83118: सदेः परस्य लिटि¶
Padacheda: सदेः | S | 6 | 1 |
परस्य | S | 6 | 1 |
लिटि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The ष् substitution does not take place in the स् of सद् and ष्वञ्ज् after the reduplicate in the लिट् (Perfect Tense).
Vasu English Translation¶
The ष् substitution does not take place in the स् of सद् and ष्वञ्ज् after the reduplicate in the लिट् (Perfect Tense). In the Perfect, when these words are reduplicated, there are two स’s, as ससाद and सस्वंज ॥ After a preposition, the first स will be changed to ष, but not so the second. Thus अभिषसाद, परिषसाद, निषसाद, विषसाद, परिषस्वजेः, परिषस्वजाते, परिषस्वजिरे, अभिषस्वजे ॥ The nasal of स्वंज is elided though here, the लिट् affix is not कित्, because it ends in a compound vowel (6.4.24), (1.2.5) and (1.2.6).
The word स्वंज does not occur in the sutra, but has been inserted in it by the author of Kasika from the following Vartika:- सदो लिटि प्रतिषेधे स्वञ्जे रूपसंख्यानं कर्तव्यम् ॥
Bhashya¶
सदेः परस्य लिटि ॥ सदो लिटि प्रतिषेधे स्वञ्ञ्जेरुपसङ्ख्यानम्॥ सदो लिटि प्रतिषेधे स्वञ्ञ्जेरुपसङ्ख्यानं कर्तव्यम्। परिषस्वजे॥ ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्येऽष्टमस्याध्यायस्य तृतीये पादे द्वितीयमाह्निकम्॥ पादश्च तृतीयः समाप्तः॥
Kashika¶
सदि ष्वञ्जि इत्येतयोर्धात्वोर्लिटि परतः सकारस्य परस्य मूर्धन्यो न भवति। अभिषसाद। परिषसाद। निषसाद। विषसाद। परिषस्वजे, परिषस्वजाते, परिषस्वजिरे। अभिषस्वजे। स्वञ्जेः संयोगान्तादपि विभाषा लिटः कित्त्वमिच्छन्ति (१.२.६ वा०) इति पक्षेऽनुषङ्गलोपः॥
Siddhanta Kaumudi¶
सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः ।{$ {!855 शद्लृ!} शातने$} । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥
Balamanorama¶
सदिष्वञ्जोः परस्य लिटि - स्तन्भुसिवु ।उपसर्गनिमित्तस्य प्रतिषेध॑ इति वार्तिकम् । न रपरसृपी॑त्यतो नेत्यनुवर्तते । ‘सहे साडः सः’ इत्यतः स इति षष्ठन्तमनुवर्तते । ‘मूर्धन्य’ इत्यधिकृतम् । तदाह — उपसर्गनिमित्त इत्यादि । स्तम्भुः सौत्रो धातुः ।षिवु ततन्तुसन्ताने॑ ‘षह मर्षणे’ पर्यसीषिवत् न्यसीषहदिति ।परिनिविभ्यः सेवे॑त्युपसर्गनिमित्तं षत्वं न । अभ्यासनिमित्तं तु षत्वं भवत्येव । आटिट्त आशिशदिति । आट् इ अ त्, आश् इ अ त् इति स्थितेणौ चङी॑त्युपधाह्रस्वात्प्रागन्तरङ्गत्वा॒चङी॑ति द्वित्वमाशङ्क्याह — बहिरङ्गोऽपीति । उपधाह्रस्वश्चङ्परण्यपेक्षत्वाद्बहिरङ्गः । द्वित्वं तु चङ्मात्रापेक्षत्वादन्तरङ्गम् । अथाऽपि द्वित्वात्प्रागेव उपधाह्रस्व इत्यर्थः । कुत इत्यत आह — ओणेरिति । ‘ओणृ अपनयने’ इति धातोः ऋदित्करणम् औणिणदित्यत्र नोग्लोपी॑ति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाह्रस्वात्प्रागेव अन्तरङ्गत्वाद्द्वित्वं स्यात्तदा ओण् इ अ त् इत्यत्रअजादेर्द्वितीयस्ये॑ति णीत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चङ्परे णौ उपधात्वाऽभावादेव ह्रस्वस्याऽप्रसक्तत्वादृदित्करणं व्यर्थं स्यात् ।द्वित्वात्प्रागेव उपधाह्रस्व॑इत्यभ्युपगमे तु ओण् इ अ त् इत्यस्यामवस्थायां प्राप्तस्य ह्रस्वस्य निषेधार्थमृदित्करणमर्थवत् । अतोबहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवे॑ति विज्ञायते इत्यर्थः । ननु आटिटत् आशिशदिति सिध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह — मा भवानिदिधदिति । एध् इ अ त् इति स्थिते पूर्वं द्वित्वप्रवृत्तौधी॑त्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात्, द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अ त् इति स्थितेधी॑त्यस्य द्वित्वे माङ्योगादाडभावे इदिधदिति इष्टं सिध्यतीत्यर्थः । ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वात् ‘एत्येधत्यूठ्सु’ इति वृद्धिः स्यादित्यत आह — एजादावेधताविति ।अवर्णादेजाद्योरेत्येधत्यो॑रिति व्याख्यातत्वादिति भावः । औन्दिददिति । उन्द् इ अ त् इति स्थितेदी॑त्यस्य द्वित्वमिति भावः । आड्डिडदिति । अड्डधातुर्दोपधः । ष्टुत्वसंपन्नो डकारः । अड्डि अ त् इति स्थिते ष्टुत्वस्याऽसिद्धत्वेन दकारात्परस्यडि॑इत्यस्य द्वित्वमिति भावः । आर्चिददिति । अर्च् इ अ त् इति स्थिते रेफात् परस्यची॑त्यस्य द्वित्वमिति भावः । उब्ज आर्जवे इति । ननु चङिब्जी॑त्यस्य द्वित्वे हलादिशेष#ए औबिब्जदिति रूपं स्यात् । औब्जिजदित्येव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रुयते इत्यत आह — भुजन्युब्जाविति । ननु द्वित्वात्प्रागन्तरङ्गत्वाद्दकारस्य बकारादेशे सति ‘न न्द्रा’ इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह — स चेति । ननु ‘द्रु गतौ’ द्रावयति, चङिद्रु॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोरुपधाह्रस्वेरुआवतिशृणोती॑त्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते । तन्नोपपद्यते । ‘न न्द्राः’ इति दकारस्य द्वित्वनिषेधादित्यत आह — अजादेरित्येवेति । ‘न न्द्राः’ इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः । ‘आदिभूतादचः’ इति व्याख्यातं प्राक् । ततश्च आदिभूतादचः परा नदरा द्विर्न भवन्तीति फलितम् । नेहेति । प्रकृते आदिभूतादचः परत्वाऽभावान्न दकारद्वित्वनिषेध इत्यर्थः ।अदिद्रप॑दिति पाठे द्राधातोर्णिचि पुकिद्रापी॑त्यस्माद्रूपम् । ननुलावस्थायाम॑डिति पक्षे अचः परत्वमस्त्येवेति चेन्न, ‘न न्द्राः’ इत्यत्रलिटि धातो॑रित्तो धातोरित्यनुवर्त्त्य धातुसंज्ञाकालिकादादेरचः परा नदरा द्विर्नेति व्याख्यानादित्याहुः ।
Tattvabodhini¶
सदिष्वञ्जोः परस्य लिटि - स्तन्भुः सौत्रः ।षिवु तन्तुसंताने॑ । षह मर्षणे॑ । स्तन्भतेःस्तन्भेः॑ इत्यनेन प्राप्तिरन्ययोस्तुपरिनिविभ्यः॑ इत्यनेनेति विवेः । आटिटत् । आशिशदिति । णिचा सह द्वित्वात्सन्वद्भावो नेति त्दविषये विहितो योदीर्घो लघो॑रिति दीर्घः स न प्रवर्तते । ऋदित्करणाल्लिङ्गादिति । यदि पूर्वं द्विर्वचनं भवेत्तद । णिशब्दस्य द्वित्वे सत्युपधाह्रस्वस्याऽप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽथ ज्ञापकमेव । एजादावेधताविति ।एत्येधत्यूठ्सु॑ इति सूत्रेएजाद्योरेत्येधत्यो॑रिति व्याख्यातत्वादिति भावः । न च मा भवान्प्रेदिधदित्यत्रणौ चङी॑ति ह्रस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषमेनेति वाच्यम्, एकदेशविकृतस्याऽनन्यत्वात् । न चैवमपिअजादेर्द्वितीयस्ये॑ति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभाघसंमोह इति वाच्यं,द्विः प्रयोगो द्विर्वचनं षष्ठ॑मिति भाष्ये सिद्धान्ततत्वात् । अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात्,जिघांसती॑त्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक् । उब्ज आर्जव इति । अयमुपध्मानीयोपध इति वार्तिककृतोक्तम् । तस्यझलां जश् झशी॑ति झश्त्वेन बकारे कृते — अब्जिता उब्जितुमिति रूपम् । एतच्चाऽयोगवाहानां शर्षु पाठस्य फलम् । भाष्यकारादयस्तूपध्मानीयोपधपाठेउब्जिजिषती॑ति रूपं न सिध्येत् । यदिपूर्वत्राऽसिद्धीयमद्विर्वचने॑ इत्याश्रित्य बकारोत्तरं द्वित्वं क्रिये, यदि वा अस्याऽनित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयतापीष्टरूपाऽसिद्धिः, आद्ये उबिब्जिषति, द्वितीये तूपध्मीनीयस्याऽच्त्वात्तदादेःअजादेर्द्वितीयस्ये॑ति द्वित्वे हलादिः शेषे द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्ब्जिषतीत्यापत्तेः । ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः ।बुजन्युब्जा॑विति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्चस्तोः श्नुना श्चु॑रित्यस्याग्रे । तदयमर्थः - श्चुना योगे उद्जेर्दकारस्य बकार इति । अभ्युद्रः समुद्र इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः । दकारोपधे चास्मन्स्वीकरृतेन न्द्राः॑ इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम् । न चपूर्वत्रासिद्धीयमद्विर्वचने॑इति धकारोत्तरं द्विर्वचने सति स्यादेवाऽनिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि । तथा च निषेधे त्रिपादीश्थस्याऽसिद्धत्वात्न न्द्राः॑ इति निषेधः प्रवर्तते । य्दवा तादृशवाक्यमिह न कल्प्यते किं तुभुजन्युब्जौ॑ इति निपातनेन दस्य ब इति । न चैवं बकारसहितस्य द्वित्वप्रसङ्गः, धातोर्दकारोच्चारणसामर्थ्यात् । नचाऽभ्युद्र इत्यादावपि बकारश्रवणप्रसङ्गः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात् । यद्वा अभ्युद्र इत्यादि रूपं द्व्युपसर्गाद्रमेर्डप्रत्यये ज्ञेयम् । उद्जेस्तु घञि अनभिधात्प्रयोगाऽभाव इति वदन्ति । तदेतद्भाष्यादिमतमभिप्रेत्याह — उपदेशे दकारोपध इत्यादि । अजादेरित्येवेति ।न न्द्राः॑ इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः । ननुलावस्थायामेवअ॑डिति भाष्याकोरक्तपक्षे अदिद्रपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट्, परत्वादन्तरङ्गत्वाच्चेति चेत् । अत्राहुः — द्वितीयस्येत्यप्यत्रानुवर्तते, तत्सामर्थ्याच्च नित्यं द्वितीयस्येति तदर्थः । तेन लावस्थायामटि कृतेऽपि दातुसंज्ञाप्रवृत्तिकाले अजादित्वाऽभावान्नोक्तदोषः । नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात् । न चैवं नित्य#ं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्याऽत्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्द्रिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः । अजादेरित्युक्तौ त्वादिभूतदचः परत्वं दकारस्य नेति सिद्धमिष्टम् । न च अजादेरिति कर्मधारयात्पञ्चमीत्युक्तत्वात् । इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवत्र्यताम् । अथवा आदेरित्य्सयाप्यनुवर्तनमस्तु, तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं, शब्दाधिकाराश्रयणादिति ज्ञेयम् । नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थितेद्वितीयस्येति न वक्तव्य॑मिति भाष्यं विरुध्येतेति चेत् । मैवम् । यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात् । रन च अजादेरित्येतावत्युक्तेयस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम्, प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात् ।
Prakriyasarvasvam¶
सदेः परस्य लिटि इत्येव सूत्रपाठः । स्वञ्जिर्वार्तिकात् प्रक्षिप्तः । के । अनयोर्लिट्यभ्यासात् परस्य षत्वं न । परिपस्वञ्जे इत्यादि । सदेस्तु विपसाद । आशीरादौ स्वञ्जक्षीष्ट । स्वञ्जक्षीध्वम् । स्वङ्क्ता । स्वङ्क्ष्यते । अय गतौ । अयते ।
Vartika¶
स्वञ्जेरुपसंख्यानम् ।