83105: स्तुतस्तोमयोश्छन्दसि

Padacheda: स्तुत-स्तोमयोः | S | 6 | 2 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

ष् is substituted for the स् of स्तुत in the छन्दस् (Vedas), in the opinion of some.

Vasu English Translation

ष् is substituted for the स् of स्तुत in the छन्दस् (Vedas), in the opinion of some. Thus त्रिभिष्टुतस्य or त्रिभिस्तुतस्य, गोष्टोमं षोडशिनम् or गोस्तोमं षोडशिनम् ॥ This change would have taken place by the general rule contained in the next sutra (8.3.106), the special mention of स्तुत and स्तोम here is a mere amplification. The word छन्दसि of this sutra governs the subsequent sutra also.

Bhashya

स्तुतस्तोमयोश्छन्दसि ॥ स्तुतस्तोमयोश्छन्दस्यनर्थकं वचनं पूर्वपदादिति सिद्धत्वात्॥ स्तुतस्तोमयोश्छन्दसि वचनमनर्थकम् (इत्येव(2))॥ किं कारणम्?॥ पूर्वपदादिति सिद्धत्वात्। पूर्वपदादित्येव सिद्धम्॥ (स्तुतस्तोमयोः)॥

Kashika

एकेषामिति वर्तते। स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवत्येकेषामाचार्याणां मतेन। त्रिभिष्टुतस्य, त्रिभिस्तुतस्य। गोष्टो॑मं (तै० सं० ७.४.११.१) षोडशिनम्, गोस्तोमं षोडशिनम् (तु० — आ० श्रौ० ९.५.२)। पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम्॥

Siddhanta Kaumudi

नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥

Padamanjari

अभीषुण इति । ठिकः सुञिःऽ इति दीर्घत्वम्,’नश्च धातुस्थोरुषुभ्यः’ इति णत्वम् । क्वचितु वृतावेवैतत्पठ।ल्ते ॥

Nyaas

सात्पदाद्योः (8.3.111) इति प्रतिषेधे प्राप्तेऽस्यारम्भः। ननु चोत्तरसूत्रेणैव नुभिःष्टुतम्, गोभिःष्टोमम् इत्यत्र षत्वं सिध्यति, तत्किमर्थमिदमारभ्यते? स्यादेतत् -समासे सत्येतद्भवति पूर्वपदम्, उत्तरपदमिति, न चात्र समासः, तस्मात्? पूर्वपदादि (8.3.106) त्युत्तरेण न सिध्यतीति? एतच्चासम्यक्, असमासे यत्? पूर्वपदं तदपि तत्रापि गृह्रते। वक्ष्यति -असमासे [असमासेऽपि यत्पूर्वपदम् -काशिका। असमासे यत्? पूर्वपबदं तदपि तत्रापि गृह्रते -प्रांउंयासपाठः। ] यदपि पूर्वपदं तदपि [तदपीह -काशिका] गृह्रते` (काशिका।8.3.104) इति? अत आह -पूर्वपदादित्येव इत्यादि॥

Prakriyasarvasvam

पूर्वयोरर्थाच्छन्दोविषयत्वम्; इदानी कण्ठोक्तिः । सुष्टुत इन्द्र । यदि स्तुतस्यमरुतः । गोष्ठोमम् । गोस्तोमम् । पूर्वयोरर्थाच्छन्दोविषयत्वम्; इदानीं कण्ठोक्तिः । सुष्टुत इन्द्र । यदि स्तुतस्यमरुतः । गीष्ठोमम् । गोस्तोमम् । पूर्वयोरथर्च्छन्दोविषयत्वम्; इदानीं कण्ठोक्तिः । सुष्टुत इन्द्र । यदि स्तुतस्यमरुतः । गोष्ठोमम् । गोस्तोमम् ।