83115: सोढः =========== **Padacheda:** सोढः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The ष् substitution does not take place in the स् of सोढ form of the root सह। Vasu English Translation ------------------------ The ष् substitution does not take place in the स् of सोढ form of the root सह। As परिसोढः, परिसोढुम्, परिसोढव्यम् ॥ This is an exception to (8.3.70). Why do we say 'when सह assumes the form of सोढ' ॥ Observe परिषहते, विषहते ॥ Bhashya ------- सोढः किमर्थं सहिः सोढभूतो गृह्यते? ॥ यत्रास्यैतद्रूपं तत्र यथा स्यादिह मा भूत्परिषहत इति ॥ (सोढः)। Kashika ------- सहिरयं सोड्भूतो गृह्यते, तस्य सकारस्य मूर्धन्यादेशो न भवति। परिसोढा। परिसोढुम्। परिसोढव्यम्। सोड्भूतग्रहणं किम्? परिषहते॥ Siddhanta Kaumudi ----------------- सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥ Balamanorama ------------ **सोढः** - सेधतेः । न षत्वमिति ।न रपरे॑त्यतो नेत्यनुवृत्तेरिति भावः । गङ्गां विसेधतीति । गच्छतीत्यर्थः । इहउपसर्गात्सुनोती॑ति षत्वं न भवति । अनन्तरस्येति न्यायेन उपसर्गात्सुनोतीत्यस्यैवायं निषेधः,न त्वादेशप्रत्ययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्ययोरिति षत्वं भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपतवात्कथं धात्वर्थत्वमित्यत आह -शास्त्रं शासनमिति । माङ्गल्यं तु — शुभकर्म । षिध गत्यामितिवदस्यापि रूपाणि । Tattvabodhini ------------- **सोढः** - सेधतेर्गतौ । श्तिपा निर्देशाद्गत्यर्थादस्माद्यङ्लुकि न निषेधः,तेनोपसर्गमाश्रित्य षत्वं भवत्येव — विषेषिधीति॑ । न च सेदेति शपा निर्देशाद्यङलुकिउपसर्गात्सुनोती॑ति षत्वं न भवेदिति शङ्क्यं,दैवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चरितार्थतत्वात् । अन्यथा सेधतेरिति श्तिपा निर्देशस्य वैयथ्र्यापत्तेरिति दिक् । षिधू शास्त्रे । माङ्गस्यं- मङ्गलक्रिया । स्वार्थे ष्यञ । Padamanjari ----------- अत्रेत्यादि । इतिकरणो हेतौ, यस्मात् स्तौतिण्योरेवेति नियमादभ्यासादप्राप्तिः, रथादिष्वेवाभ्यासस्येति नियमादुपसर्गादप्यप्राप्तिः, तस्मादभिसुसूरित्युदाहरन्ति । अथ वा कथं षत्वप्रसङ्गः ? अत आह - अत्र हीति । यथा चात्र सन्ष इत्यत्रोक्तम् । अभ्यासात्प्राप्तिमिति । अभ्यासग्रहणमुपसर्गात्प्राप्तेरसम्भवादभ्यासेन व्यवहितान्न धातुसकारस्य प्रसङ्गः, नाप्यभ्याससकारस्य, स्थादिनियमेन व्यावतितत्वात् । एवं चात्राभिग्रहणमतन्त्रम्, सुसूरित्येवोदाहर्तव्यम् ॥ Nyaas ----- `परिनिविभ्यः` (8.3.70) इति प्राप्ते षत्व आरभ्यते। `सोढः` इति। निष्ठायामपि प्रथमैकवचने कृत एतद्रूपं भवति। एतद्ग्रहणाशङ्कानिरासायाह - `सहिरयम्` इत्यादि। `सोङ्भूतः`[`सोढभूतः` - प्रांउ।पाठः] इति। हकारे ढकारे कृते यद्रूपं भवति तत्प्राप्त इत्यर्थः। ढकारस्तु जश्त्वे न श्रूयते। `परिसोढः` इति। घत्वढत्वष्टुत्वढलोपेषु कृतेषु **सहिवहोरोदवर्णस्य** (6.3.112) इत्योकारः॥ Prakriyasarvasvam ----------------- सोढ् इत्येवंरूपस्य सहेः 'परिनिविभ्यः सेव—' (८-३-७०) इत्यादिना प्राप्तं षत्वं न स्यात् । परिसोढुम् । निसोढा । विसोढव्यम् ॥ Sutra Prayogas -------------- * **विसोढवन्तमस्त्राणि** (भट्टिकाव्यम्): `सोढः` इति षत्वप्रतिषेधः।