापेक्षयैतत्पूर्वपदमिति, एतदुत्तरपदमिति -एव विभागोऽस्ति, तस्मादसमामपदत्वमप्यस्ति। अपिशब्दात्समानपदत्वमपि। तत्र यदा पूर्वोत्तरवदापेक्षा भयति, तदा पूर्वोत्तरविभागादसमानपदत्वम्। यदा तु समुदायापेक्षा, तदा पूर्वोत्तरविभागाभावात्? समानपदत्वम्। अतो न समासे समानपदत्वं नित्यमेव॥
Prakriyasarvasvam¶
संज्ञायां पूर्वपदस्थनिमित्तात् परस्य गकारव्यवहितस्य नस्य णः स्यात् । द्रुहण्यतेऽनेनेति द्रुघणः कुठारभेदः । सूत्रे सर्वणामानीत्यनुक्तेरस्य णत्वस्यानित्यत्व- ज्ञापनाद् द्रुघनोऽपि । स्त्रियामयोग्नीत्यादीष्टम् ॥ इति णत्वम् । त्रिणेन्रः । अग इत्युक्तेर्ऋगयनो ग्रन्थः ॥
Sutra Prayogas¶
शूर्पणखा (रघुवंशम्): पूर्वपदात्संज्ञायाम् इति णत्वम्।
रामायणम् (रघुवंशम्): पूर्वपदात्संज्ञायामगः इति णत्वम्।
प्रवयणं (शिशुपालवधम्): पूर्वपदात्संज्ञायाम् इति णत्वम्।
त्रिनेत्र (शिशुपालवधम्): पूर्वपदात्संज्ञायामगः इति णत्वविचारः।
शूर्प-णखा (भट्टिकाव्यम्): पूर्वपदात्संज्ञायां इति णत्वम्।
प्रकोपणम (भट्टिकाव्यम्): हलश्चैजुपधात् इति णत्वम् ।