83101: ह्रस्वात् तादौ तद्धिते

Padacheda: ह्रस्वात् | S | 5 | 1 |

तादौ | S | 7 | 1 |

तद्धिते | S | 7 | 1 |

Sutrartha


Vasu English Summary

ष् is substituted for the final स् preceded by a उ before a तद्धित affix beginning with त।

Vasu English Translation

ष् is substituted for the final स् preceded by a उ before a तद्धित affix beginning with त। The following are the affixes before which this change takes place, namely, तर, तम, तय, त्व, तल्, तस्, त्यप् ॥ As तर – सर्पिष्टरम् यजुष्टरम् । तम । तर्पिष्टमम् । यजुष्टमम् । तय । चतुष्टये ब्राह्मणानां निकेताः । त्व । सर्पिष्ट्वम् । यजुष्ट्वम् । तल् । सर्पिष्टा । यजुष्टा । तस् । सर्पिष्टो, यजुष्टः । त्यप् । आविष्ट्यो वर्द्धते । ह्रस्वादिति किम् । गीस्तरा । धूस्तरा । तादाविति किम् । सर्पिस्साद्भवति । प्रत्ययसकारस्य स्यात्पदाद्योरिति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात् । तद्धित इति किम् । सर्पिस्तरति ॥

Why do we say before affixes beginning with त ॥ Observe सर्पिस्साद्भवति ॥

Question:- But this स would never have been changed to ष because of the prohibition in (8.3.111), how can you then give this counter-example?

Answer:- Though the स of the affix सात् is prohibited by (8.3.111), yet the counter-example is valid, because the स् of the base सर्पिस् is also not changed. Why do we say ‘of a Taddhita’? Observe सर्पिस्तरति ॥

Vart:- Prohibition must be stated of finite verbs before Taddhita affixes. As भिन्द्युस्तराम् । छिन्द्युस्तराम् ॥ These are the Potential third person plural of भिन्द् and छिन्द् with the augment यासुट्; the Taddhita affix तरप् is added by (5.3.56), and आम् is added by (5.4.11).

Vart:- Prohibition must be stated with regard to पुंस् as पुंस्त्यम् पुंस्ता ॥

Bhashya

ह्रस्वात्तादौ तद्धिते ॥ ह्रस्वात्तादौ तिङ्प्रतिषेधः(3)॥ ह्रस्वात्तादौ तिङः(3) प्रतिषेधो वक्तव्यः। भिन्द्युस्तराम्। छिन्द्युस्तरामिति॥ (ह्रस्वात्तादौ तद्धिते)॥

Kashika

ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति तादौ तद्धिते परतः। तरप् तमप् तय त्व तल् तस् त्यप् एतानि प्रयोजयन्ति। तरप् — सर्पिष्टरम्। यजुष्टरम्। तमप् — सर्पिष्टमम्। यजुष्टमम्। तय — चतुष्टये ब्राह्मणानां निकेताः। त्व — सर्पिष्ट्वम्। यजुष्ट्वम्। तल् — सर्पिष्टा। यजुष्टा। तस् — सर्पिष्टः। यजुष्टः। त्यप् — आ॒विष्ट्यो॑ वर्धते॒ (ऋ० १.९५.५)। ह्रस्वादिति किम्? गीस्तरा। धूस्तरा। तादाविति किम्? सर्पिस्साद् भवति। प्रत्ययसकारस्य सात्पदाद्योः (८.३.१०९) इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात्। तद्धित इति किम्? सर्पिस्तरति॥ तिङन्तस्य प्रतिषेधो वक्तव्यः॥ भिन्द्युस्तराम्। छिन्द्युस्तराम्॥

Siddhanta Kaumudi

ह्रस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः ।<!अरण्याण्णः !> (वार्तिकम्) ॥ आरण्याः सुमनसः ।<!दूरादेत्यः !> (वार्तिकम्) ॥ दूरेत्यः । उत्तरादाहञ् ॥ औत्तराहः ॥

Balamanorama

ह्रस्वात् तादौ तद्धिते - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।

Tattvabodhini

ह्रस्वात् तादौ तद्धिते - एति संज्ञायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् ।

Padamanjari

ततक्षुः ष्विति सकारान्तानुकरणात्परस्य सुष्सकारस्य’नुम्विसर्जनीयशर्व्यवाये’ पिऽ इति षत्वम् । तकारादिष्विति । एतद्यौष्मद एव विशेषणम्; इतरयोरव्यभिचारात् । त्वं त्वा इत्यादि । एतेषामेव सम्भव इत्यर्थः । अग्निस्तत्पुनराहेति । अग्निरित्ययं पूर्वस्य पादस्यान्तः - यन्म आत्मनो मिन्दाभूदग्निरिति; तेनायं पादान्ते सकारः, न पादमध्ये ॥

Nyaas

अपदान्तस्य (8.3.55) इत्यधिकारारात्? पदान्तेऽप्राप्ते मूर्धन्ये सतीदमारभ्यते। येषु तकारादिषु तद्धितेषु मूर्धन्येन भवितव्यम्, तान्? दर्शयितुमाह -तरप्तमपौ इति। सर्पिष्टरम् इति। द्विवचनविभज्योपपदे (5.3.57) इत्यादिना तरप्। प्रकृतिसकारस्य रुत्वम्, विसर्जनीयः, तस्यापि विसर्जनीयस्य सः (8.3.34) इति सकारः, तस्यानेन षत्वम्, ष्टुत्वम्। सर्पिष्टमम् इति। अतिशायने (5.3.55) इत्यादिना तमप्। चतुष्टये इति। संख्याया अवयवे तयप् (5.2.42) , तदन्ताज्जम्, सप्तम्येकवचनं वा। यदा जस्? तदा जशः सी (7.1.17) इति शीभावः। क्वचित्? चतुष्ठयी इति पाठः। तत्र हि टिड्ढाणञ् (4.1.15) इति ङीप्। सर्पिष्ट्षम्, सर्पिष्टा इति। तस्य भावस्त्वतलौ (5.1.119) । र्पिष्टः इति प्रयोगे पञ्चम्यास्तसिल् (5.3.7) इत्यनुवर्तमाने अपादाने चाहीयरुहोः (5.4.45) इति तसिप्रत्ययः। आविष्ट इति। आधिः शब्दाद्भवादावर्थे अव्ययात्त्यप् (4.2.104) । ननु च अमेहक्वतसित्रेभ्यस्त्यद्विधियोऽव्ययात्? स्मृतः [अमेहत्वतसित्रेभ्यस्त्यब्विधिरव्ययात् -प्रांउ।पाठः, अमेहक्वतसित्रेभ्यस्त्यब्विधिरव्ययात्? स्मृतः -कांउ।पाठः] (कारिका।4.2.115) इति तत्र परिगणयति, तत्कथमादिःशब्दात्? त्यप्? नैष दोषः; अल्पाच्तरत्वात्? कुशब्दस्य त्रशब्दस्य वा पूर्वनिपाते कर्तव्ये तदकरणाल्लक्षणव्यभिचारं दर्शयता सूचितं व्यभिचार्येव तत्परिगणनम्, तेनाविःशब्दादपि भवति। सर्पिस्मात् इति। विभाषा साति कार्त्स्न्ये (5.4.52) इति सातिः। ननु च सात्पदाद्योः (8.3.111) इति वक्ष्यमाणात्? प्रतिषेधादेव मूर्धन्यो न भविष्यति; तत्क तन्निवृच्यर्थेन तादौ इत्यनेन? इत्यत आह -प्रत्ययषकारस्य इत्यादि। सादित्यनेन हि सात्प्रत्ययस्य यः सकारः, यश्च पदादिलक्षणस्तयोः षतवं प्रतिषिध्यते, न तु सात्प्रत्ययात्? पूर्वस्य प्रकृतिसकारस्य। ततो यदि तादौ इति नोच्येत, तदा प्रत्ययसकारस्याषत्वे प्रकृतिसकारस्य स्यादेव। तस्मश्च सति ष्टुत्वं प्रत्ययसकारस्यापि स्यात्। वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रैदं व्याख्यानम् -इहादिग्रहणं न कर्तव्यम्, यस्मिन्विधिस्तदादावल्ग्रहणे (वा।14) इत्येवं हि तादौ भविष्यति, तत्? क्रियते -ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीति तिङन्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्। अप या न रपर (7.3.110) इत्यादौ इति योगविभागः करिष्यते, तेन तिङन्तस्य न भवतीति। अस्मिस्तु व्याख्याने आदिग्रहणं विस्पष्टार्थम्। भन्द्युस्तराम्, छिन्द्युस्तराम् इति। भिदिच्छिदिभ्यां लिङ्, यासुट्, झर्जुस् (3.4.108) , लिङः सलोपः (7.2.79) त्यादिना सलोपः। उस्यपदान्तात् (6.1.96) इति पररूपत्वम्। श्नसोरल्लोपः (6.4.111) इत्यकारलोपः, तिङश्च (5.3.56) इति तरप्, किमेत्तिडव्यय श् (5.4.11) इत्यादिनाऽऽमुप्रत्ययः॥

Prakriyasarvasvam

तकारादौ तद्धिते परे ह्रस्वादिणः परस्य सस्य षः स्यात् । स्यप्त्वतल्तय- तरतमत्स्विष्यते । निष्ठचो वर्णाश्रमेभ्यो निर्गतश्चण्डालादिः । ‘आविषश्छन्दसि’ (वा० ४-२-१०४) इत्येतल्लोकेऽप्याह भोजः । प्राग्वत् षः । आविष्ट्यः प्रकाशे भवः । ‘अरण्याण्णो वाच्यः’ तेन ङीब् न । आरण्या लताः । ‘दूरादेत्यः’ । दूरेत्यः पथिकः । ‘उत्तरादाहञ्’ । औत्तराहः ॥

Sutra Prayogas

  • ज्योतिष्टमां (भट्टिकाव्यम्): ह्रस्वात्तादौ तद्धिते इति पत्वम् ।