83096: विकुशमिपरिभ्यः स्थलम् ============================ **Padacheda:** वि-कु-शमि-परिभ्यः | S | 5 | 3 | स्थलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ष् is substituted for the स् of स्थल after वि , कु , शमि and परि। Vasu English Translation ------------------------ ष् is substituted for the स् of स्थल after वि , कु , शमि and परि। Thus विष्ठलम्, कुष्ठलम्, शमिष्ठलम् and परिष्टलम् ॥ The word वि, कु and परि are compounded under (2.2.18); the word शमी forms a genitive by (6.3.63). In the aphorism the word शमि is shown with a short इ, indicating thereby that when the इ is not shortened, the cerebral change does not take place; as शमीस्थलम् Kashika ------- वि कु शमि परि इत्येतेभ्य उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति। विष्ठलम्। कुष्ठलम्। शमिष्ठलम्। परिष्ठलम्॥ Siddhanta Kaumudi ----------------- एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥ Padamanjari ----------- वि, कु, परि - इत्येतेषाम्'कुगतिप्रादयः' इति समासः, शमीशशब्दस्य तु षष्ठीसमासः,'ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्' इति ह्रस्वत्वम् । सूत्रे ह्रस्वोच्चारणे ह्रस्वपक्ष एव षत्वं यथा स्यात् । तेन प्रयोगे बहुलवचनाद्यदा ह्रस्वत्वं न भवति, तदा षत्वमपि न भवति ॥ Nyaas ----- **सात्पदाद्योः** (8.3.111) इति प्रतिषेधे प्राप्ते वचनम्। यथा चैवं तथा **कपिष्ठलो गोत्रे** (8.3.91) इत्यत्र प्रतिपादितम्। `विष्ठलम्, कुष्ठलम्` इति। स्थलशब्दः पचाद्यजन्तः, तेन यदा विकुशब्दौ निपातौ समत्येते तदा `कुयतिप्रादयः` (2.2.18) इति समासः। अथानिपातौ पक्षिपृथिवीवचणौ, तदा षष्ठीसमासः। `शमिष्ठलम्` इति। शमीनां स्थलमिति समासः। **ङ्यापोः संज्ञाछन्दसोर्बहुलम्** (6.3.63) इति ह्रस्वः। ह्रस्वोच्चारणं दोर्धपक्षे मा भूदित्येवमर्थम्, अन्यथा हि बहुलवचनात्? दीर्घोऽपि पक्षे विज्ञायेत। `परिष्ठलम्` इति। प्रादिसमासः॥ येषामत्रोपपदसमासे कृते स्थलशब्द उत्तरपदे सप्तम्या अलुग्भवति, ये चेणन्ताः, तेब्यः `इष्कोः` (8.3.57) इत्यनेन प्राप्तस्य वत्वस्य पदादिलक्षणप्रतिषेधे प्राप्ते वचनम्। बर्हिःशब्दादपि `नुज्विसर्जनीयशष्र्यवायेऽपि` (8.3.58) इति पदादिलक्षण एव प्रतिषेधे प्राप्ते वचनम्। शेवेभ्यस्त्वप्राप्त एव। स्थ इति धातुग्रहणं स्यात्? स्वरूपग्रहणं वा? यदि **आतो धातोः** (6.4.140) इत्याकारलोपं कृत्वा तिष्ठतेः षष्ठआं धिर्देशस्ततो धातुग्रहणम्। अथ सुब्ब्यत्ययेन षष्ठ्याः स्णले प्रथमां कृत्वा स्थशब्दस्य कप्रत्ययान्तस्य निर्देशस्तदा स्वरूपग्रहणम्। यदात्र यदि धातोरिह ग्रहणं स्यात्? तदा गोस्थानमित्यादावपि प्रसज्येतेत्यालोच्य स्वरूपग्रहणं दर्शयन्नाह `इत्येतेभ्यः` इत्यादि। उदाहरणेषु गोष्ठ इत्यत्र गोशब्दे प्रथमान्त उपपदे घञर्थे कविधानम्। `स्वास्नापाव्यथिहविवुज्यर्थं धञर्थे कविधानाम्` (वा।306) इति गावस्तिष्ठन्त्यस्मिन्नित्यधिकरणे कप्रत्ययः। अपतिष्ठतीत्यर्थेऽपष्ठ इत्यत्र `सुर्पि स्वा` (3.2.4) इति कप्रत्वदः। `आपष्ठः` इति क्वचित्पाठः। **अन्येषामपि दृश्यते** (6.3.137) इति दीर्घः। अन्यत्रापि सर्वत्र **सुपि स्थः** (3.2.4) इत#इ कप्रत्ययः। यदि कुशब्दो निपातस्तदा प्रणमान्त एतस्मिन्नुपपदे कणिधिः, अथानिपातस्तदा सप्तम्यन्ते। अम्बादिषु सप्तम्यन्तेष्वेव। `जम्बष्ठः` इति। **ङ्यापोः संज्ञाछन्दसोर्बहुलम्** (6.3.63) इति ह्रस्वः। `स्थ` इति। स्वरूपग्रहणादन्येवां न प्राप्नोतीतीदमाह -`स्थास्थिन्स्थृणाम्` इत्यादि। एषामपि षत्वं वक्तव्यम्, व्याख्येयमित्यर्थः। तत्रैदं व्याख्यानम् -सुषामादेराकृ-तिगणत्वादेषां षत्वं भविष्यतीति। `सव्र्येष्ठा` [`सव्येष्ठाः` - काशिका] इति। सव्ये तिष्ठतीति `दिवेॠ।` (द।उ।2।7) इत्यनुवर्तमाने `नयतेर्डिच्च` (द।उ।2।8) इति डिति च `सव्ये स्थश्छब्दसि` (द।उ।2।9) इति सव्यशब्द उपपदे तिष्ठतेॠप्रत्ययः, डित्वाट्टिलोपः, `तत्पुरुषे` (6.3.13) इत्यादिना सम्पम्या अलुक्, सव्येष्ठृ इति स्थिते `ऋदुशनस्पुदोदंशोऽनेहसाम्` (7.1.94) इत्यादिमाब्नङ्, `सर्वनामस्णाने चासम्बुद्धौ` (6.4.8) इति दीर्घः। `परमेष्ठी` [`परमेष्ठीः` -काशिका] इति। `गमेरिधिः` (द।उ।6।57) इत्यनुवर्तमाने `परमे स्थः किच्च` [`कित्` इत्येव -द।उ।] (द।उ।6।61) इतीनिप्रत्ययः, कित्त्वादालोपः। परमेष्ठिन्निति स्थिते `सौ च` (6.4.13) इति दीर्घः। `सव्येष्ठृसारधिः` इति। पूर्ववत्? सव्येष्ठृशब्दं साधयित्वा सारधिशब्देन कर्मधारयः॥ Prakriyasarvasvam ----------------- विष्ठलम् । कुष्ठलम् । शामिष्ठलं तदधःस्थलम् । परिष्ठलम् । 'ङ्यापोः' (६-३-६३) इति शम्या ह्रस्वः ।। Sutra Prayogas -------------- * **कु-ष्ठले** (भट्टिकाव्यम्): `मि- कु.शमि` इत्यादिना पत्वम् ।