83101: ह्रस्वात् तादौ तद्धिते ============================= **Padacheda:** ह्रस्वात् | S | 5 | 1 | तादौ | S | 7 | 1 | तद्धिते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the final स् preceded by a उ before a तद्धित affix beginning with त। Vasu English Translation ------------------------ ष् is substituted for the final स् preceded by a उ before a तद्धित affix beginning with त। The following are the affixes before which this change takes place, namely, तर, तम, तय, त्व, तल्, तस्, त्यप् ॥ As तर -- सर्पिष्टरम् यजुष्टरम् । तम । तर्पिष्टमम् । यजुष्टमम् । तय । चतुष्टये ब्राह्मणानां निकेताः । त्व । सर्पिष्ट्वम् । यजुष्ट्वम् । तल् । सर्पिष्टा । यजुष्टा । तस् । सर्पिष्टो, यजुष्टः । त्यप् । आविष्ट्यो वर्द्धते । ह्रस्वादिति किम् । गीस्तरा । धूस्तरा । तादाविति किम् । सर्पिस्साद्भवति । प्रत्ययसकारस्य स्यात्पदाद्योरिति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात् । तद्धित इति किम् । सर्पिस्तरति ॥ Why do we say before affixes beginning with त ॥ Observe सर्पिस्साद्भवति ॥ Question:- But this स would never have been changed to ष because of the prohibition in (8.3.111), how can you then give this counter-example? Answer:- Though the स of the affix सात् is prohibited by (8.3.111), yet the counter-example is valid, because the स् of the base सर्पिस् is also not changed. Why do we say 'of a *Taddhita*'? Observe सर्पिस्तरति ॥ Vart:- Prohibition must be stated of finite verbs before *Taddhita* affixes. As भिन्द्युस्तराम् । छिन्द्युस्तराम् ॥ These are the Potential third person plural of भिन्द् and छिन्द् with the augment यासुट्; the *Taddhita* affix तरप् is added by (5.3.56), and आम् is added by (5.4.11). Vart:- Prohibition must be stated with regard to पुंस् as पुंस्त्यम् पुंस्ता ॥ Bhashya ------- ह्रस्वात्तादौ तद्धिते ॥ ह्रस्वात्तादौ तिङ्प्रतिषेधः(3)॥ ह्रस्वात्तादौ तिङः(3) प्रतिषेधो वक्तव्यः। भिन्द्युस्तराम्। छिन्द्युस्तरामिति॥ (ह्रस्वात्तादौ तद्धिते)॥ Kashika ------- ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति तादौ तद्धिते परतः। तरप् तमप् तय त्व तल् तस् त्यप् एतानि प्रयोजयन्ति। तरप् — सर्पिष्टरम्। यजुष्टरम्। तमप् — सर्पिष्टमम्। यजुष्टमम्। तय — चतुष्टये ब्राह्मणानां निकेताः। त्व — सर्पिष्ट्वम्। यजुष्ट्वम्। तल् — सर्पिष्टा। यजुष्टा। तस् — सर्पिष्टः। यजुष्टः। त्यप् — आ॒विष्ट्यो॑ वर्धते॒ (ऋ० १.९५.५)। ह्रस्वादिति किम्? गीस्तरा। धूस्तरा। तादाविति किम्? सर्पिस्साद् भवति। प्रत्ययसकारस्य **सात्पदाद्योः** (८.३.१०९) इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात्। तद्धित इति किम्? सर्पिस्तरति॥ तिङन्तस्य प्रतिषेधो वक्तव्यः॥ भिन्द्युस्तराम्। छिन्द्युस्तराम्॥ Siddhanta Kaumudi ----------------- ह्रस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः । (वार्तिकम्) ॥ आरण्याः सुमनसः । (वार्तिकम्) ॥ दूरेत्यः । उत्तरादाहञ् ॥ औत्तराहः ॥ Balamanorama ------------ **ह्रस्वात् तादौ तद्धिते** - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः । Tattvabodhini ------------- **ह्रस्वात् तादौ तद्धिते** - एति संज्ञायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् । Padamanjari ----------- ततक्षुः ष्विति सकारान्तानुकरणात्परस्य सुष्सकारस्य'नुम्विसर्जनीयशर्व्यवाये' पिऽ इति षत्वम् । तकारादिष्विति । एतद्यौष्मद एव विशेषणम्; इतरयोरव्यभिचारात् । त्वं त्वा इत्यादि । एतेषामेव सम्भव इत्यर्थः । अग्निस्तत्पुनराहेति । अग्निरित्ययं पूर्वस्य पादस्यान्तः - यन्म आत्मनो मिन्दाभूदग्निरिति; तेनायं पादान्ते सकारः, न पादमध्ये ॥ Nyaas ----- `अपदान्तस्य` (8.3.55) इत्यधिकारारात्? पदान्तेऽप्राप्ते मूर्धन्ये सतीदमारभ्यते। येषु तकारादिषु तद्धितेषु मूर्धन्येन भवितव्यम्, तान्? दर्शयितुमाह -`तरप्तमपौ` इति। `सर्पिष्टरम्` इति। `द्विवचनविभज्योपपदे` (5.3.57) इत्यादिना तरप्। प्रकृतिसकारस्य रुत्वम्, विसर्जनीयः, तस्यापि **विसर्जनीयस्य सः** (8.3.34) इति सकारः, तस्यानेन षत्वम्, ष्टुत्वम्। `सर्पिष्टमम्` इति। `अतिशायने` (5.3.55) इत्यादिना तमप्। `चतुष्टये` इति। `संख्याया अवयवे तयप्` (5.2.42) , तदन्ताज्जम्, सप्तम्येकवचनं वा। यदा जस्? तदा `जशः सी` (7.1.17) इति शीभावः। क्वचित्? `चतुष्ठयी` इति पाठः। तत्र हि `टिड्ढाणञ्` (4.1.15) इति ङीप्। `सर्पिष्ट्षम्, सर्पिष्टा` इति। **तस्य भावस्त्वतलौ** (5.1.119) । `र्पिष्टः` इति प्रयोगे **पञ्चम्यास्तसिल्** (5.3.7) इत्यनुवर्तमाने **अपादाने चाहीयरुहोः** (5.4.45) इति तसिप्रत्ययः। `आविष्ट` इति। आधिः शब्दाद्भवादावर्थे **अव्ययात्त्यप्** (4.2.104) । ननु च `अमेहक्वतसित्रेभ्यस्त्यद्विधियोऽव्ययात्? स्मृतः` [`अमेहत्वतसित्रेभ्यस्त्यब्विधिरव्ययात्` -प्रांउ।पाठः, अमेहक्वतसित्रेभ्यस्त्यब्विधिरव्ययात्? स्मृतः -कांउ।पाठः] (कारिका।4.2.115) इति तत्र परिगणयति, तत्कथमादिःशब्दात्? त्यप्? नैष दोषः; अल्पाच्तरत्वात्? कुशब्दस्य त्रशब्दस्य वा पूर्वनिपाते कर्तव्ये तदकरणाल्लक्षणव्यभिचारं दर्शयता सूचितं व्यभिचार्येव तत्परिगणनम्, तेनाविःशब्दादपि भवति। `सर्पिस्मात्` इति। **विभाषा साति कार्त्स्न्ये** (5.4.52) इति सातिः। ननु च **सात्पदाद्योः** (8.3.111) इति वक्ष्यमाणात्? प्रतिषेधादेव मूर्धन्यो न भविष्यति; तत्क तन्निवृच्यर्थेन `तादौ` इत्यनेन? इत्यत आह -`प्रत्ययषकारस्य` इत्यादि। सादित्यनेन हि सात्प्रत्ययस्य यः सकारः, यश्च पदादिलक्षणस्तयोः षतवं प्रतिषिध्यते, न तु सात्प्रत्ययात्? पूर्वस्य प्रकृतिसकारस्य। ततो यदि `तादौ` इति नोच्येत, तदा प्रत्ययसकारस्याषत्वे प्रकृतिसकारस्य स्यादेव। तस्मश्च सति ष्टुत्वं प्रत्ययसकारस्यापि स्यात्। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रैदं व्याख्यानम् -इहादिग्रहणं न कर्तव्यम्, `यस्मिन्विधिस्तदादावल्ग्रहणे` (वा।14) इत्येवं हि तादौ भविष्यति, तत्? क्रियते -ग्रन्थाधिक्यादर्थाधिक्यं सूचयतीति तिङन्तस्य प्रतिषेधो यथा स्यादित्येवमर्थम्। अप या `न रपर` (7.3.110) इत्यादौ `न` इति योगविभागः करिष्यते, तेन तिङन्तस्य न भवतीति। अस्मिस्तु व्याख्याने आदिग्रहणं विस्पष्टार्थम्। `भन्द्युस्तराम्, छिन्द्युस्तराम्` इति। भिदिच्छिदिभ्यां लिङ्, यासुट्, `झर्जुस्` (3.4.108) , `लिङः सलोपः` (7.2.79) त्यादिना सलोपः। **उस्यपदान्तात्** (6.1.96) इति पररूपत्वम्। **श्नसोरल्लोपः** (6.4.111) इत्यकारलोपः, `तिङश्च` (5.3.56) इति तरप्, `किमेत्तिडव्यय` श् (5.4.11) इत्यादिनाऽऽमुप्रत्ययः॥ Prakriyasarvasvam ----------------- तकारादौ तद्धिते परे ह्रस्वादिणः परस्य सस्य षः स्यात् । स्यप्त्वतल्तय- तरतमत्स्विष्यते । निष्ठचो वर्णाश्रमेभ्यो निर्गतश्चण्डालादिः । ‘आविषश्छन्दसि’ (वा० ४-२-१०४) इत्येतल्लोकेऽप्याह भोजः । प्राग्वत् षः । आविष्ट्यः प्रकाशे भवः । ‘अरण्याण्णो वाच्यः’ तेन ङीब् न । आरण्या लताः । ‘दूरादेत्यः’ । दूरेत्यः पथिकः । ‘उत्तरादाहञ्’ । औत्तराहः ॥ Sutra Prayogas -------------- * **ज्योतिष्टमां** (भट्टिकाव्यम्): `ह्रस्वात्तादौ तद्धिते` इति पत्वम् ।