83104: यजुष्येकेषाम्

Padacheda: यजुषि | S | 7 | 1 |

एकेषाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

In the opinion of some, the above change takes place in the यजुर्वेद also.

Vasu English Translation

In the opinion of some, the above change takes place in the यजुर्वेद also. Thus अर्चिर्भिष्ट्वम् or अर्चिर्भिस्त्वम् । अग्निष्टेग्रम् or अग्निस्तेग्रम् । अग्निष्टत् or अग्निस्तत् । अर्चिर्भिष्टतक्षुः or अर्चिर्भिस्ततक्षुः ॥

Kashika

यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति। अ॒र्चिर्भि॒ष्ट्वम् (मा०सं० १२.३२), अर्चिर्भिस्त्वम्। अग्निष्टेऽग्रम्, अ॒ग्निस्तेऽग्॑रम् (तै०सं० ३.५.६.२)। अ॒ग्निष्टत् (तै०सं० १.१.१४.५), अ॒ग्निस्तत् (तै०सं० ३.२.५.४)। अर्चिर्भिष्टतक्षुः, अर्चिर्भिस्ततक्षुः॥

Siddhanta Kaumudi

युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ॥

Tattvabodhini

यजुष्येकेषाम् - निसस्तपता ।मूर्धन्य॑इत्यनुवर्तमाने फलितमाह — षः स्यादिति । आसेवने तु — निस्तपति । पुनः पुनस्तपतीत्यर्थः ।

Padamanjari

असमासेऽपीति । एतच्च सवनादिषु’सवनेसवने’ इत्यादीनां पाठादेवावसीयते ॥

Nyaas

यजुषि इति। यजुर्वेदे। अत्र पादा न सम्भवन्तीति पूर्वेम नाप्राप्ते षत्वमिदमारभ्यते। एकेषांग्रहणं विकल्पार्थम्॥

Prakriyasarvasvam

उक्तेषु परेषु ग्रन्थरूपे यजुषि षत्वं वा स्यात् । चक्षुस्त आप्यायताम् । उक्तेषु परेषु ग्रन्थरूपे यजुषि षत्वं वा स्यात् । चक्षुस्त आप्यायताम् ।