84003: पूर्वपदात् संज्ञायामगः ============================= **Padacheda:** पूर्वपदात् | S | 5 | 1 | संज्ञायाम् | S | 7 | 1 | अगः | S | 5 | 1 | Sutrartha --------- **समस्तपदस्य पूर्वपदे स्थिताभ्याम् रेफषकाराभ्यामुत्तरपदस्थस्य नकारस्य 'संज्ञायाः विषये' णकारादेशः भवति । परन्तु उभयोः पदयोः मध्ये गकारस्य व्यवधानमस्ति तत्र णत्वं न दृश्यते ।** 'संज्ञा' इत्युक्ते नामकरणम् । येन शब्देन कस्यचित् व्यक्तेः पदार्थस्य वा नामकरणं भवति सः शब्दः संज्ञा उच्यते । यथा - राम, नारिकेल आदयः । यः शब्दः संज्ञावाची अस्ति, तस्य विषये अनेन सूत्रेण णत्वं विधीयते । यदि अयं संज्ञावाची शब्दः समस्तपदमस्ति, तर्हि तस्य समस्तपदस्य पूर्वपदे स्थितः रेफः षकारः वा उत्तरपदस्थस्य नकारस्यापि (अट्-कु-पु-आङ्-नुम्-एतेषां व्यवधाने अपि) णत्वं कारयति इत्यर्थः । परन्तु, रेफात् / षकारात् परः गकारः अस्ति चेत् एतत् णत्वं निषिध्यते । यथा - शूर्पाणि इव नखानि यस्या सा = शूर्पणखा । अयं बहुव्रीहिसमासः । अत्र पूर्वपदम् = शूर्पम् (किञ्चन परिमाणम्) । उत्तरपदम् = नखम् । अस्मिन् समासे पूर्वपदे रेफः अस्ति, उत्तरपदे नकारः अस्ति । उभयोः मध्ये स्वरस्य पकारस्य च व्यवधानमस्ति (येन णत्वनिषेधः न भवति) । तथा च, समस्तपदम् संज्ञानिर्माणं करोति - शूर्पणखा इयम् रावणस्य भगिन्याः नाम । अतः अनेन सूत्रेण नकारस्य णकारं भवति । तथैव - राम + अयन = रामायण । अयं ग्रन्थस्य नाम, अतः अत्रापि सूत्रेणानेन णत्वं भवति । परन्तु यदि नकारात् पूर्वम् गकारः आगच्छति, तर्हि अयं णत्वं मा भूत् इति स्पष्टीकर्तुमस्मिन् सूत्रे 'अगः' इति उक्तमस्ति । यथा - 'ऋगयनम्' इति कस्यचन ग्रन्थस्य नाम । ऋक् + अयनम् = ऋगयनम् इत्यत्र जश्त्वेन ककारस्य गकारे कृते गकारस्य उपस्थितौ नकारस्य णकारः न भवति । Sutrartha (English) ------------------- For a समस्तपद which is defined as a संज्ञा, The र् and ष् present in the पूर्वपद causes the णत्वम् of नकार from the उत्तरपद, as long as there is no गकार in between. Vasu English Summary -------------------- So also, न् is replaced by ण् , when the letter occasioning the substitution, occurs in the first member of a compound, and the whole compound is a Name, provided that the first member does not end with the letter ग। Vasu English Translation ------------------------ So also, न् is replaced by ण् , when the letter occasioning the substitution, occurs in the first member of a compound, and the whole compound is a Name, provided that the first member does not end with the letter ग। As द्रुणसः, वार्द्ध्रीणसः (a kind of antelope), खरणसः, शूर्पणखा ॥ See (5.4.118) and (4.1.58). Why do we say "when a Name"? Observe, चर्मनासिकः ॥ Why do we say when 'not ending in the letter ग'? Observe; ऋगयनम् ॥ Some say, that this *sutra* is a नियम or a restrictive rule, and not a विधि or original enunciation, so that the substitution takes place, only when the word is a Name, and not otherwise. A compound is one word or समानपद, though composed of two or more words or पद ॥ Therefore by (8.4.11) the न will always be changed into ण when preceded by र or ष. But the present *sutra* restricts its scope, to those cases only, when the compound denotes a Name, as not in चर्मनासिका ॥ The word पूर्वपद is a relative term and connotes an उत्तरपद ॥ The present *sutra* therefore applies to those cases where the र् or ष् is in the पूर्वपद, and न occurs in the उत्तरपद ॥ It therefore, does not apply to तद्धित words, nor when both the letters occur in the पूर्वपद ॥ In the case of a *Taddhita*, there is a पूर्वपद, but there is no properly speaking उत्तरपद ॥ Thus खरपस्यापत्यं = खारपायणः (4.1.99). Here the affix अयन is equivalent to अपत्यं, and खरप is the *Purvapada*. But the affix अयन not being a *Pada*, we cannot call it an *uttara* *pada*. Hence न will be changed into ण though खारपायण is not an Appellative but a generic term. So also मातृभोगाय हितः = मातृभोगीणः with ख affix. Similarly in करणप्रियः, the words र and न both occur in the *Purvapada* and are not affected by this rule, but by the general rule (8.4.1). So also the proviso relating to ग, only prohibits the change of न into ण, but does not prohibit the restrictive character of this *sutra*. According to others, this *sutra* is an original enunciation or a *Vidhi* rule, and not a *Niyama* rule. They say that the word समानपद in (8.4.1) is equivalent to नित्यं पदं i. e. a word integral and indivisible into component words. In other words, समानपद means, a 'simple-word'. The present *sutra* therefore enunciates a new rule for a "compound-word". For in a compound or समास, there being a division of पूर्वपद and an उत्तरपद, we cannot say that a compound is a समानपद or indivisible word. Hence this *sutra* is a विधि ॥ The *sutra* should be thus divided :- पूर्वपदात् संज्ञायाम् one *sutra*, and अगः another. So that every rule relating to ण change would be debarred with regard to ग intervention. Bhashya ------- पूर्वपदात्संज्ञायामगः ॥ पूर्वपदात्संज्ञायामुत्तरपदग्रहणम्॥ पूर्वपदात्संज्ञायामुत्तरपदग्रहणं कर्तव्यम्॥ किं प्रयोजनम्?॥ तद्धितपूर्वपदस्यथाऽप्रतिषेधार्थम्॥ तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधो मा भूत्। खारपायणः, करणप्रियः॥ तत्तर्हि वक्तव्यम्?॥ न वक्तव्यम्। पूर्वपदमुत्तरपदमिति संबन्धिशब्दावेतौ। सति पूर्वपदे उत्तरपदं भवति, सति चोत्तरपदे पूर्वपदं भवति। तत्र सम्बन्धादेतदवगन्तव्यं-यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति॥ किं च प्रत्येतद्भवति?॥ उत्तरपदं प्रति॥ संज्ञायां नियमवचनेऽगप्रतिषेधान्नियमप्रतिषेधः॥ संज्ञायां नियमवचनेऽगप्रतिषेधान्नियमस्याऽयं प्रतिषेधो विज्ञायते-अग इति॥ तत्र को दोषः?॥ तत्र नित्यं णत्वप्रसङ्गः॥ तत्र पूर्वेण संज्ञायां चाऽसंज्ञायां च नित्यं णत्वं प्राप्नोति॥ योगविभागात्सिद्धम्(1)॥ योगविभागः करिष्यते-पूर्वपदात्संज्ञायाम्। ततः अगः। गान्तात्पूर्वपदाद्या च यावती च(2) णत्वप्राप्तिस्तस्याः सर्वस्याः प्रतिषेधः॥ अप्रतिषेधो वा यथा सर्वनामसंज्ञायाम्॥ न वाऽर्थः प्रतिषेधेन॥ णत्वं कस्मान्न भवति?॥ यथा सर्वनामसंज्ञायाम्। उक्तं च सर्वनामसञ्ञ्ज्ञायां(1) सर्वनामसंज्ञायां निपातनाण्णत्वाभावः इति॥ यथा पुनस्तत्र निपातनं क्रियते-सर्वादीनि सर्वनामानि इति, इहेदानीं किं निपातनम्?॥ इहापि निपातनमस्ति॥ किम्?॥ अणृगयनादिभ्य इति॥ नैव वा पुनरत्र णत्वं प्राप्नोति॥ किं कारणम्?॥ समानपद इत्युच्यते, न चैतत्समानपदम्॥ समासे कृते समानपदम्॥ समानपदमेव(2) यन्नित्यम्। न चैतन्नित्यं समानपदमेव॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमनुच्यमानं गंस्यते?॥ समानग्रहणसार्मथ्यात्। यदि हि यत्समानं चाऽसमानं च तत्र स्यात्समानग्रहणमनर्थकं स्यात्॥ (पूर्वपदात्संज्ञायामगः)॥ Kashika ------- पूर्वपदस्थाद् निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुणसः। वार्ध्रीणसः। खरणसः। शूर्पणखा। संज्ञायामिति किम्? चर्मनासिकः। अग इति किम्? ऋगयनम्। केचिदेतद् नियमार्थं वर्णयन्ति — पूर्वपदात् संज्ञायामेव णत्वं नान्यत्रेति। समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिरिति। स च नियमः पूर्वपदसंबन्धादुत्तरपदस्थस्यैव णत्वं निवर्तयति चर्मनासिक इति, न तद्धितपूर्वपदस्थस्य — खारपायणः, मातृभोगीणः, करणप्रिय इति। अग इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेध इति। अपरे तु पूर्वसूत्रे समानमेव यद् नित्यं पदं तत् समानपदमित्याश्रयन्ति, समानग्रहणात्। तेषामप्राप्तमेव णत्वमनेन विधीयते। समासे हि पूर्वपदोत्तरपदविभागादसमानपदत्वमप्यस्तीति॥ Siddhanta Kaumudi ----------------- पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । अणृगयनादिभ्यः (SK1452)इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः । (वार्तिकम्) ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥ Laghu Siddhanta Kaumudi ----------------------- पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने। शूर्पणखा। गौरमुखा। संज्ञायां किम्? ताम्रमुखी कन्या॥ Balamanorama ------------ **पूर्वपदात् संज्ञायामगः** - पूर्वपदात् ।रषाभ्या॑मित्यनेन लभ्दो रेफः प्रत्येकमन्वेति । तदाह — पूर्वपदस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । 'अग' इति फञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः । गकारात्परस्य नेति यावत् । तदाह — नतु गकारव्यवधाने इति । अनेनअट्कुप्वाङ्नुम्व्यवायेऽपि॑इत्यनुवृत्तिः । सूचिता । अन्यथाअग; इत्यस्य वैयथ्र्यं स्यात् ।खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष इवेत्यर्थः । द्रुणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति ।ऋवर्णा॑दिति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेम व्यवधानान्न भवतीति भावः । अत्रऋचामयन॑मिति विग्रहप्रदर्शनं चिन्त्यं, वाक्येन संज्ञानवगमात् । नच 'रघुनाथ' इत्यादौ संज्ञायां णत्वं शङ्क्यम्, णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एवभृञोऽसंज्ञायां॑मिति सूत्रभाष्येय एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति । किंतर्हि । प्रत्ययान्तेन चेत्संज्ञा गम्यते॑ इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहगुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनमच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खररूपा नासिका यस्येति विग्रहः । पक्षे 'खुरनासिक' इति 'खरनासिक' इति च न भवतीत्याह — पक्षेऽजपीष्यते इति । अच्प्रत्ययसहितो नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते । Padamanjari ----------- रषाभ्याम्ऽ इति वर्तते, न च तयोः पूर्वपदत्वं सम्भवतीति सामर्थ्यात्पूर्वपदस्थान्निमितादुतरस्येत्येषोऽर्थो विज्ञायत इत्याह - पूर्वपदस्थादिति । रेफषकारान्तापूर्वपदादित्ययं त्वर्थो न भवति; व्याख्यानात् । द्रणस इति । द्रुरिव नासिका यस्येति बहुव्रीहिः, ठञ्नासिकायाःऽ इत्यञ्प्रत्ययो नशादेशश्च । वार्ध्रीणस इति । वध्रर्था विकारो वार्ध्री रज्जुः, वार्ध्रीव नासिका यस्य स वार्ध्रीणसःउमृगविशेषः । तत्र पूर्वपदस्योपमाननिष्ठत्वाद्व्यधिकरणत्वात् पुंवद्भावाभावः, नस्शब्दः प्रियादिषु वा द्रष्टव्यः । शूर्पणखेति ।'नखमुखात्संज्ञायाम्' इति प्रतिषेधः । यदा तु योगो विवक्ष्यते, न संज्ञा - शूर्पाकाराणि नखानि यस्या इति; तदा ङीष् भवति, णत्वं तु न भवति - शूर्पनखी । एवं च णत्वङीषौ न समवेतः -'ततः शूर्पनखीवाक्यात्' इति । ठगःऽ इति शक्यमवक्तुम् । कस्मान्न भवति - ऋचामयनमृगयनमिति ? निपातनादेतत्सिद्धम् - ठणृगयनादिभ्यःऽ इति । यथान्यत्रोक्तम् -सर्वनाम संज्ञायां निपातनाण्णत्वाभाव इति । पूर्वपदात्संज्ञायामेवेति । विपरीतस्तु नियमो न भवति - पूर्वपदादेव संज्ञायामिति, शिवादिषु सुषेणशब्दस्य पाठात् । सिद्धे सत्यारम्भो नियमाय भवति, कथमत्र सिद्धिः ? इत्याह - समानपदेऽपि हीति । यद्यपि पूर्वपदस्थं निमितमुतरपदस्थो निमितीति भिन्नपदस्थत्वमप्यस्ति, तथापि समासे कृते ततो वा विभक्तिरुत्पद्यते, तया समुदायस्य पदसंज्ञायां सत्यां तस्मिन्समानेऽपि पदे भावादस्त्येव पूर्वेण प्राप्तिः, समानपदत्वं हि तत्राश्रितम्, न भिन्नपदत्वं प्रतिषिद्धम् । तस्मादुपपन्नं नियमार्थत्वम् । यद्येवम्, यथोतरपदस्थस्य नकारस्य णत्वं नियमेन व्यावर्त्यते - चर्मनासिक इति; तथा तद्धितपूर्वपदस्थस्यापि व्यावर्त्येत - खरपस्यापत्यम्'नडादिभ्यः फक्' - खारपायणः, मातृभोगाय हितः'भोगोतरपदात्खः' - मातृभोगीणः, करणं प्रियमस्य करणप्रियः ? इत्याह - स चेति । सम्बन्धिशब्दो नियतमेव प्रतियोगिनमुपस्थापयति, तद्यथा - मातरि वर्तितव्यं पितरि शुश्रूषितव्यमिति, न चोच्यते - स्वस्यां मातरि स्वस्मिन्पितरीति, अथ च सम्बन्धादेतद् गम्यते - यस्य या माता तस्यामिति, यो यस्य पिता तस्मिन्निति । पूर्वपदम्, उतरपदमिति च सम्बन्धिशब्दावेतौ - पूर्वपदमपेक्ष्योतरपदं भवति, उतरपदं चापेक्ष्य पूर्वपदम् । तत्र सम्बन्धादेतदवगन्तव्यम् - यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति । किञ्च प्रत्येतद्भवति ? उतरपदम् । अयं तर्हि दोषः - ठगःऽ इति नियमस्यैव प्रतिषेधः प्राप्नोति, तेनैकवाक्यत्वात्, न णत्वस्य, ततश्च संज्ञायाञ्च गान्तरे णत्वं प्राप्नोति ? अत आह - अग इति । ठगःऽ इति योऽयं प्रतिषेधः स णत्वस्य, न नियमस्य । अत्र हेतुः -योगविभागेनेति ।'पूर्वपदात्संज्ञायाम्' इत्येको योगः, ठगःऽ इति द्वितीयः; अनेन च या च यावती च णत्वप्राप्तिः सा सर्वा प्रतिषिध्यते, योगविभागसामर्थ्यात् । अपरे त्वित्यादि । कथ पुनः समानमेवेत्यवधारणं लभ्यते ? अत आह - समानग्रहणादिति ।'पदे' इत्येव वक्तव्यम्, तत्रापदस्थयोर्निर्मितिनिमितनोर सम्भवात् पदग्रहणमेकत्वविवक्षार्थं विज्ञायते । एवं सिद्धे यत्समानग्रहणं क्रियते, तस्यैतत्प्रयोजनं यथैवं विज्ञायेत - समानमेव यत्पदमिति । तेषामेवं ब्रुवतां विध्यर्थमेतद्विज्ञायत इत्याह - तेषामिति । विध्यर्थत्वमेवोपपादयति - समासे हीति । अथास्मिन्पक्षे खारपायण इत्यत्र कथं णत्वम्, यावता खरपशब्दे खरशब्दस्यापि पदत्वमस्ति, तत्स्थत्वाद्रेफस्य समानपदस्थत्वमेव न भवति ? नैष दोषः; यत्र द्वावपि निमितनिमितिनौ समानपदस्थत्वं व्यभिचरतः, तत्र णत्वाभावः; इह रेफस्य व्यभिचारेऽपि नकारस्य समानपदस्थत्वाव्यभिचाराण्णत्वं प्रवर्तते ॥ Nyaas ----- रेफादिनिमित्तमिहानुवर्तते, तस्य केवलस्य पूर्वपदत्वं न सम्भवतीति सामर्थ्यात्? पूर्वपदस्थान्निमित्तादुत्तरस्येत्येषोऽर्थो विज्ञायत इत्याह -`पूर्वपदस्थान्निमित्तात्` इत्यादि। `द्रूणसः` इति। दुरिव नासिकास्येति बहुव्रीहिः। द्रुशब्दोऽत्र शाखावचनः। `अञ्नासिकायाः सज्ञायां नसञ्चास्थूलात्` (5.4.118) इत्यच्? समासान्तनासिकायाश्च नसादेशः। `चर्मनासिकः` इति। चर्मविकारो नासिकास्येति `समुदायविकारषष्ठआश्च बहुव्रीहिरुत्तरपदलोपश्च` (दा।100) इति समासः। उपसर्जनह्रस्वत्वम्। `ऋगयन्म्` इति। ऋचोऽयनमिति षष्ठीसमासः। `अगः` इति शक्यमकर्तुम्, **अणृगयनादिभ्यः** (4.3.73) इति निपातनादेव ऋगयनमित्यत्र णत्वाभावः सिद्धः? नैतदस्ति; `अबाधकान्यपि निपातनानि भवन्ति` (पृ।प।वृ।00) इत्युक्तम्, तत्र यद्यग इति नोच्येत, तदा पक्ष ऋगयणमित्यपि विज्ञायेत। तस्यादग इति वक्तव्यम्। अथ किं पुनरिदं नियमार्थम्? उत्त विध्यर्थम्? इत्यत आह -`केचित्` इत्यादि। अपरे विध्यर्थमेतदिति वर्णयन्ति। अतः केचिदित्युक्तम्। ननु पूर्वसूत्रेण निमित्तनिमित्तिनोः समानपदस्थत्वे सति णत्वं विहितम्, न च द्रुणस इत्यादौ समासे कृते निमित्तनिमित्तिनोः समानपदस्थत्वमस्ति, निमित्तस्य पूर्वपदस्थत्वात्, निमित्तन उत्तरपदस्थात्वाच्च। एवञ्च पूर्वसूत्रेणाप्राप्तिरेव णत्वस्य, तत्? कथमस्य नियमार्थतोपपद्यते? इत्यत आह -`समासेऽपि` इत्यादि। यद्यति समासार्थाभ्यां पदाभ्यां या विभक्तिरुत्पन्ना तस्यां लुप्तायामपि तयोः प्रत्येकं प्रत्ययलक्षणेन पदसंज्ञायां सत्यां समासावयवापेक्षयाऽसमानपदताऽस्ति, तथापि समासाद्या विभक्तिरुत्पन्ना तया समुदायस्य पदसंज्ञायां सत्यां समुदायापेक्षया समानपदताऽस्त्येव। तस्मात्? सञासेऽपि समानपदे निमित्तनिमित्तनोर्बावादसति पूर्वेण प्राप्तिः; ततश्च नियमार्थमेतदिति स्थितम्। यद्येवम्, तर्हि यथा चर्मनासिक, इत्यत्रोत्तरपदस्थस्य नकारस्य णत्वं न भवति नियमेन व्यावर्त्तितत्वात्, तथा खरपस्यापत्यं खारपयणः -`नडादिभ्यः फक` (4.1.99) मातृभोगाय हितो मातृभोगीणः -`आत्मन्विआजनभोगोत्तरपदात्? खः` (5.1.9) इत्यत्र च तद्धितस्थस्यापि न स्यात्, तथा करणं प्रियमस्य करणप्रिय इत्यत्र पूर्वपदस्थस्यापि न स्यात्? अत आह -`स च` इत्यादि। सध्बन्धिशब्दो हि नियतमेव प्रतियोगिनं सन्निधापयति, [सन्निधापयन्ति -कांउ।पाठः, प्रांउ।पाठश्च] यथा हि `भातरि भक्त्या प्रवर्त्तितव्यम्` इत्युक्ते यद्यपि स्वस्यामिति नोच्यते, तथापि स्वस्यां मातरीति गम्यते; तथेहापि पूर्वपदमुत्तरपदमिति सम्बन्धिशब्दावेतौ -सति पूर्वपदत्वे उत्तरपदत्वं सम्भवति, सति चोत्तरपदत्वे पूर्वपदत्वं सम्भवति। पूर्वपदसन्निधानादुत्तरपदे सथिधापिते तस्यैवोत्तरपदस्थस्य नकारस्य नियमो णत्वं निवर्तयति - चर्मनासिक इत्यादौ, न सद्धितपूर्वपदस्यस्यापि। खारपायणो मातृभोगीण इत्यादौ यतायोगं तद्धितपूर्वपदस्थोनकारः, न तूत्तरपदस्थः। अयं तह्र्रस्मिन्नियमार्थे दोषः -`अगः` इति। प्रतिषेदो नियमस्यैव स्यात्, न तु णत्वस्य; नियमवाक्यैकदेशभूतत्वात्? प्रतिषेधस्य। ततः संज्ञायामसंज्ञायाञ्च गकाराण्णत्वं स्यात्। अत एवाह -`अगः` इत्यादि। अग इति योऽयं प्रतिषेधः स णत्वस्यैव, न नियमस्य। तल्मान्न भवत्येव दोषप्रसङ्गः। कथं पुनर्नियमवाक्यैकदेशभूतः सन्नेव प्रतिषेधो णत्वस्य विज्ञातुं शक्यः? इति प्रश्नावसर इदमुत्तरमाह -`योगविभागेन` इत्यादि। `पूर्वपदात्संज्ञायाम्` इत्येको योगः, `अगः` इति द्वितीयः; अनेन यावती काचिण्णत्वस्य प्राप्तिः सा सर्वा प्रतिषिध्यते, न त्वनन्तरमेव कार्यम्। अन्यथा योगविभागस्य वैयथ्र्य स्यात्। `अपरे तु` इत्यादि। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। अपरे त्वाचार्याः पूर्वसूत्रे समानमेव यन्नित्वं पदं तत्? समानपदमित्याश्रयन्ति। तदेतदुक्तं भवतदि -यदाऽवयवापेक्षा क्रियते तदापि यत्? समानपदम्; यदापि समुदायापेक्षा क्रियते, तदापि यत्? समानपदं तत्? समानपदमित्येवं परिगृह्लान्ति। कस्मात्? इत्यत आह -`समानग्रहणात्` इत्यादि। समानग्रहणं ह्रेवमर्थं क्रियते। एकपदाधिकरणत्वे सति निमित्तनिमित्तिनोर्णत्वं यथा स्यात्, भिन्नपदत्वे मा भूदिति। एतच्चाप्रयोजनम्; पदग्रहणादेवाल्यार्थस्य लब्धत्वात्। यदि भिन्नपदाधारत्वे सति णत्वं स्यात्, तदा पदग्रहणमनर्थकं स्यात्, व्यवच्छेद्याभावात्, न ह्रपदस्थौ तौ स्तः। तस्मात्? पदग्रहणसामर्थ्यादेवाभिन्नपदयोर्निमित्तनिमित्तनोर्णत्वं लभ्यते। तत्? पदग्रहणादेव समानपदे लब्धे समानग्रहणं क्रियमाणं नियमार्थं भवति -`नित्यं यत्? समानपदम्` इत्यभिप्रायः। `तेषाम्` इत्यादिना समानमेव यन्नित्यं पदं तत्? पूर्वसूत्रे य आश्रयन्ति, तन्मतेन विध्यर्थतामस्य दर्शयति। स्यादेतत् -समासेऽपि नित्यं समानपदमेवाश्रयो निमित्तनिमित्तिनोः, अत्रो नियमार्थमेतदुक्तम्, न विध्यर्थम्? इत्यत आह -`समासे हि` [`समासेऽपि` -प्रांउ।पाठः] इत्यादि। समासे ह्रवयवापेक्षयैतत्पूर्वपदमिति, एतदुत्तरपदमिति -एव विभागोऽस्ति, तस्मादसमामपदत्वमप्यस्ति। अपिशब्दात्समानपदत्वमपि। तत्र यदा पूर्वोत्तरवदापेक्षा भयति, तदा पूर्वोत्तरविभागादसमानपदत्वम्। यदा तु समुदायापेक्षा, तदा पूर्वोत्तरविभागाभावात्? समानपदत्वम्। अतो न समासे समानपदत्वं नित्यमेव॥ Prakriyasarvasvam ----------------- संज्ञायां पूर्वपदस्थनिमित्तात् परस्य गकारव्यवहितस्य नस्य णः स्यात् । द्रुहण्यतेऽनेनेति द्रुघणः कुठारभेदः । सूत्रे सर्वणामानीत्यनुक्तेरस्य णत्वस्यानित्यत्व- ज्ञापनाद् द्रुघनोऽपि । स्त्रियामयोग्नीत्यादीष्टम् ॥ इति णत्वम् । त्रिणेन्रः । अग इत्युक्तेर्ऋगयनो ग्रन्थः ॥ Sutra Prayogas -------------- * **शूर्पणखा** (रघुवंशम्): `पूर्वपदात्संज्ञायाम्` इति णत्वम्। * **रामायणम्** (रघुवंशम्): `पूर्वपदात्संज्ञायामगः` इति णत्वम्। * **प्रवयणं** (शिशुपालवधम्): `पूर्वपदात्संज्ञायाम्` इति णत्वम्। * **त्रिनेत्र** (शिशुपालवधम्): `पूर्वपदात्संज्ञायामगः` इति णत्वविचारः। * **शूर्प-णखा** (भट्टिकाव्यम्): `पूर्वपदात्संज्ञायां` इति णत्वम्। * **प्रकोपणम** (भट्टिकाव्यम्): `हलश्चैजुपधात्` इति णत्वम् ।