83102: निसस्तपतावनासेवने¶
Padacheda: निसः | S | 6 | 1 |
तपतौ | S | 7 | 1 |
अनासेवने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is substituted for the स् of निस् before the verb तप् when meaning is not that of ‘repeatedly making red hot’.
Vasu English Translation¶
ष् is substituted for the स् of निस् before the verb तप् when meaning is not that of ‘repeatedly making red hot’. The word आसेवन means doing a thing repeatedly and here it means making it red-hot repeatedly. Thus निष्टपतिः सुवर्णम् = सकृत् अग्निम् स्पर्शयति i.e. he puts the gold into fire only once.
Why do we say when not meaning repeatedly. Observe निस्तपति र्सुवर्ण सुवर्णकारः = पुनः पुनरग्निं स्पर्शयति ॥
In the sentences निष्टप्तं रक्षः, निष्टप्ता अरातयः the change has taken place either as a Vedic irregularity or because the sense of repeatedness is not implied here.
Kashika¶
निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे। आसेवनं पुनःपुनः करणम्। निष्टपति सुवर्णम्। सकृदग्निं स्पर्शयतीत्यर्थः। अनासेवन इति किम्? निस्तपति सुवर्णं सुवर्णकारः। पुनःपुनरग्निं स्पर्शयतीत्यर्थः। निष्॑टप्तं॒ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः (मा०सं० १.७) इत्यत्र सदप्यासेवनं न विवक्ष्यते, छान्दसो वा वर्णविकारः॥
Siddhanta Kaumudi¶
षः स्यात् । आसेवनं पौनः पुन्यं ततोऽस्यस्मिन्विषये । निष्टपति ।{$ {!986 त्यज!} हानौ$} । तत्यजिथ । तस्यक्थ । त्यक्ता । अत्याक्षीत् ।{$ {!987 षञ्ज!} सङ्गे$} । दंशसञ्जस्वञ्जां शपि (SK2396) इति नलोपः । सजति । सङ्क्ता ।{$ {!988 दृशिर्!} प्रेक्षणे$} । पश्यति ॥
Balamanorama¶
निसस्तपतावनासेवने - नक्षत्राद्वा । स्पष्टम् ।
Tattvabodhini¶
निसस्तपतावनासेवने - एवंनक्षत्राद्वा॑इत्यपि । विष्वक्सेन इति । चत्त्र्वस्याऽसिद्धत्वाद्गकारेण व्यवधानमस्तीति भावः ।
Nyaas¶
अयमपि पदान्तार्थ आरम्भः। निष्डपति इति। तप धूप सन्तापे (धातुपाठः-985,396)। रुत्वे विसर्जनीयः, विसर्जनीयस्य सः (8.3.34) , सस्य भूर्धन्यः, ष्टुत्वम्। अथेह निष्टप्तं रक्षः, निष्टप्ता अरातयः इति निष्ठान्ते तपतौ कस्यान्न भवति, अस्ति ह्यत्रासेवनमिति? अत आह -निष्टप्तम्` इत्यादि। न हीह वस्तुनः सत्तैव शब्दव्युत्पत्तेः प्रधानं कारणम्, अपि तु तद्विवक्षा। न चेहासेवनविवक्षास्तीति भवति मूर्धन्यः। यदि तह्र्रासेवनं विवक्ष्यते तदा न भवितव्यं मूर्धन्येनेनत्यत आह -च्छान्दसो वा इत्यादि। समावे कृते व्यत्ययो बहुलम् (3.1.85) इति पुनः षकारः॥
Prakriyasarvasvam¶
निसस्तपतौ परे पौनःपुन्याभावे षः स्यात् । सकृत् तापे निष्टपति । पुनःपुनश्चेन्निस्तपति । णिदि कुत्सायाम् । इदित्त्वान्नुम् । निन्दतीत्यादि । कर्मणि निन्द्यते । लुङि सेट्त्वात् सिच इट् । निन्द् इस् त् । ईट् । निन्द् इस् ईत् । हलन्तत्वाद् ‘वदव्रज—’ इति वृद्धिप्राप्तौ ।
Sutra Prayogas¶
निष्टपन्तीमिवाऽऽत्मानं (भट्टिकाव्यम्): निसस्तपतावनासेवने इति पत्वम् ।