83096: विकुशमिपरिभ्यः स्थलम्

Padacheda: वि-कु-शमि-परिभ्यः | S | 5 | 3 |

स्थलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

ष् is substituted for the स् of स्थल after वि , कु , शमि and परि।

Vasu English Translation

ष् is substituted for the स् of स्थल after वि , कु , शमि and परि। Thus विष्ठलम्, कुष्ठलम्, शमिष्ठलम् and परिष्टलम् ॥ The word वि, कु and परि are compounded under (2.2.18); the word शमी forms a genitive by (6.3.63). In the aphorism the word शमि is shown with a short इ, indicating thereby that when the इ is not shortened, the cerebral change does not take place; as शमीस्थलम्

Kashika

वि कु शमि परि इत्येतेभ्य उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति। विष्ठलम्। कुष्ठलम्। शमिष्ठलम्। परिष्ठलम्॥

Siddhanta Kaumudi

एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥

Padamanjari

वि, कु, परि - इत्येतेषाम्’कुगतिप्रादयः’ इति समासः, शमीशशब्दस्य तु षष्ठीसमासः,’ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ इति ह्रस्वत्वम् । सूत्रे ह्रस्वोच्चारणे ह्रस्वपक्ष एव षत्वं यथा स्यात् । तेन प्रयोगे बहुलवचनाद्यदा ह्रस्वत्वं न भवति, तदा षत्वमपि न भवति ॥

Nyaas

सात्पदाद्योः (8.3.111) इति प्रतिषेधे प्राप्ते वचनम्। यथा चैवं तथा कपिष्ठलो गोत्रे (8.3.91) इत्यत्र प्रतिपादितम्। विष्ठलम्, कुष्ठलम् इति। स्थलशब्दः पचाद्यजन्तः, तेन यदा विकुशब्दौ निपातौ समत्येते तदा कुयतिप्रादयः (2.2.18) इति समासः। अथानिपातौ पक्षिपृथिवीवचणौ, तदा षष्ठीसमासः। शमिष्ठलम् इति। शमीनां स्थलमिति समासः। ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इति ह्रस्वः। ह्रस्वोच्चारणं दोर्धपक्षे मा भूदित्येवमर्थम्, अन्यथा हि बहुलवचनात्? दीर्घोऽपि पक्षे विज्ञायेत। परिष्ठलम् इति। प्रादिसमासः॥ येषामत्रोपपदसमासे कृते स्थलशब्द उत्तरपदे सप्तम्या अलुग्भवति, ये चेणन्ताः, तेब्यः इष्कोः (8.3.57) इत्यनेन प्राप्तस्य वत्वस्य पदादिलक्षणप्रतिषेधे प्राप्ते वचनम्। बर्हिःशब्दादपि नुज्विसर्जनीयशष्र्यवायेऽपि (8.3.58) इति पदादिलक्षण एव प्रतिषेधे प्राप्ते वचनम्। शेवेभ्यस्त्वप्राप्त एव। स्थ इति धातुग्रहणं स्यात्? स्वरूपग्रहणं वा? यदि आतो धातोः (6.4.140) इत्याकारलोपं कृत्वा तिष्ठतेः षष्ठआं धिर्देशस्ततो धातुग्रहणम्। अथ सुब्ब्यत्ययेन षष्ठ्याः स्णले प्रथमां कृत्वा स्थशब्दस्य कप्रत्ययान्तस्य निर्देशस्तदा स्वरूपग्रहणम्। यदात्र यदि धातोरिह ग्रहणं स्यात्? तदा गोस्थानमित्यादावपि प्रसज्येतेत्यालोच्य स्वरूपग्रहणं दर्शयन्नाह इत्येतेभ्यः इत्यादि। उदाहरणेषु गोष्ठ इत्यत्र गोशब्दे प्रथमान्त उपपदे घञर्थे कविधानम्। स्वास्नापाव्यथिहविवुज्यर्थं धञर्थे कविधानाम् (वा।306) इति गावस्तिष्ठन्त्यस्मिन्नित्यधिकरणे कप्रत्ययः। अपतिष्ठतीत्यर्थेऽपष्ठ इत्यत्र सुर्पि स्वा (3.2.4) इति कप्रत्वदः। आपष्ठः इति क्वचित्पाठः। अन्येषामपि दृश्यते (6.3.137) इति दीर्घः। अन्यत्रापि सर्वत्र सुपि स्थः (3.2.4) इत#इ कप्रत्ययः। यदि कुशब्दो निपातस्तदा प्रणमान्त एतस्मिन्नुपपदे कणिधिः, अथानिपातस्तदा सप्तम्यन्ते। अम्बादिषु सप्तम्यन्तेष्वेव। जम्बष्ठः इति। ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इति ह्रस्वः। स्थ इति। स्वरूपग्रहणादन्येवां न प्राप्नोतीतीदमाह -स्थास्थिन्स्थृणाम् इत्यादि। एषामपि षत्वं वक्तव्यम्, व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् -सुषामादेराकृ-तिगणत्वादेषां षत्वं भविष्यतीति। सव्र्येष्ठा [सव्येष्ठाः - काशिका] इति। सव्ये तिष्ठतीति दिवेॠ। (द।उ।2।7) इत्यनुवर्तमाने नयतेर्डिच्च (द।उ।2।8) इति डिति च सव्ये स्थश्छब्दसि (द।उ।2।9) इति सव्यशब्द उपपदे तिष्ठतेॠप्रत्ययः, डित्वाट्टिलोपः, तत्पुरुषे (6.3.13) इत्यादिना सम्पम्या अलुक्, सव्येष्ठृ इति स्थिते ऋदुशनस्पुदोदंशोऽनेहसाम् (7.1.94) इत्यादिमाब्नङ्, सर्वनामस्णाने चासम्बुद्धौ (6.4.8) इति दीर्घः। परमेष्ठी [परमेष्ठीः -काशिका] इति। गमेरिधिः (द।उ।6।57) इत्यनुवर्तमाने परमे स्थः किच्च [कित् इत्येव -द।उ।] (द।उ।6।61) इतीनिप्रत्ययः, कित्त्वादालोपः। परमेष्ठिन्निति स्थिते सौ च (6.4.13) इति दीर्घः। सव्येष्ठृसारधिः इति। पूर्ववत्? सव्येष्ठृशब्दं साधयित्वा सारधिशब्देन कर्मधारयः॥

Prakriyasarvasvam

विष्ठलम् । कुष्ठलम् । शामिष्ठलं तदधःस्थलम् । परिष्ठलम् । ‘ङ्यापोः’ (६-३-६३) इति शम्या ह्रस्वः ।।

Sutra Prayogas

  • कु-ष्ठले (भट्टिकाव्यम्): मि- कु.शमि इत्यादिना पत्वम् ।