83095: गवियुधिभ्यां स्थिरः¶
Padacheda: गवि-युधिभ्याम् | S | 5 | 2 |
स्थिरः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
ष् is substituted for the स् of स्थिरः after the words गवि and युधि।
Vasu English Translation¶
ष् is substituted for the स् of स्थिरः after the words गवि and युधि। Thus गविष्ठिर, युधिष्ठिर ॥ The compounding takes place by (2.1.44). and the 7th case affix is not elided by (6.3.9). though the word गो does not end in a consonant, yet it retains its Locative ending by virtue of this sutra.
Kashika¶
गवियुधिभ्यामुत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो भवति। गविष्ठिरः। युधिष्ठिरः। गोशब्दादहलन्तादपि एतस्मादेव निपातनात् सप्तम्या अलुग् भवति॥
Siddhanta Kaumudi¶
आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायाम् (SK721)इति सप्तमीसमासः ।<!हृद्द्युभ्यां च !> (वार्तिकम्) ॥ हृदिस्पृक् । दिविस्पृक् ॥
Balamanorama¶
गवियुधिभ्यां स्थिरः - तत्रआदोशप्रत्यययो॑रिति षत्वस्यसात्पदाद्यो॑रिति निषेधे प्राप्ते इदमारभ्यते — गवियुधिभ्यां स्थिरः । गवीसि युधीति च सप्तम्या अनुकरणम् । ‘स्थिर’ इति प्रथमा षष्ठर्थे । ‘सहेः साडः सः’ इत्यस्मात्स इति षष्ठन्तमनुवर्तते ।अपदान्तस्य मूर्धन्यः॑ इत्यधिकृतम् । तदाह — आभ्यामिति । ननुअन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते॑ इति परिभाषयाऽवादेशात्पूर्वमेव ङेर्लुकि प्रवृत्ते हलन्तत्वाऽभावात्कथमिहाऽलुगित्यत आह — अत्र गवीति । युधिष्ठिर इति । युध्धातोर्भावे क्विपि युध्शब्दात्सप्तम्येकवचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रापञ्च्य अदन्तादलुकमुदाहरति — अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात्कथं तेन सप्तमीसमास इत्यत आह — अत्र संज्ञायामिति । ह्मद्युभ्यां चेति । ह्मच्छब्दाद्दिव्शब्दाच्च सप्तम्या अलुग्वक्तव्य इत्यर्थः । असंज्ञार्थमिदम् । ह्मदिस्पृगिति ।पद्द॑न्निति ङौ ह्मदयस्य ह्मदादेशः । ह्मदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुग्विधानबलादेव कर्माणि सप्तमीति भाष्यम् ।अमूर्धमस्तका॑दित्यनेन त्वलुङ्न सिध्यति, तत्र संज्ञायामित्यनुवृत्तेः ।
Tattvabodhini¶
गवियुधिभ्यां स्थिरः - गवियुधि । स्थिरशब्दोऽयमजिरशिशिरेत्यौणादिकः किरच्प्रत्ययान्तस्तिष्ठतेर्निष्पन्नः । सात्पदाद्योरिति निषेधे प्राप्ते वचनारम्भः । गवीति वचनादेवेति । न च लुकं बाधित्वापरत्वादन्तरङ्गत्वाच्चाऽवादेशे हलदन्तात्सप्तम्याः इत्येवाऽलुक् सिध्यीति वाच्यम्, अन्तरह्गानपि विधीन् बहिरङ्गो लुग् बाधते इति लुको बलीयस्त्वादिति भावः । ह्मद्द्युभ्यां च । ह्मदिस्पृक् दिविस्पृगिति । ह्मदयं दिवं च स्पृशतीति विग्रहः । अलुग्विधिसामत्र्यात्कर्मणि सप्तमी, कर्मणोऽधिकरणत्वविवक्षया वा ।
Padamanjari¶
गविष्ठिरः, युधिष्ठिर इति ।’संज्ञायाम्’ इति सप्तमीसमासः । गोशब्दादहलन्तादपीति । यद्यप्यवादेशे कृते सम्प्रति हलन्तो भवति, तथापि उत्पत्तिवेलायामहलन्तत्वान्निपातनमाश्रितम् ॥
Nyaas¶
स्थिरशब्दोऽयम्? अजिरशिशिर (द।उ।8।27) इत्यादिसूत्रेण यदि तिष्ठतेः किरच्प्रत्ययान्तो निपात्यते तदा सात्पवाद्योः (8.3.113) इति प्रतिषेधे प्राप्ते वचनम्। अथाव्युत्पन्नमेव प्रातिपदिकं तदादित एवाप्राप्ते वचनम्। गविष्ठिरः, गुधिष्ठिरः इति। संज्ञायां समासः। अथ कथं गविष्ठिर इत्यत्र सञ्चम्या अलुक्, हलदन्तात्? सप्तम्याः संज्ञायाम् (6.3.9) इति चेत्? न; गोशब्दस्याहलन्तत्वादित्यत आह -गोशब्दात् इत्यादि॥
Prakriyasarvasvam¶
निपातनादलुक् । वाचि स्थिरो गविष्ठिरः । युधिष्ठिरः ।।
Sutra Prayogas¶
युधिष्ठिरम् (किरातार्जुनीयम्): गवियुधिभ्यां स्थिरः इति षत्वम्।