83105: स्तुतस्तोमयोश्छन्दसि =========================== **Padacheda:** स्तुत-स्तोमयोः | S | 6 | 2 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् of स्तुत in the छन्दस् (Vedas), in the opinion of some. Vasu English Translation ------------------------ ष् is substituted for the स् of स्तुत in the छन्दस् (Vedas), in the opinion of some. Thus त्रिभिष्टुतस्य or त्रिभिस्तुतस्य, गोष्टोमं षोडशिनम् or गोस्तोमं षोडशिनम् ॥ This change would have taken place by the general rule contained in the next *sutra* (8.3.106), the special mention of स्तुत and स्तोम here is a mere amplification. The word छन्दसि of this *sutra* governs the subsequent *sutra* also. Bhashya ------- स्तुतस्तोमयोश्छन्दसि ॥ स्तुतस्तोमयोश्छन्दस्यनर्थकं वचनं पूर्वपदादिति सिद्धत्वात्॥ स्तुतस्तोमयोश्छन्दसि वचनमनर्थकम् (इत्येव(2))॥ किं कारणम्?॥ पूर्वपदादिति सिद्धत्वात्। पूर्वपदादित्येव सिद्धम्॥ (स्तुतस्तोमयोः)॥ Kashika ------- एकेषामिति वर्तते। स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवत्येकेषामाचार्याणां मतेन। त्रिभिष्टुतस्य, त्रिभिस्तुतस्य। गोष्टो॑मं (तै० सं० ७.४.११.१) षोडशिनम्, गोस्तोमं षोडशिनम् (तु० — आ० श्रौ० ९.५.२)। पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम्॥ Siddhanta Kaumudi ----------------- नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥ Padamanjari ----------- अभीषुण इति । ठिकः सुञिःऽ इति दीर्घत्वम्,'नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । क्वचितु वृतावेवैतत्पठ।ल्ते ॥ Nyaas ----- **सात्पदाद्योः** (8.3.111) इति प्रतिषेधे प्राप्तेऽस्यारम्भः। ननु चोत्तरसूत्रेणैव `नुभिःष्टुतम्, गोभिःष्टोमम्` इत्यत्र षत्वं सिध्यति, तत्किमर्थमिदमारभ्यते? स्यादेतत् -समासे सत्येतद्भवति पूर्वपदम्, उत्तरपदमिति, न चात्र समासः, तस्मात्? पूर्वपदादि (8.3.106) त्युत्तरेण न सिध्यतीति? एतच्चासम्यक्, असमासे यत्? पूर्वपदं तदपि तत्रापि गृह्रते। वक्ष्यति -असमासे [असमासेऽपि यत्पूर्वपदम् -काशिका। असमासे यत्? पूर्वपबदं तदपि तत्रापि गृह्रते -प्रांउंयासपाठः। ] यदपि पूर्वपदं तदपि [तदपीह -काशिका] गृह्रते` (काशिका।8.3.104) इति? अत आह -`पूर्वपदादित्येव` इत्यादि॥ Prakriyasarvasvam ----------------- पूर्वयोरर्थाच्छन्दोविषयत्वम्; इदानी कण्ठोक्तिः । सुष्टुत इन्द्र । यदि स्तुतस्यमरुतः । गोष्ठोमम् । गोस्तोमम् । पूर्वयोरर्थाच्छन्दोविषयत्वम्; इदानीं कण्ठोक्तिः । सुष्टुत इन्द्र । यदि स्तुतस्यमरुतः । गीष्ठोमम् । गोस्तोमम् । पूर्वयोरथर्च्छन्दोविषयत्वम्; इदानीं कण्ठोक्तिः । सुष्टुत इन्द्र । यदि स्तुतस्यमरुतः । गोष्ठोमम् । गोस्तोमम् ।