83104: यजुष्येकेषाम् ==================== **Padacheda:** यजुषि | S | 7 | 1 | एकेषाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- In the opinion of some, the above change takes place in the यजुर्वेद also. Vasu English Translation ------------------------ In the opinion of some, the above change takes place in the यजुर्वेद also. Thus अर्चिर्भिष्ट्वम् or अर्चिर्भिस्त्वम् । अग्निष्टेग्रम् or अग्निस्तेग्रम् । अग्निष्टत् or अग्निस्तत् । अर्चिर्भिष्टतक्षुः or अर्चिर्भिस्ततक्षुः ॥ Kashika ------- यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति। अ॒र्चिर्भि॒ष्ट्वम् (मा०सं० १२.३२), अर्चिर्भिस्त्वम्। अग्निष्टेऽग्रम्, अ॒ग्निस्तेऽग्॑रम् (तै०सं० ३.५.६.२)। अ॒ग्निष्टत् (तै०सं० १.१.१४.५), अ॒ग्निस्तत् (तै०सं० ३.२.५.४)। अर्चिर्भिष्टतक्षुः, अर्चिर्भिस्ततक्षुः॥ Siddhanta Kaumudi ----------------- युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ॥ Tattvabodhini ------------- **यजुष्येकेषाम्** - निसस्तपता ।मूर्धन्य॑इत्यनुवर्तमाने फलितमाह — षः स्यादिति । आसेवने तु — निस्तपति । पुनः पुनस्तपतीत्यर्थः । Padamanjari ----------- असमासेऽपीति । एतच्च सवनादिषु'सवनेसवने' इत्यादीनां पाठादेवावसीयते ॥ Nyaas ----- `यजुषि` इति। यजुर्वेदे। अत्र पादा न सम्भवन्तीति पूर्वेम नाप्राप्ते षत्वमिदमारभ्यते। एकेषांग्रहणं विकल्पार्थम्॥ Prakriyasarvasvam ----------------- उक्तेषु परेषु ग्रन्थरूपे यजुषि षत्वं वा स्यात् । चक्षुस्त आप्यायताम् । उक्तेषु परेषु ग्रन्थरूपे यजुषि षत्वं वा स्यात् । चक्षुस्त आप्यायताम् ।